Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Guhya Nama Ucchista Ganesha | Sahasranamavali Stotram Lyrics in Hindi

Shri Guhya Nama Uchchishta Gabeshana Sahasranamavali Lyrics in Hindi:

॥ श्रीगुह्यनामौच्छिष्टगणेशानसहस्रनामावलिः ॥
॥ श्रीः ॥

ॐ श्रीगणेशाय नमः ।
(विशेषविधिस्तु) सर्वत्रादौ ॐ आं क्रों ह्रीं क्लीं ह्रीं ग्लौं
गं इति अष्टतारीसंयोजनम् महागणेशानोपासकैः ॐ श्रीं ह्रीं क्लीं
ग्लौं गं इति षट्तारीसंयोजनं सप्तत्रिंशदक्षर श्रीमदुच्छिष्टगणेशानोपासकैः
ॐ आं क्रों ह्रीं गं ग्लौं इति षट्तारीसंयोजनं च कर्तव्यम् ।
सर्वत्र नमोन्तप्रतिनामान्तप्रणवपल्लवितत्वमपि ॥ )
Use the prefix of eight bIjamantras ॐ आं क्रों ह्रीं क्लीं ह्रीं ग्लौं गं
if you are a follower of Mahaganesha.
Use the prefix of six bIjamantras ॐ श्रीं ह्रीं क्लीं ग्लौं गं
or ॐ आं क्रों ह्रीं गं ग्लौं
if you are a follower of Uchchishtaganapati. namaH follows for all names.
(For any general devotee, use only OM as given below.)

ॐ महागणाधिनाथाख्याय नमः ।
ॐ अष्टाविंशत्यक्षरात्मकाय नमः ।
ॐ तारश्रीशक्तिकन्दर्पभूस्मृतिबिन्दुसंयुताय नमः ।
ॐ ङेन्तगणपतिप्रोक्ताय नमः ।
ॐ वरवरदसंयुताय नमः ।
ॐ सर्वजनद्वितीयान्ताय नमः ।
ॐ आदित्यशिवसंयुताय नमः ।
ॐ वशमानयसंयुक्ताय नमः ।
ॐ वह्निजायासमर्पिताय नमः ।
ॐ गणकमुनिसन्दृष्टाय नमः । १० ।

ॐ निचृद्गायत्रभाषिताय नमः ।
ॐ सुरादिवन्द्यपादाब्जाय नमः ।
ॐ मनुराजविजृम्भिताय नमः ।
ॐ इक्षुसागरमध्यस्थाय नमः ।
ॐ रत्नद्वीपस्य मध्यगाय नमः ।
ॐ तरङ्गमालिकाधौतशीततरामलालयाय नमः ।
ॐ कल्पपादपसंशोभिमणिभूमिविराजिताय नमः ।
ॐ मृदुवातसमानीतदिव्यगन्धनिषेविताय नमः ।
ॐ नानाकुसुमसङ्कीर्णाय नमः ।
ॐ पक्षिवृन्दरवप्रियाय नमः । २० ।

ॐ युगपदृतुषटकेन संसेवितपदद्वयाय नमः ।
ॐ नवरत्नसमाविद्धसिंहासनसमास्थिताय नमः ।
ॐ जपापुष्पतिरस्कारिरक्तकान्तिसमुज्ज्वलाय नमः ।
ॐ वल्लभाश्लिष्टवामाङ्गाय नमः ।
ॐ एकादशकरान्विताय नमः ।
ॐ रत्नकुम्भाढ्यशुण्डाग्राय नमः ।
ॐ बीजापूरिणे नमः ।
ॐ गदाधराय नमः ।
ॐ इक्षुचापधराय नमः ।
ॐ शूलिने नमः । ३० ।

ॐ चक्रपाणये नमः ।
ॐ सरोजभृते नमः ।
ॐ पाशिने नमः ।
ॐ धृतोत्पलाय नमः ।
ॐ शालीमञ्जरीभृते नमः ।
ॐ स्वदन्तभृते नमः ।
ॐ पञ्चावरणचक्रेशाय नमः ।
ॐ षडाम्नायप्रपूजिताय नमः ।
ॐ मूलमन्त्राढ्यपूजाकाय नमः ।
ॐ षडङ्गपरिवारिताय नमः । ४० ।

ॐ परौघपूजनातुष्टाय नमः ।
ॐ दिव्यौघादिनिषेविताय नमः ।
ॐ श्रीश्रीपतिसन्तुष्टाय नमः ।
ॐ गिरिजातत्पतिप्रियाय नमः ।
ॐ रतिमन्मथसम्प्रीताय नमः ।
ॐ महीवराहपूजिताय नमः ।
ॐ ऋद्ध्यामोदप्रपूजाकाय नमः ।
ॐ समृद्धितत्पतिप्रियाय नमः ।
ॐ कान्तिसुमुखसुप्रीताय नमः ।
ॐ मदनावतिकदुर्मुखाय नमः । ५० ।

ॐ मदद्रवाविघ्नपूज्याय नमः ।
ॐ द्राविणीविघ्नेकर्तृकाय नमः ।
ॐ वसुधाराशङ्खपूज्याय नमः ।
ॐ वसुमतिकपद्मकाय नमः ।
ॐ ब्राह्मीप्रियाय नमः ।
ॐ ईश्वरीशाय नमः ।
ॐ कौमारीसेविताङ्घ्रिकाय नमः ।
ॐ वैष्णव्यर्चितपद्वन्द्वाय नमः ।
ॐ वाराहीसेविताङ्घ्रिकाय नमः ।
ॐ इद्राणीपूजितश्रीकाय नमः । ६० ।

ॐ चामुण्डश्रितपादुकाय नमः ।
ॐ महालक्ष्मीमहामातृसम्पूजितपदद्वयाय नमः ।
ॐ ऐरावतसमारूढवज्रहस्तेन्द्रपूजिताय नमः ।
ॐ अजोपरिसमारूढशक्तिहस्ताग्निसेविताय नमः ।
ॐ महिषारूढदण्डाढ्ययमदेवप्रपूजिताय नमः ।
ॐ नरारोहिखड्गहस्तनिरृत्याश्रितपादुकाय नमः ।
ॐ मकरवाहनारूढपाशाढ्यवरुणार्चिताय नमः ।
ॐ रुरोरुपरिसन्तिष्ठद्ध्वजाढ्यश्वसनार्चिताय नमः ।
ॐ अश्ववाहनशङ्खाढ्यसोमदेवप्रपूजिताय नमः ।
ॐ वृषभवाहनारूढत्रिशूलाढ्येशसेविताय नमः । ७० ।

ॐ पञ्चावरणपूजोद्यत्कारुण्याकुलमानसाय नमः ।
ॐ पञ्चावृतिनमस्याकभक्तवाञ्छाप्रपूरणाय नमः ।
ॐ एकमूर्तये नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ पञ्चाशन्मूर्तिभेदकाय नमः ।
ॐ ब्रह्मचारिसमाख्याकाय नमः ।
ॐ पत्नीसंयुतमूर्तिकाय नमः ।
ॐ नग्नपत्नीसमाश्लिष्टाय नमः ।
ॐ सुरतानन्दतुन्दिलाय नमः ।
ॐ सुमबाणेक्षुकोदण्डपाशाङ्कुशवरायुधाय नमः । ८० ।

ॐ कामिनीचुम्बनायुक्तसदालिङ्गनतत्पराय नमः ।
ॐ अण्डकर्णकपोलाख्यत्रिस्थानमदवारिराजे नमः ।
ॐ मदापोलुब्धमधुपैर्विचुम्बितकपोलकाय नमः ।
ॐ कामुकाय नमः ।
ॐ कामिनीकान्ताय नमः ।
ॐ कान्ताधरमधुव्रताय नमः ।
ॐ कामिनीहृदयाकर्षिणे नमः ।
ॐ वशागणनिषेविताय नमः ।
ॐ ऐरावतादिदिङ्नागमिथुनाष्टकपूजिताय नमः ।
ॐ सदा जायाश्रिताय नमः । ९० ।

ॐ अश्रान्ताय नमः ।
ॐ नग्नोपासकपूजिताय नमः ।
ॐ मांसाशिने नमः ।
ॐ वारुणीमत्ताय नमः ।
ॐ मत्स्यभुजे नमः ।
ॐ मैथुनप्रियाय नमः ।
ॐ मुद्रासप्तकसम्प्रीताय नमः ।
ॐ मपञ्चकनिषेविताय नमः ।
ॐ पञ्चाङ्गरागसुप्रीताय नमः ।
ॐ श‍ृङ्गाररसलम्पटाय नमः । १०० ।

ॐ कर्पूरवीटीसौगन्ध्यकल्लोलितककुप्तटाय नमः ।
ॐ उपासकवरिष्ठास्यवीट्यामौक्यनिरासकाय नमः ।
ॐ योन्याहितसुशुण्डाकाय नमः ।
ॐ योनिलालनलालसाय नमः ।
ॐ भगामोदसमाश्वासिने नमः ।
ॐ भगचुम्बनलम्पटाय नमः ।
ॐ कान्ताकुचसमालिङ्गिशुण्डामण्डितविग्रहाय नमः ।
ॐ उच्छिष्टाख्यगणेशानाय नमः ।
ॐ उच्छिष्टास्वादिसिद्धिदाय नमः ।
ॐ उच्छिष्टपूजनरताय नमः । ११० ।

ॐ उच्छिष्टजपसिद्धिदाय नमः ।
ॐ उच्छिष्टहोमसम्प्रीताय नमः ।
ॐ उच्छिष्टव्रतधारकाय नमः ।
ॐ उच्छिष्टतर्पणप्रीताय नमः ।
ॐ उच्छिष्टमार्जने रताय नमः ।
ॐ उच्छिष्टब्राह्मणकुलसन्तर्पणसुसाधिताय नमः ।
ॐ उच्छिष्टविघ्नराजेन्द्राय नमः ।
ॐ उच्छिष्टवस्तुपूजिताय नमः ।
ॐ उच्छिष्टमन्त्रसञ्जापिसर्वसिद्धिप्रकाशकाय नमः ।
ॐ उच्छिष्टोपचाररताय नमः । १२० ।

ॐ उच्छिष्टोपास्तिसिद्धिदाय नमः ।
ॐ मदिरानन्दसन्तोषिणे नमः ।
ॐ सदामत्ताय नमः ।
ॐ मदोद्धताय नमः ।
ॐ मधुराशिने नमः ।
ॐ मधूद्रिक्ताय नमः ।
ॐ मधुपानपरायणाय नमः ।
ॐ मधुस्नानपरामोदाय नमः ।
ॐ माधुर्यैकरसाश्रयाय नमः ।
ॐ मदिरासिन्धुसम्भूताय नमः । १३० ।

ॐ सुधामज्जनतत्पराय नमः ।
ॐ मदिराम्बुधिसंस्थायिने नमः ।
ॐ मदिरामज्जने रताय नमः ।
ॐ मदिरातर्पणप्रीताय नमः ।
ॐ मदिरामार्जनादृताय नमः ।
ॐ मदिरामोदसन्तोषिणे नमः ।
ॐ मदिरामोदलोलुपाय नमः ।
ॐ कादम्बरीरसोन्मत्ताय नमः ।
ॐ कादम्बरीप्रियाश्रिताय नमः ।
ॐ द्राक्षारससमाह्लादिने नमः । १४० ।

ॐ द्राक्षारसमदोल्वणाय नमः ।
ॐ वारुणीमदघूर्णाम्बाय नमः ।
ॐ वारुणीमदविह्वलाय नमः ।
ॐ नारिकेलरसास्वादिने नमः ।
ॐ नारिकेलमधुप्रियाय नमः ।
ॐ तालफलरसोन्मत्ताय नमः ।
ॐ तालमद्यपरायणाय नमः ।
ॐ पानसमद्यसुप्रीताय नमः ।
ॐ कदलीमद्यपानकाय नमः ।
ॐ दाडिमीरससम्प्रीताय नमः । १५० ।

ॐ गौडपानकलम्पटाय नमः ।
ॐ पौष्पीपानसदामत्ताय नमः ।
ॐ पौष्पीकरण्डमण्डिताय नमः ।
ॐ युवतीसुरतासक्ताय नमः ।
ॐ युवतीमणिते रताय नमः ।
ॐ मोदप्रमोदकृत्सङ्गाय नमः ।
ॐ भैरवानन्दवत्सलाय नमः ।
ॐ शुक्लसेव्याय नमः ।
ॐ शुक्लतुष्टाय नमः ।
ॐ शुक्लसिद्धिवरप्रदाय नमः । १६० ।

ॐ शुक्लधातुमहःपूज्याय नमः ।
ॐ ओजश्शक्तिप्रकाशनाय नमः ।
ॐ शुक्रादिमान्त्रिकैर्धुर्यैरर्धरात्रप्रपूजिताय नमः ।
ॐ मुक्तकच्छाय नमः ।
ॐ मुक्तकेशाय नमः ।
ॐ नग्नकान्तासमाश्रिताय नमः ।
ॐ ताम्बूलचर्वणायुक्ताय नमः ।
ॐ कर्पूरवीटिकामदाय नमः ।
ॐ कान्ताचर्वितताम्बूलरसास्वादनलम्पटाय नमः ।
ॐ विशेषतः कलियुगेसिद्धिदाय सुरपादपाय नमः । १७० ।

ॐ महापद्मादिखर्वान्तनिधिपौष्कल्यपोषकाय नमः ।
ॐ स्वल्पायाससुसम्प्रीताय नमः ।
ॐ कलौ तूर्णफलप्रदाय नमः ।
ॐ पितृकाननसंस्थायिने नमः ।
ॐ पितृकाननसिद्धिदाय नमः ।
ॐ माचीपत्रसमाराध्याय नमः ।
ॐ बृहतीपत्रतोषिताय नमः ।
ॐ दूर्वायुग्मनमस्याकाय नमः ।
ॐ धुत्तूरदलपूजिताय नमः ।
ॐ विष्णुक्रान्तसपर्याकाय नमः । १८० ।

ॐ गण्डलीपत्रसेविताय नमः ।
ॐ अर्कपत्रसुसंराध्याय नमः ।
ॐ अर्जुनपत्रकपूजिताय नमः ।
ॐ नानापत्रसुसम्प्रीताय नमः ।
ॐ नानापुष्पसुसेविताय नमः ।
ॐ सहस्रार्चनपूजायांसहस्रकमलप्रियाय नमः ।
ॐ पुन्नागपुष्पसम्प्रीताय नमः ।
ॐ मन्दारकुसुमप्रियाय नमः ।
ॐ बकुलपुष्पसन्तुष्टाय नमः ।
ॐ धुत्तूरसुमशेखराय नमः । १९० ।

ॐ रसालपुष्पसंशोभिने नमः ।
ॐ केतकीपुष्पसुप्रियाय नमः ।
ॐ पारिजातप्रसूनाढ्याय नमः ।
ॐ माधवीकुन्दतोषिताय नमः ।
ॐ शम्यालङ्कारसुप्रीताय नमः ।
ॐ मृणालपाटलीप्रियाय नमः ।
ॐ लक्षपङ्कजपूजायामणिमादिप्रसाधकाय नमः ।
ॐ संहितापदपाठादिघनान्तज्ञानदायकाय नमः ।
ॐ अष्टावधानसन्धायिने नमः ।
ॐ शतावधानपोषकाय नमः । २०० ।

ॐ साहस्रिकावधानश्रीपरिपाटीप्रवर्धनाय नमः ।
ॐ मनश्चिन्तितविज्ञात्रे नमः ।
ॐ मनसा चिन्तितप्रदाय नमः ।
ॐ भक्तत्राणव्यग्रचित्ताय नमः ।
ॐ स्मृतिमात्राभयप्रदाय नमः ।
ॐ स्मृतिमात्राखिलत्रात्रे नमः ।
ॐ साधकेष्टदतल्लजाय नमः ।
ॐ स्वसाधकविपक्षच्छिदे नमः ।
ॐ विपक्षजनभक्षकाय नमः ।
ॐ व्याधिहन्त्रे नमः । २१० ।

ॐ व्यथाहन्त्रे नमः ।
ॐ महाव्याधिविनाशनाय नमः ।
ॐ पैत्तिकार्तिप्रशमनाय नमः ।
ॐ श्लैष्मिकस्य विनाशकाय नमः ।
ॐ वातिकज्वरविध्वंसिने नमः ।
ॐ शूलगुल्मादिनाशनाय नमः ।
ॐ नेत्ररोगप्रशमनाय नमः ।
ॐ नित्यज्वरविनाशनाय नमः ।
ॐ कासादिव्याधिसंहर्त्रे नमः ।
ॐ सर्वज्वरविनाशनाय नमः । २२० ।

ॐ आधिहन्त्रे नमः ।
ॐ तमोहन्त्रे नमः ।
ॐ सर्वापद्विनिवारकाय नमः ।
ॐ धनदायिने नमः ।
ॐ यशोदायिने नमः ।
ॐ ज्ञानदायिने नमः ।
ॐ सुरद्रुमाय नमः ।
ॐ कल्यत्वदायकाय नमः ।
ॐ चिन्तामणये नमः ।
ॐ आयुष्यदायकाय नमः । २३० ।

ॐ परकायप्रवेशादियोगसिद्धिविधायकाय नमः ।
ॐ महाधनित्वसन्धात्रे नमः ।
ॐ धराधीशत्वदायकाय नमः ।
ॐ तापत्रयाग्निसन्तप्तसमाह्लादनकौमुद्यै नमः ।
ॐ जन्मव्याधिजरामृत्युमहाव्याधिविनाशकाय नमः ।
ॐ संसारकाननच्छेत्रे नमः ।
ॐ ब्रह्मविद्याप्रकाशकाय नमः ।
ॐ संसारभयविध्वंसिपराकामकलावपुषे नमः ।
ॐ उच्छिष्टाख्यगणाधीशाय नमः ।
ॐ वामाचरणपूजिताय नमः । २४० ।

ॐ नवाक्षरीमन्त्रराजाय नमः ।
ॐ दशवर्णकमन्त्रराजे नमः ।
ॐ एकादशाक्षरीरूपाय नमः ।
ॐ सप्तविंशतिवर्णकाय नमः ।
ॐ षट्त्रिंशदर्णसम्पूज्याय नमः ।
ॐ बलिमन्त्रप्रपूजिताय नमः ।
ॐ द्वादशाक्षरसन्निष्ठाय नमः ।
ॐ एकोनविंशतीष्टदाय नमः ।
ॐ सप्तवर्णाधिकत्रिंशदर्णमन्त्रस्वरूपकाय नमः ।
ॐ द्वात्रिंशदक्षरारूढाय नमः । २५० ।

ॐ दक्षिणाचारसेविताय नमः ।
ॐ पञ्चावृतिकयन्त्रोद्धवरिवस्याविधिप्रियाय नमः ।
ॐ नववर्णादिमन्त्रौघसम्प्रपूजितपादुकाय नमः ।
ॐ परौघीयगुरुव्यूहसन्तर्पणसुसाधिताय नमः ।
ॐ महत्पदसमायुक्तपादुकापूजनप्रियाय नमः ।
ॐ दक्षिणाभिमुखेशस्यपूजनेन वरप्रदाय नमः ।
ॐ दिव्यवृन्दसिद्धवृन्दमानवौघनिषेविताय नमः ।
ॐ त्रिवारं मूलमन्त्रेणबिन्दुचक्रे सुतर्पिताय नमः ।
ॐ षडङ्गदेवतापूज्याय नमः ।
ॐ षण्मुखाम्नायराजिताय नमः । २६० ।

ॐ तुषारसमशोभाकहृदयाम्बानमस्कृताय नमः ।
ॐ स्फटिकाश्मसमानश्रीशिरोदेवीनिषेविताय नमः ।
ॐ श्यामशोभासमुज्जृम्भिशिखादेवीप्रपूजिताय नमः ।
ॐ इन्द्रनीलमणिच्छायकवचाम्बापरीवृताय नमः ।
ॐ कृष्णवर्णसुशोभिश्रीनेत्रमातृसमावृताय नमः ।
ॐ आरुण्यौघनदीमज्जदस्त्राम्बासेविताङ्घ्रिकाय नमः ।
ॐ वसुदलाब्जमूलेषुशक्त्यष्टकसमन्विताय नमः ।
ॐ विद्यापूज्याय नमः ।
ॐ विश्वधात्रीभोगदार्चितपादुकाय नमः ।
ॐ विघ्ननाशिकया पूज्याय नमः । २७० ।

ॐ निधिप्रदापरीवृताय नमः ।
ॐ पापघ्निकापूज्यपादाय नमः ।
ॐ पुण्यादेवीनिषेविताय नमः ।
ॐ अन्वर्थनामसंराजिशशिप्रभाप्रपूजिताय नमः ।
ॐ दलाष्टकस्य मध्येषुसिद्ध्यष्टकपरीवृताय नमः ।
ॐ अणिम्नीपूजितपदाय नमः ।
ॐ महिम्न्यर्चितपादुकाय नमः ।
ॐ लघिम्नीचिन्तितपदाय नमः ।
ॐ गरिम्णीपूजिताङ्घ्रिकाय नमः ।
ॐ ईशित्वार्चितदेवेन्द्राय नमः । २८० ।

ॐ वशित्वार्चितवैभवाय नमः ।
ॐ प्राकाम्यदेवीसम्प्रीताय नमः ।
ॐ प्राप्तिसिद्धिप्रपूजिताय नमः ।
ॐ बाह्याष्टदलराजीवेवक्रतुण्डादिरूपकाय नमः ।
ॐ वक्रतुण्डाय नमः ।
ॐ एकदंष्ट्राय नमः ।
ॐ महोदराय नमः ।
ॐ गजाननाय नमः ।
ॐ लम्बोदराख्याय नमः ।
ॐ विकटाय नमः । २९० ।

ॐ विघ्नराजे नमः ।
ॐ धूम्रवर्णकाय नमः ।
ॐ बहिरष्टदलाग्रेषुब्राह्म्यादिमातृसेविताय नमः ।
ॐ मृगचर्मावृतस्वर्णकान्तिब्राह्मीसमावृताय नमः ।
ॐ नृकपालादिसम्बिभ्रच्चन्द्रगौरमहेशिकाय नमः ।
ॐ इन्द्रगोपारुणच्छायकौमारीवन्द्यपादुकाय नमः ।
ॐ नीलमेघसमच्छायवैष्णवीसुपरिष्कृताय नमः ।
ॐ अञ्जनाद्रिसमानश्रीवाराहीपर्यलङ्कृताय नमः ।
ॐ इन्द्रनीलप्रभापुञ्जलसदिन्द्राणिकायुताय नमः ।
ॐ शोणवर्णसमुल्लासिचामुण्डार्चितपादुकाय नमः । ३०० ।

ॐ स्वर्णकान्तितिरस्कारिमहालक्ष्मीनिषेविताय नमः ।
ॐ ऐरावतादिवज्रादिदेवेन्द्रादिप्रपूजिताय नमः ।
ॐ पञ्चावृतिनमस्यायामणिमादिप्रकाशकाय नमः ।
ॐ सङ्गुप्तविद्याय नमः ।
ॐ सङ्गुप्तवरिवस्याविधिप्रियाय नमः ।
ॐ वामाचरणसुप्रीताय नमः ।
ॐ क्षिप्रसन्तुष्टमानसाय नमः ।
ॐ कोङ्काचलशिरोवर्तिने नमः ।
ॐ कोङ्काचलजनप्रियाय नमः ।
ॐ कोङ्काम्बुदजलास्वादिने नमः । ३१० ।

ॐ कावेरीतीरवासकाय नमः ।
ॐ जाह्नवीमज्जनासक्ताय नमः ।
ॐ कालिन्दीमज्जने रताय नमः ।
ॐ शोणभद्राजलोद्भूताय नमः ।
ॐ शोणपाषाणरूपकाय नमः ।
ॐ सरय्वापःप्रवाहस्थाय नमः ।
ॐ नर्मदावारिवासकाय नमः ।
ॐ कौशिकीजलसंवासाय नमः ।
ॐ चन्द्रभागाम्बुनिष्ठिताय नमः ।
ॐ ताम्रपर्णीतटस्थायिने नमः । ३२० ।

ॐ महासारस्वतप्रदाय नमः ।
ॐ महानदीतटावासाय नमः ।
ॐ ब्रह्मपुत्राम्बुवासकाय नमः ।
ॐ तमसातम आकाराय नमः ।
ॐ महातमोपहारकाय नमः ।
ॐ क्षीरापगातीरवासिने नमः ।
ॐ क्षीरनीरप्रवर्धकाय नमः ।
ॐ कामकोटीपीठवासिने नमः ।
ॐ शङ्करार्चितपादुकाय नमः ।
ॐ ऋश्यश‍ृङ्गपुरस्थायिने नमः । ३३० ।

ॐ सुरेशार्चितवैभवाय नमः ।
ॐ द्वारकापीठसंवासिने नमः ।
ॐ पद्मपादार्चिताङ्घ्रिकाय नमः ।
ॐ जगन्नाथपुरस्थायिने नमः ।
ॐ तोटकाचार्यसेविताय नमः ।
ॐ ज्योतिर्मठालयस्थायिने नमः ।
ॐ हस्तामलकपूजिताय नमः ।
ॐ विद्याभोगयशोमोक्षयोगलिङ्गप्रतिष्ठिताय नमः ।
ॐ पञ्चलिङ्गप्रतिष्ठायिने नमः ।
ॐ द्वादशलिङ्गसंस्थिताय नमः । ३४० ।

ॐ कोलाचलपुरस्थायिने नमः ।
ॐ कामेशीनगरेश्वराय नमः ।
ॐ ज्वालामुखीमुखस्थायिने नमः ।
ॐ श्रीशैलकृतवासकाय नमः ।
ॐ लङ्केश्वराय नमः ।
ॐ कुमारीशाय नमः ।
ॐ काशीशाय नमः ।
ॐ मथुरेश्वराय नमः ।
ॐ मलयाद्रिशिरोवासिने नमः ।
ॐ मलयानिलसेविताय नमः । ३५० ।

ॐ शोणाद्रिशिखरारूढाय नमः ।
ॐ शोणाद्रीशप्रियङ्कराय नमः ।
ॐ जम्बूवनान्तमध्यस्थाय नमः ।
ॐ वल्मीकपुरमध्यगाय नमः ।
ॐ पञ्चाशत्पीठनिलयाय नमः ।
ॐ पञ्चाशदक्षरात्मकाय नमः ।
ॐ अष्टोत्तरशतक्षेत्राय नमः ।
ॐ अष्टोत्तरशतपूजिताय नमः ।
ॐ रत्नशैलकृतावासाय नमः ।
ॐ शुद्धज्ञानप्रदायकाय नमः । ३६० ।

ॐ शातकुम्भगिरिस्थायिने नमः ।
ॐ शातकुम्भोदरस्थिताय नमः ।
ॐ गोमयप्रतिमाविष्टाय नमः ।
ॐ श्वेतार्कतनुपूजिताय नमः ।
ॐ हरिद्राबिम्बसुप्रीताय नमः ।
ॐ निम्बबिम्बसुपूजिताय नमः ।
ॐ अश्वत्थमूलसंस्थायिने नमः ।
ॐ वटवृक्षाधरस्थिताय नमः ।
ॐ निम्बवृक्षस्य मूलस्थाय नमः ।
ॐ प्रतिग्रामाधिदैवताय नमः । ३७० ।

ॐ अश्वत्थनिम्बसंयोगेप्रियालिङ्गितमूर्तिकाय नमः ।
ॐ गम्बीजरूपाय नमः ।
ॐ एकार्णाय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ ग्लैम्बीजाख्याय नमः ।
ॐ गणेशानाय नमः ।
ॐ गोङ्काराय नमः ।
ॐ एकवर्णकाय नमः ।
ॐ विरिरूपाय नमः । ३८० ।

ॐ विघ्नहन्त्रे नमः ।
ॐ दृष्टादृष्टफलप्रदाय नमः ।
ॐ पत्नीवराङ्गसत्पाणये नमः ।
ॐ सिन्दूराभाय नमः ।
ॐ कपालभृते नमः ।
ॐ लक्ष्मीगणेशाय नमः ।
ॐ हेमाभाय नमः ।
ॐ एकोनत्रिंशदक्षराय नमः ।
ॐ वामाङ्गाविष्टलक्ष्मीकाय नमः ।
ॐ महाश्रीप्रविधायकाय नमः । ३९० ।

ॐ त्र्यक्षराय नमः ।
ॐ शक्तिगणपाय नमः ।
ॐ सर्वसिद्धिप्रपूरकाय नमः ।
ॐ चतुरक्षरशक्तीशाय नमः ।
ॐ हेमच्छायाय नमः ।
ॐ त्रिणेत्रकाय नमः ।
ॐ क्षिप्रप्रसादपङ्क्त्यर्णाय नमः ।
ॐ रक्ताभाय नमः ।
ॐ कल्पवल्लिभृते नमः ।
ॐ पञ्चवक्त्राय नमः । ४०० ।

ॐ सिंहवाहाय नमः ।
ॐ हेरम्बाय नमः ।
ॐ चतुरर्णकाय नमः ।
ॐ सुब्रह्मण्यगणेशानाय नमः ।
ॐ धात्वर्णाय नमः ।
ॐ सर्वकामदाय नमः ।
ॐ अरुणाभतनुश्रीकाय नमः ।
ॐ कुक्कुटोद्यत्करान्विताय नमः ।
ॐ अष्टाविंशतिवर्णात्ममन्त्रराजसुपूजिताय नमः ।
ॐ गन्धर्वसिद्धसंसेव्याय नमः । ४१० ।

ॐ व्याघ्रद्विपादिभीकराय नमः ।
ॐ मन्त्रशास्त्रमहोदन्वत्समुद्यतकलानिधये नमः ।
ॐ जनसम्बाधसम्मोहिने नमः ।
ॐ नवद्रव्यविशेषकाय नमः ।
ॐ कामनाभेदसंसिद्धविविधध्यानभेदकाय नमः ।
ॐ चतुरावृत्तिसन्तृप्तिप्रीताय नमः ।
ॐ अभीष्टसमर्पकाय नमः ।
ॐ चन्द्रचन्दनकाश्मीरकस्तूरीजलतर्पिताय नमः ।
ॐ शुण्डाग्रजलसन्तृप्तिकैवल्यफलदायकाय नमः ।
ॐ शिरःकृतपयस्तृप्तिसर्वसम्पद्विधायकाय नमः । ४२० ।

ॐ गुह्यदेशमधुद्रव्यसन्तृप्त्याकामदायकाय नमः ।
ॐ नेत्रद्वयमधुद्रव्यतृप्त्याकृष्टिविधायकाय नमः ।
ॐ पृष्ठदेशघृतद्रव्यतृप्तिभूपवशङ्कराय नमः ।
ॐ एरण्डतैलसन्तृप्तिरण्डाकर्षकनाभिकाय नमः ।
ॐ ऊरुयुग्मकतैलीयतर्पणातिप्रमोदिताय नमः ।
ॐ प्रीतिप्रवर्धकांसीयपयःपयःप्रतर्पणाय नमः ।
ॐ धर्मवर्धकतुण्डीयद्रव्यत्रयसुतर्पणाय नमः ।
ॐ अष्टद्रव्याहुतिप्रीताय नमः ।
ॐ विविधद्रव्यहोमकाय नमः ।
ॐ ब्राह्ममुहूर्तनिष्पन्नहोमकर्मप्रसादिताय नमः । ४३० ।

ॐ मधुद्रव्यकहोमेनस्वर्णसमृद्धिवर्धकाय नमः ।
ॐ गोदुग्धकृतहोमेनगोसमृद्धिविधायकाय नमः ।
ॐ आज्याहुतिकहोमेनलक्ष्मीलासविलासकाय नमः ।
ॐ शर्कराहुतिहोमेनकाष्ठाष्टकयशःप्रदाय नमः ।
ॐ दधिद्रव्यकहोमेनसर्वसम्पत्तिदायकाय नमः ।
ॐ शाल्यन्नकृतहोमेनान्नसमृद्धिवितारकाय नमः ।
ॐ सतण्डुलतिलाहुत्याद्रव्यकदम्बपूरकाय नमः ।
ॐ लाजाहुतिकहोमेनदिगन्तव्यापिकीर्तिदाय नमः ।
ॐ जातीप्रसूनहोमेनमेधाप्रज्ञाप्रकाशकाय नमः ।
ॐ दूर्वात्रिकीयहोमेनपूर्णायुःप्रतिपादकाय नमः । ४४० ।

ॐ सुपीतसुमहोमेनवैरिभूपतिशिक्षकाय नमः ।
ॐ विभीतकसमिद्धोमैःस्तम्भनोच्चाटसिद्धिदाय नमः ।
ॐ अपामार्गसमिद्धौमैःपण्ययोषावशङ्कराय नमः ।
ॐ एरण्डकसमिद्धोमैःरण्डासङ्घवशङ्कराय नमः ।
ॐ निम्बद्रुदलहोमेनविद्वेषणविधायकाय नमः ।
ॐ धृताक्तदौग्धशाल्यन्नहोमैरिष्टफलप्रदाय नमः ।
ॐ तिलादिचतुराहुत्यासर्वप्राणिवशङ्कराय नमः ।
ॐ नानाद्रव्यसमिद्धोमैराकर्षणादिसिद्धिदाय नमः ।
ॐ त्रैलोक्यमोहनाय नमः ।
ॐ विघ्नाय नमः । ४५० ।

ॐ त्र्यधिकत्रिंशदर्णकाय नमः ।
ॐ द्वादशाक्षरशक्तीशाय नमः ।
ॐ पत्नीवराङ्गहस्तकाय नमः ।
ॐ मुक्ताचन्द्रौघदीप्ताभाय नमः ।
ॐ विरिविघ्नेशपद्धतये नमः ।
ॐ एकादशाक्षरीमन्त्रोल्लासिने नमः ।
ॐ भोगगणाधिपाय नमः ।
ॐ द्वात्रिंशदर्णसंयुक्ताय नमः ।
ॐ हरिद्रागणपाय नमः ।
ॐ महते नमः । ४६० ।

ॐ जगत्त्रयहिताय नमः ।
ॐ भोगमोक्षदाय नमः ।
ॐ कविताकराय नमः ।
ॐ षडर्णाय नमः ।
ॐ पापविध्वंसिने नमः ।
ॐ सर्वसौभाग्यदायकाय नमः ।
ॐ वक्रतुण्डाभिधाय नमः ।
ॐ श्रीमते नमः ।
ॐ भजतां कामदाय मणये नमः ।
ॐ मेघोल्कादिमहामन्त्राय नमः । ४७० ।

ॐ सर्ववश्यफलप्रदाय नमः ।
ॐ आथर्वणिकमन्त्रात्मने नमः ।
ॐ रायस्पोषादिमन्त्रराजे नमः ।
ॐ वक्रतुण्डेशगायत्रीप्रतिपादितवैभवाय नमः ।
ॐ पिण्डमन्त्रादिमालान्तसर्वमन्त्रौघविग्रहाय नमः ।
ॐ सञ्जप्तिहोमसन्तृप्तिसेकभोजनसाधिताय नमः ।
ॐ पञ्चाङ्गकपुरश्चर्याय नमः ।
ॐ अर्णलक्षजपसाधिताय नमः ।
ॐ कोट्यावृत्तिकसञ्जप्तिसिद्धीश्वरत्वदायकाय नमः ।
ॐ कृष्णाष्टमीसमारब्धमासेनैकेनसाधिताय नमः । ४८० ।

ॐ मातृकया पुटीकृत्यमासेनैकेन साधिताय नमः ।
ॐ भूतलिप्या पुटीकृत्यमासेनैकेन साधिताय नमः ।
ॐ त्रिषष्ट्यक्षरसंयुक्तमातृकापुटसिद्धिदाय नमः ।
ॐ कृष्णाष्टमीसमारब्धदिनसप्तकसिद्धिदाय नमः ।
ॐ अर्केन्दुग्रहकालीनजपाज्झटितिसिद्धिदाय नमः ।
ॐ निशात्रिकालपूजाकमासेनैकेनसिद्धिदाय नमः ।
ॐ मन्त्रार्णौषधिनिष्पन्नगुटिकाभिःसुसिद्धिदाय नमः ।
ॐ सूर्योदयसमारम्भदिनेनैकेनसाधिताय नमः ।
ॐ सहस्राराम्बुजारूढदेशिकस्मृतिसिद्धिदाय नमः ।
ॐ शिवोंहभावनासिद्धसर्वसिद्धिविलासकाय नमः । ४९० ।

ॐ पराकामकलाध्यानसिद्धीश्वरत्वदायकाय नमः ।
ॐ अकाराय नमः ।
ॐ अग्रियपूजाकाय नमः ।
ॐ अमृतानन्ददायकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अनन्तावतारेष्वनन्तफलदायकाय नमः ।
ॐ अष्टाङ्गपातसम्प्रीताय नमः ।
ॐ अष्टविधमैथुनप्रियाय नमः ।
ॐ अष्टपुष्पसमाराध्याय नमः ।
ॐ अष्टाध्यायीज्ञानदायकाय नमः । ५०० ।

ॐ आरब्धकर्मनिर्विघ्नपूरयित्रे नमः ।
ॐ आक्षपाटिकाय नमः ।
ॐ इन्द्रगोपसमानश्रिये नमः ।
ॐ इक्षुभक्षणलालसाय नमः ।
ॐ ईकारवर्णसम्बुद्धपराकामकलात्मकाय नमः ।
ॐ ईशानपुत्राय नमः ।
ॐ ईशानाय नमः ।
ॐ ईषणात्रयमार्जकाय नमः ।
ॐ उद्दण्डाय नमः ।
ॐ उग्राय नमः । ५१० ।

ॐ उदग्राय नमः ।
ॐ उण्डेरकबलिप्रियाय नमः ।
ॐ ऊर्जस्वते नमः ।
ॐ ऊष्मलमदाय नमः ।
ॐ ऊहापोहदुरासदाय नमः ।
ॐ ऋजुचित्तैकसुलभाय नमः ।
ॐ ऋणत्रयविमोचकाय नमः ।
ॐ ऋगर्थवेत्रे नमः ।
ॐ ॠकाराय नमः ।
ॐ ॠकाराक्षररूपधृजे नमः । ५२० ।

ॐ ऌवर्णरूपाय नमः ।
ॐ ॡवर्णाय नमः ।
ॐ ॡकाराक्षरपूजिताय नमः ।
ॐ एधिताखिलभक्तश्रिये नमः ।
ॐ एधिताखिसंश्रयाय नमः ।
ॐ एकाररूपाय नमः ।
ॐ ऐकाराय नमः ।
ॐ ऐम्पुटितस्मृतिबिन्दुकाय नमः ।
ॐ ओङ्कारवाच्याय नमः ।
ॐ ओङ्काराय नमः । ५३० ।

ॐ ओङ्काराक्षररूपधृजे नमः ।
ॐ औङ्काराढ्यगभूयुक्ताय नमः ।
ॐ औम्पूर्वयुग्गकारकाय नमः ।
ॐ अंशांशिभावसन्दृष्टाय नमः ।
ॐ अंशांशिभावविवर्जिताय नमः ।
ॐ अःकारान्तसमस्ताच्कवर्णमण्डलपूजिताय नमः ।
ॐ कतृतीयविसर्गाढ्याय नमः ।
ॐ कतृतीयार्णकेवलाय नमः ।
ॐ कर्पूरतिलकोद्भासिललाटोर्ध्वप्रदेशकाय नमः ।
ॐ खल्वाटभूमिसंरक्षिणे नमः । ५४० ।

ॐ खल्वाटबुद्धिभेषजाय नमः ।
ॐ खट्वाङ्गायुधसंयुक्ताय नमः ।
ॐ खड्गोद्यतकरान्विताय नमः ।
ॐ खण्डिताखिलदुर्भिक्षाय नमः ।
ॐ खनिलक्ष्मीप्रदर्शकाय नमः ।
ॐ खदिराधिकसाराढ्याय नमः ।
ॐ खलीकृतविपक्षकाय नमः ।
ॐ गान्धर्वविद्याचतुराय नमः ।
ॐ गन्धर्वनिकरप्रियाय नमः ।
ॐ घपूर्वबीजसन्निष्टाय नमः । ५५० ।

ॐ घोरघर्घरबृंहिताय नमः ।
ॐ घण्टानिनादसन्तुष्टाय नमः ।
ॐ घार्णाय नमः ।
ॐ घनागमप्रियाय नमः ।
ॐ चतुर्वेदेषु सङ्गीताय नमः ।
ॐ चतुर्थवेदनिष्ठिताय नमः ।
ॐ चतुर्दशकसंयुक्तचतुर्युक्तचतुश्शताय नमः ।
ॐ चतुर्थीपूजनप्रीताय नमः ।
ॐ चतुरात्मने नमः ।
ॐ चतुर्गतये नमः । ५६० ।

ॐ चतुर्थीतिथिसम्भूताय नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः ।
ॐ छत्रिणे नमः ।
ॐ छद्मने नमः ।
ॐ छलाय नमः ।
ॐ छन्दोवपुषे नमः ।
ॐ छन्दोवतारकाय नमः ।
ॐ जगद्बन्धवे नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगद्रक्षिणे नमः । ५७० ।

ॐ जगन्मयाय नमः ।
ॐ जगद्योनये नमः ।
ॐ जगद्रूपाय नमः ।
ॐ जगदात्मने नमः ।
ॐ जगन्निधये नमः ।
ॐ जरामरणविध्वंसिने नमः ।
ॐ जगदानन्ददायकाय नमः ।
ॐ जागुडानुकृतिच्छायाय नमः ।
ॐ जाग्रदादिप्रकाशकाय नमः ।
ॐ जाम्बूनदसमच्छायाय नमः । ५८० ।

ॐ जपसम्प्रीतमानसाय नमः ।
ॐ जपयोगसुसंवेद्याय नमः ।
ॐ जपतत्परसिद्धिदाय नमः ।
ॐ जपाकुसुमसङ्काशाय नमः ।
ॐ जातीपूजकवाक्प्रदाय नमः ।
ॐ जयन्तीदिनसुप्रीताय नमः ।
ॐ जयन्तीपूजिताङ्घ्रिकाय नमः ।
ॐ जगद्भानतिरस्कारिणे नमः ।
ॐ जगद्भानतिरोहिताय नमः ।
ॐ जगद्रूपमहामायाधिष्ठानचिन्मयात्मकाय नमः । ५९० ।

ॐ झञ्झानिलसमश्वासिन नमः ।
ॐ झिल्लिकासमकान्तिकाय नमः ।
ॐ झलझ्झलासुसंशोभिशूर्पाकृतिद्विकर्णकाय नमः ।
ॐ टङ्ककर्मविनाभावस्वयम्भूतकलेवराय नमः ।
ॐ ठक्कुराय नमः ।
ॐ ठक्कुराराध्याय नमः ।
ॐ ठक्कुराकृतिशोभिताय नमः ।
ॐ डिण्डिमस्वनसंवादिने नमः ।
ॐ डमरुप्रियपुत्रकाय नमः ।
ॐ ढक्कावादनसन्तुष्टाय नमः । ६०० ।

ॐ ढुण्ढिराजविनायकाय नमः ।
ॐ तुन्दिलाय नमः ।
ॐ तुन्दिलवपुषे नमः ।
ॐ तपनाय नमः ।
ॐ तापरोषध्ने नमः ।
ॐ तारकब्रह्मसंस्थानाय नमः ।
ॐ तारानायकशेखराय नमः ।
ॐ तारुण्याढ्यवधूसङ्गिने नमः ।
ॐ तत्त्ववेत्रे नमः ।
ॐ त्रिकालविदे नमः । ६१० ।

ॐ स्थूलाय नमः ।
ॐ स्थूलकराय नमः ।
ॐ स्थेयाय नमः ।
ॐ स्थितिकर्त्रे नमः ।
ॐ स्थितिप्रदाय नमः ।
ॐ स्थाणवे नमः ।
ॐ स्थिराय नमः ।
ॐ स्थलेशायिने नमः ।
ॐ स्थाण्डिलकुलपूजिताय नमः ।
ॐ दुःखहन्त्रे नमः । ६२० ।

ॐ दुःखदायिने नमः ।
ॐ दुर्भिक्षादिविनाशकाय नमः ।
ॐ धनधान्यप्रदाय नमः ।
ॐ ध्येयाय नमः ।
ॐ ध्यानस्तिमितलोचनाय नमः ।
ॐ धीराय नमः ।
ॐ धिये नमः ।
ॐ धीरधिये नमः ।
ॐ धुर्याय नमः ।
ॐ धुरीणत्वप्रदायकाय नमः । ६३० ।

ॐ ध्यानयोगैकसन्दृष्टाय नमः ।
ॐ ध्यानयोगैकलम्पटाय नमः ।
ॐ नारायणप्रियाय नमः ।
ॐ नम्याय नमः ।
ॐ नरनारीजनाश्रयाय नमः ।
ॐ नग्नपूजनसन्तुष्टाय नमः ।
ॐ नग्ननीलासमावृताय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निराधाराय नमः ।
ॐ निर्लेपाय नमः । ६४० ।

ॐ निरवग्रहाय नमः ।
ॐ निशीथिनीनमस्याकाय नमः ।
ॐ निशीथिनीजपप्रियाय नमः ।
ॐ नामपारायणप्रीताय नमः ।
ॐ नामरूपप्रकाशकाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ प्रातस्सन्ध्यारुणवपुःप्रभाय नमः ।
ॐ फुल्लपुष्पसमूह श्रीसम्भूषितसुमस्तकाय नमः ।
ॐ फाल्गुनानुजपूजाकाय नमः ।
ॐ फेत्कारतन्त्रवर्णिताय नमः । ६५० ।

ॐ ब्राह्मणादिसमाराध्याय नमः ।
ॐ बालपूज्याय नमः ।
ॐ बलप्रदाय नमः ।
ॐ बाणार्चितपदद्वन्द्वाय नमः ।
ॐ बालकेलिकुतूहलाय नमः ।
ॐ भवानीहृदयानन्दिने नमः ।
ॐ भावगम्याय नमः ।
ॐ भवात्मजाय नमः ।
ॐ भवेशाय नमः ।
ॐ भव्यरूपाढ्याय नमः । ६६० ।

ॐ भार्गवेशाय नमः ।
ॐ भृगोःसुताय नमः ।
ॐ भव्याय नमः ।
ॐ भव्यकलायुक्ताय नमः ।
ॐ भावनावशतत्पराय नमः ।
ॐ भगवते नमः ।
ॐ भक्तिसुलभाय नमः ।
ॐ भयहन्त्रे नमः ।
ॐ भयप्रदाय नमः ।
ॐ मायाविने नमः । ६७० ।

ॐ मानदाय नमः ।
ॐ मानिने नमः ।
ॐ मनोभिमानशोधकाय नमः ।
ॐ महाहवोद्यतक्रीडाय नमः ।
ॐ मन्दहासमनोहराय नमः ।
ॐ मनस्विने नमः ।
ॐ मानविध्वंसिने नमः ।
ॐ मदलालसमानसाय नमः ।
ॐ यशस्विने नमः ।
ॐ यशआशंसिने नमः । ६८० ।

ॐ याज्ञिकाय नमः ।
ॐ याज्ञिकप्रियाय नमः ।
ॐ राजराजेश्वराय नमः ।
ॐ राज्ञे नमः ।
ॐ रामाय नमः ।
ॐ रमणलम्पटाय नमः ।
ॐ रसराजसमास्वादिने नमः ।
ॐ रसराजैकपूजिताय नमः ।
ॐ लक्ष्मीवते नमः ।
ॐ लक्ष्मसम्पन्नाय नमः । ६९० ।

ॐ लक्ष्याय नमः ।
ॐ लक्षणसंयुताय नमः ।
ॐ लक्ष्यलक्षणभावस्थाय नमः ।
ॐ लययोगविभाविताय नमः ।
ॐ वीरासनसमासीनाय नमः ।
ॐ वीरवन्द्याय नमः ।
ॐ वरेण्यदाय नमः ।
ॐ विविधार्थज्ञानदात्रे नमः ।
ॐ वेदवेदान्तवित्तमाय नमः ।
ॐ शिखिवाहसमारूढाय नमः । ७०० ।

ॐ शिखिवाहननाथिताय नमः ।
ॐ श्रीविद्योपासनप्रीताय नमः ।
ॐ श्रीविद्यामन्त्रैविग्रहाय नमः ।
ॐ षडाधारक्रमप्रीताय नमः ।
ॐ षडाम्नायेषु संस्थिताय नमः ।
ॐ षड्दर्शनीपारदृश्वने नमः ।
ॐ षडध्वातीतरूपकाय नमः ।
ॐ षडूर्मिवृन्दविध्वंसिने नमः ।
ॐ षट्कोणमध्यबिन्दुगाय नमः ।
ॐ षट्त्रिंशत्तत्त्वसन्निष्ठाय नमः । ७१० ।

ॐ षट्कर्मसङ्घसिद्धिदाय नमः ।
ॐ षड्वैरिवर्गविध्वंसिविघ्नेश्वरगजाननाय नमः ।
ॐ सत्ताज्ञानादिरूपाढ्याय नमः ।
ॐ साहसाद्भुतखेलनाय नमः ।
ॐ सर्परूपधराय नमः ।
ॐ संविदे नमः ।
ॐ संसाराम्बुधितारकाय नमः ।
ॐ सर्पसङ्घसमाश्लिष्टाय नमः ।
ॐ सर्पकुण्डलितोदराय नमः ।
ॐ सप्तविंशतिऋक्पूज्याय नमः । ७२० ।

ॐ स्वाहायुङ्मन्त्रविग्रहाय नमः ।
ॐ सर्वकर्मसमारम्भसम्पूजितपदद्वयाय नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ स्वयम्प्रकाशमूर्तिकाय नमः ।
ॐ स्वयन्भूलिङ्गसंस्थायिने नमः ।
ॐ स्वयम्भूलिङ्गपूजिताय नमः ।
ॐ हव्याय नमः ।
ॐ हुतप्रियाय नमः ।
ॐ होत्रे नमः । ७३० ।

ॐ हुतभुजे नमः ।
ॐ हवनप्रियाय नमः ।
ॐ हरलालनसन्तुष्टाय नमः ।
ॐ हलाहलाशिपुत्रकाय नमः ।
ॐ ह्रीङ्काररूपाय नमः ।
ॐ हुङ्काराय नमः ।
ॐ हाहाकारसमाकुलाय नमः ।
ॐ हिमाचलसुतासूनवे नमः ।
ॐ हेमभास्वरदेहकाय नमः ।
ॐ हिमाचलशिखारूढाय नमः । ७४० ।

ॐ हिमधामसमद्युतये नमः ।
ॐ क्षोभहन्त्रे नमः ।
ॐ क्षुधाहन्त्रे नमः ।
ॐ क्षैण्यहन्त्रे नमः ।
ॐ क्षमाप्रदाय नमः ।
ॐ क्षमाधारिणे नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ क्षपाकरनिभाय नमः ।
ॐ क्षमिणे नमः ।
ॐ ककारादिक्षकारान्तसर्वहल्कप्रपूजिताय नमः । ७५० ।

ॐ अकारादिक्षकारान्तवर्णमालाविजृम्भिताय नमः ।
ॐ अकारादिक्षकारान्तमहासरस्वतीमयाय नमः ।
ॐ स्थूलतमशरीराढ्याय नमः ।
ॐ कारुकर्मविजृम्भिताय नमः ।
ॐ स्थूलतरस्वरूपाढ्याय नमः ।
ॐ चक्रजालप्रकाशिताय नमः ।
ॐ स्थूलरूपसमुज्जृम्भिणे नमः ।
ॐ हृदब्जध्यातरूपकाय नमः ।
ॐ सूक्ष्मरूपसमुल्लासिने नमः ।
ॐ मन्त्रजालस्वरूपकाय नमः । ७६० ।

ॐ सूक्ष्मतरतनुश्रीकाय नमः ।
ॐ कुण्डलिनीस्वरूपकाय नमः ।
ॐ सुक्ष्मतमवपुश्शोभिने नमः ।
ॐ पराकामकलातनवे नमः ।
ॐ पररूपसमुद्भासिने नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ परापरवपुर्धारिणे नमः ।
ॐ सप्तरूपविलासिताय नमः ।
ॐ षडाम्नायमहामन्त्रनिकुरुम्बनिषेविताय नमः ।
ॐ तत्पुरुषमुखोत्पन्नपूर्वाम्नायमनुप्रियाय नमः । ७७० ।

ॐ अघोरमुखसञ्जातदक्षिणाम्नायपूजिताय नमः ।
ॐ सद्योजातमुखोत्पन्नपश्चिमाम्नायसेविताय नमः ।
ॐ वामदेवमुखोत्पन्नोत्तराम्नायप्रपूजिताय नमः ।
ॐ ईशानमुखसञ्जातोर्ध्वाम्नायमनुसेविताय नमः ।
ॐ विमर्शमुखसञ्जातानुत्तराम्नायपूजिताय नमः ।
ॐ तोटकाचार्यसन्दिष्टपूर्वाम्नायकमन्त्रकाय नमः ।
ॐ सुरेशसमुपादिष्टदक्षिणाम्नायमन्त्रकाय नमः ।
ॐ पद्मपादसमादिष्टपश्चिमाम्नायमन्त्रकाय नमः ।
ॐ हस्तामलकसन्दिष्टोत्तराम्नायकमन्त्रकाय नमः ।
ॐ शङ्कराचार्यसन्दिष्टोर्ध्वाम्नायाखिलमन्त्रकाय नमः । ७८० ।

ॐ दक्षिणामूर्तिसन्दिष्टनुत्तराम्नायमन्त्रकाय नमः ।
ॐ सहजानन्दसन्दिष्टानुत्तराम्नायमन्त्रकाय नमः ।
ॐ पूर्वाम्नायकमन्त्रौघैःसृष्टिशक्तिप्रकाशकाय नमः ।
ॐ दक्षिणाम्नायमन्त्रौघैःस्थितिशक्तिप्रकाशकाय नमः ।
ॐ पश्चिमाम्नायमन्त्रौघैर्हृतिशक्तिप्रकाशकाय नमः ।
ॐ उत्तराम्नायमन्त्रौघैस्तिरोधानप्रकाशकाय नमः ।
ॐ ऊर्ध्वाम्नायकमन्त्रौघैरनुग्रहप्रकाशकाय नमः ।
ॐ अनुत्तरगमन्त्रौघैःसहजानन्दलासकाय नमः ।
ॐ सर्वाम्नायकसन्दिष्टानुस्यूतचित्सुखात्मकाय नमः ।
ॐ सृष्टिकर्त्रे नमः । ७९० ।

ॐ ब्रह्मरूपाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गोविन्दरूपकाय नमः ।
ॐ संहारकृते नमः ।
ॐ रुद्ररूपाय नमः ।
ॐ तिरोधायकाय नमः ।
ॐ ईश्वराय नमः ।
ॐ सदाशिवाय नमः ।
ॐ अनुग्रहीत्रे नमः ।
ॐ पञ्चकृत्यपरायणाय नमः । ८०० ।

ॐ अणिमादिगुणास्पृष्टाय नमः ।
ॐ निर्गुणानन्दरूपकाय नमः ।
ॐ सर्वात्मभावनारूपाय नमः ।
ॐ सुखमात्रानुभावकाय नमः ।
ॐ स्वस्वरूपसुसंशोभिने नमः ।
ॐ ताटस्थिकस्वरूपकाय नमः ।
ॐ षड्गुणाय नमः ।
ॐ अखिलकल्याणगुणराजिविराजिताय नमः ।
ॐ यज्ञाग्निकुण्डसम्भूताय नमः ।
ॐ क्षीरसागरमध्यगाय नमः । ८१० ।

ॐ त्रिदशकारुनिष्पन्नस्वानन्दभवनस्थिताय नमः ।
ॐ ऊरीकृतेशपुत्रत्वाय नमः ।
ॐ नीलवाणीविवाहिताय नमः ।
ॐ नीलसरस्वतीमन्त्रजपतात्पर्यसिद्धिदाय नमः ।
ॐ विद्यावदसुरध्वंसिने नमः ।
ॐ सुररक्षासमुद्यताय नमः ।
ॐ चिन्तामणिक्षेत्रवासिने नमः ।
ॐ चिन्तिताखिलपूरकाय नमः ।
ॐ महापापौघविध्वंसिने नमः ।
ॐ देवेन्द्रकृतपूजनाय नमः । ८२० ।

ॐ तारारम्भिणे नमः ।
ॐ नमोयुक्ताय नमः ।
ॐ भगवत्पदङेन्तगाय नमः ।
ॐ एकदंष्ट्रायसंयुक्ताय नमः ।
ॐ हस्तिमुखायसंयुताय नमः ।
ॐ लम्बोदरचतुर्थ्यन्तविराजितकलेबराय नमः ।
ॐ उच्छिष्टपदसंराजिने नमः ।
ॐ महात्मनेपदप्रियाय नमः ।
ॐ आङ्क्रोंह्रीङ्गंसमायुक्ताय नमः ।
ॐ घेघेस्वाहासमापिताय नमः । ८३० ।

ॐ तारारब्धमहामन्त्राय नमः ।
ॐ हस्तिमुखान्तङेयुताय नमः ।
ॐ लम्बोदरायसंयुक्ताय नमः ।
ॐ डेन्तोच्छिष्टमहात्मयुजे नमः ।
ॐ पाशाङ्कुशत्रपामाराय नमः ।
ॐ हृल्लेखासमलङ्कृताय नमः ।
ॐ वर्मघेघेसमारूढाय नमः ।
ॐ उच्छिष्टायपदोपधाय नमः ।
ॐ वह्निजायासुसम्पूर्णाय नमः ।
ॐ मन्त्रराजद्वयान्विताय नमः । ८४० ।

ॐ हेरम्बाख्यगणेशानाय नमः ।
ॐ लक्ष्मीयुतगजाननाय नमः ।
ॐ तारुण्येशाय नमः ।
ॐ बालरूपिणे नमः ।
ॐ शक्तीशाय नमः ।
ॐ वीरनामकाय नमः ।
ॐ ऊर्ध्वसमाख्याय नमः ।
ॐ उच्छिष्टाय नमः ।
ॐ विजयाय नमः ।
ॐ नृत्यकर्मकाय नमः । ८५० ।

ॐ विघ्नविध्वंसिविघ्नेशाय नमः ।
ॐ द्विजपूर्वगणाधिपाय नमः ।
ॐ क्षिप्रेशाय नमः ।
ॐ वल्लभाजानये नमः ।
ॐ भक्तीशाय नमः ।
ॐ सिद्धिनायकाय नमः ।
ॐ द्व्यष्टावतारसम्भिन्नलीलावैविध्यशोभिताय नमः ।
ॐ द्वात्रिंशदवताराढ्याय नमः ।
ॐ द्वात्रिंशद्दीक्षणक्रमाय नमः ।
ॐ शुद्धविद्यासमारब्धमहाषोडशिकान्तिमाय नमः । ८६० ।

ॐ महत्पदसमायुक्तपादुकासम्प्रतिष्ठिताय नमः ।
ॐ प्रणवादये नमः ।
ॐ त्रितारीयुजे नमः ।
ॐ बालाबीजकशोभिताय नमः ।
ॐ वाणीभूबीजसंयुक्ताय नमः ।
ॐ हंसत्रयसमन्विताय नमः ।
ॐ खेचरीबीजसम्भिन्नाय नमः ।
ॐ नवनाथसुशोभिताय नमः ।
ॐ प्रासादश्रीसमायुक्ताय नमः ।
ॐ नवनाथविलोमकाय नमः । ८७० ।

ॐ पराप्रासादबीजाढ्याय नमः ।
ॐ महागणेशमन्त्रकाय नमः ।
ॐ बालाक्रमोत्क्रमप्रीताय नमः ।
ॐ योगबालाविजृम्भिताय नमः ।
ॐ अन्नपूर्णासमायुक्ताय नमः ।
ॐ वाजिवाहाविलासिताय नमः ।
ॐ सौभाग्यपूर्वविद्यायुजे नमः ।
ॐ रमादिषोडशीयुताय नमः ।
ॐ उच्छिष्टपूर्वचाण्डालीसमायुक्तसुविग्रहाय नमः ।
ॐ त्रयोदशार्णवाग्देवीसमुल्लसितमूर्तिकाय नमः । ८८० ।

ॐ नकुलीमातृसंयुक्ताय नमः ।
ॐ महामातङ्गिनीयुताय नमः ।
ॐ लघुवार्तालिकायुक्ताय नमः ।
ॐ स्वप्नवार्तालिकान्विताय नमः ।
ॐ तिरस्कारीसमायुक्ताय नमः ।
ॐ महावार्तालिकायुक्ताय नमः ।
ॐ पराबीजसमायुक्ताय नमः ।
ॐ लोपामुद्राविजृम्भिताय नमः ।
ॐ त्रयोदशाक्षरीहादिज्ञप्तिविद्यासमन्विताय नमः ।
ॐ महावाक्यमहामातृचतुष्टयविलासिताय नमः । ८९० ।

ॐ ब्रह्मण्यरसबीजाढ्यब्रह्मण्यद्वयशोभिताय नमः ।
ॐ सप्तदशाक्षरीशैवतत्त्वविमर्शिनीयुताय नमः ।
ॐ चतुर्विंशतिवर्णात्मदक्षिणामूर्तिशोभिताय नमः ।
ॐ रदनाक्षरसंशोभिगणपोच्छिष्टमन्त्रकाय नमः ।
ॐ गिरिव्याहृतिवर्णात्मगणपोच्छिष्टराजकाय नमः ।
ॐ हंसत्रयसमारूढाय नमः ।
ॐ रसावाणीसमर्पिताय नमः ।
ॐ श्रीविद्यानन्दनाथाढ्याय नमः ।
ॐ आत्मकपदसंयुताय नमः ।
ॐ श्रीचर्यानन्दनाथाढ्याय नमः । ९०० ।

ॐ श्रीमहापादुकाश्रिताय नमः ।
ॐ पूजयामिपदप्रीताय नमः ।
ॐ नमःपदसमापिताय नमः ।
ॐ गुरुमुखैकसंवेद्याय नमः ।
ॐ गुरुमण्डलपूजिताय नमः ।
ॐ दीक्षागुरुसमारब्धशिवान्तगुरुसेविताय नमः ।
ॐ गुरुभिःकुलरूपिभिःसमाराध्यपदद्वन्द्वाय नमः ।
ॐ विद्यावतारगुरुभिःसम्पूजितपदद्वयाय नमः ।
ॐ परौघीयगुरुप्रीताय नमः ।
ॐ दिव्यौघगुरुपूजिताय नमः । ९१० ।

ॐ सिद्धौघदेशिकाराध्याय नमः ।
ॐ मानवौघनिषेविताय नमः ।
ॐ गुरुत्रयसमाराध्याय नमः ।
ॐ गुरुषट्कप्रपूजिताय नमः ।
ॐ शाम्भवीक्रमसम्पूज्याय नमः ।
ॐ अशीत्युत्तरशतार्चिताय नमः ।
ॐ क्षित्यादिरश्मिसन्निष्ठाय नमः ।
ॐ लङ्घिताखिलरश्मिकाय नमः ।
ॐ षडन्वयक्रमाराध्याय नमः ।
ॐ देशिकान्वयरक्षिताय नमः । ९२० ।

ॐ सर्वश्रुतिशिरोनिष्ठपादुकाद्वयवैभवाय नमः ।
ॐ पराकामकलारूपाय नमः ।
ॐ शिवोहम्भावनात्मकाय नमः ।
ॐ चिच्छक्त्यारव्यपराहंयुजे नमः ।
ॐ सर्वज्ञानिस्वरूपकाय नमः ।
ॐ संविद्बिन्दुसमाख्याताय नमः ।
ॐ अपराकामकलामयाय नमः ।
ॐ मायाविशिष्टसर्वेशाय नमः ।
ॐ महाबिन्दुस्वरूपकाय नमः ।
ॐ अणिमादिगुणोपताय नमः । ९३० ।

ॐ सर्जनादिक्रियान्विताय नमः ।
ॐ मायाविशिष्टचैतन्याय नमः ।
ॐ अगण्यरूपविलासकाय नमः ।
ॐ मिश्रकामकलारूपाय नमः ।
ॐ अग्नीषोमीयस्वरूपकाय नमः ।
ॐ मिश्रबिन्दुसमाख्याकाय नमः ।
ॐ जीववृन्दसमाश्रिताय नमः ।
ॐ कामकलात्रयाविष्टाय नमः ।
ॐ बिन्दुत्रयविलासिताय नमः ।
ॐ कामकलात्रयध्यानसर्वबन्धविमोचकाय नमः । ९४० ।

ॐ बिन्दुत्रयैकताध्यानविकलेबरमुक्तिदाय नमः ।
ॐ महायजनसम्प्रीताय नमः ।
ॐ वीरचर्याधरप्रियाय नमः ।
ॐ अन्तर्यागक्रमाराध्याय नमः ।
ॐ बहिर्यागपुरस्कृताय नमः ।
ॐ आत्मयागसमाराध्याय नमः ।
ॐ सर्वविश्वनियामकाय नमः ।
ॐ मातृकादशकन्यासदेवताभावसिद्धिदाय नमः ।
ॐ प्रपञ्चयागन्यासेनसर्वेश्वरत्वदायकाय नमः ।
ॐ लघुषोढामहाषोढान्यासद्वयसमर्चिताय नमः । ९५० ।

ॐ श्रीचक्रत्रिविधन्यासमहासिद्धिविधायकाय नमः ।
ॐ रश्मिमालामहान्यासवज्रवर्मस्वरूपकाय नमः ।
ॐ हंसपरमहंसाख्यन्यासद्वयविभाविताय नमः ।
ॐ महापदावनीन्यासकलाशताधिकाष्टकाय नमः ।
ॐ त्रिपुरापूजनप्रीताय नमः ।
ॐ त्रिपुरापूजकप्रियाय नमः ।
ॐ नवावृतिमहायज्ञसंरक्षणधुरन्धराय नमः ।
ॐ लम्बोदरमहारूपाय नमः ।
ॐ भैरवीभैरवात्मकाय नमः ।
ॐ उत्कृष्टशिष्टसद्वस्तुने नमः । ९६० ।

ॐ परसंवित्तिरूपकाय नमः ।
ॐ शुभाशुभकराय कर्मणे नमः ।
ॐ जीवयात्राविधायकाय नमः ।
ॐ सते नमः ।
ॐ चिते नमः ।
ॐ सुखाय नमः ।
ॐ नाम्ने नमः ।
ॐ रूपाय नमः ।
ॐ अधिष्ठानात्मकाय नमः ।
ॐ पराय (परस्मै) नमः । ९७० ।

ॐ आरोपितजगज्जाताय नमः ।
ॐ मिथ्याज्ञानाय नमः ।
ॐ अमङ्गलाय नमः ।
ॐ अकारादिक्षकारान्ताय नमः ।
ॐ शब्दसृष्टिस्वरूपाय नमः ।
ॐ परायै वाचे नमः ।
ॐ विमर्शरूपिणे नमः ।
ॐ पश्यन्त्यै नमः ।
ॐ स्फोटरूपधृते नमः ।
ॐ मध्यमायै नमः । ९८० ।

ॐ चिन्तनारूपाय नमः ।
ॐ वैखर्यै नमः ।
ॐ स्थूलवाचकाय नमः ।
ॐ ध्वनिरूपाय नमः ।
ॐ वर्णरूपिणे नमः ।
ॐ सर्वभाषात्मकाय नमः ।
ॐ अपराय (अपरस्मै) नमः ।
ॐ मूलाधारगताय नमः ।
ॐ सुप्ताय नमः ।
ॐ स्वाधिष्ठाने प्रपूजिताय नमः । ९९० ।

ॐ मणिपूरकमध्यस्थाय नमः ।
ॐ अनाहताम्बुजमध्यगाय नमः ।
ॐ विशुद्धिपङ्कजोल्लासाय नमः ।
ॐ आज्ञाचक्राब्जवासकाय नमः ।
ॐ सहस्राराम्बुजारूढाय नमः ।
ॐ शिवशक्त्यैक्यरूपकाय नमः ।
ॐ मूलकुण्डलिनीरूपाय नमः ।
ॐ महाकुण्डलिनीमयाय नमः ।
ॐ षोडशान्तमहास्थानाय नमः ।
ॐ अस्पर्शाभिधमहास्थित्यै नमः । १००० ।

इति उड्डामरेश्वरतन्त्रे क्षिप्रप्रसादनपटले
गुह्यनाम उच्छिष्टगणेशसहस्रनामावलिः सम्पूर्णा ।

Also Read 1000 Names of Uchchhishta Ganapati:

1000 Names of Shri Guhya Nama Ucchista Ganesha | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Guhya Nama Ucchista Ganesha | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top