Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Nateshvari Nateshvara Sammelana | Sahasranamavali Stotram Lyrics in Hindi

Shri Nateshvarinateshvara Sammelana Sahasranamavali Lyrics in Hindi:

॥ श्रीनटेश्वरीनटेश्वरसम्मेलन सहस्रनामावली ॥ 
अथ श्रीनटेशसहस्रनामस्तोत्रम् ।

ॐ अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य
सदाशिव ऋषिः, महाविराट् छन्दः श्रीमन्नटेशो देवता ।
बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।

ध्यानम्
ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं
दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् ।
वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां
कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां
देवीं सभेशं भजे ॥

वामेलम्बकरां शुकञ्च दधतीं दक्षेऽम्बिकां ताण्डवम्

लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा ।

ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

लमिति पञ्चपूजा
॥ अथ श्री नटेश्वरीनटेश्वरसम्मेलननाम साहस्री ॥

ॐ श्री शिवाय नमः ।
ॐ श्री शिवानाथाय नमः ।
ॐ श्रीमते नमः ।
ॐ श्रीपतिपूजिताय नमः ।
ॐ शिवङ्कराय नमः ।
ॐ शिवतराय नमः ।
ॐ शिष्टहृष्टाय नमः ।
ॐ शिवागमाय नमः ।
ॐ अखण्डानन्दचिद्रूपाय नमः ।
ॐ परमानन्दताण्डवाय नमः । १० ।

ॐ अपस्मृतिन्यस्तपादाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ कृपाकराय नमः ।
ॐ कालीवादप्रियाय नमः ।
ॐ कालाय नमः ।
ॐ कालातीताय नमः ।
ॐ कलाधराय नमः ।
ॐ कालनेत्रे नमः ।
ॐ कालहन्त्रे नमः ।
ॐ कालचक्रप्रवर्तकाय नमः । २० ।

ॐ कालज्ञाय नमः ।
ॐ कामदाय नमः ।
ॐ कान्ताय नमः ।
ॐ कामारये नमः ।
ॐ कामपालकाय नमः ।
ॐ कल्याणमूर्तये नमः ।
ॐ कल्याणीरमणाय नमः ।
ॐ कमलेक्षणाय नमः ।
ॐ कालकण्ठाय नमः ।
ॐ कालकालाय नमः । ३० ।

ॐ कालकूटविषाशनाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ कृतिसारज्ञाय नमः ।
ॐ कृशानवे नमः ।
ॐ कृष्णपिङ्गलाय नमः ।
ॐ करिचर्माम्बरधराय नमः ।
ॐ कपालिने नमः ।
ॐ कलुषापहाय नमः ।
ॐ कपालमालाभरणाय नमः ।
ॐ कङ्कालाय नमः । ४० ।

ॐ कलिनाशनाय नमः ।
ॐ कैलासवासिने नमः ।
ॐ कामेशाय नमः ।
ॐ कवये नमः ।
ॐ कपटवर्जिताय नमः ।
ॐ कमनीयाय नमः ।
ॐ कलानाथशेखराय नमः ।
ॐ कम्बुकन्धराय नमः ।
ॐ कन्दर्पकोटिसदृशाय नमः ।
ॐ कपर्दिने नमः । ५० ।

ॐ कमलाननाय नमः ।
ॐ कराब्जधृतकालाग्नये नमः ।
ॐ कदम्बकुसुमारुणाय नमः ।
ॐ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजाय नमः ।
ॐ स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनाय नमः ।
ॐ उद्दण्डताण्डवाय नमः ।
ॐ चण्डाय नमः ।
ॐ ऊर्ध्वताण्डवपण्डिताय नमः ।
ॐ सव्यताण्डवसम्पन्नाय नमः ।
ॐ महाताण्डववैभवाय नमः । ६० ।

ॐ ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवाय नमः ।
ॐ महोग्रताण्डवाभिज्ञाय नमः ।
ॐ परिभ्रमणताण्डवाय नमः ।
ॐ नन्दिनाट्यप्रियाय नमः ।
ॐ नन्दिने नमः ।
ॐ नटेशाय नमः ।
ॐ नटवेषभृते नमः ।
ॐ कालिकानाट्यरसिकाय नमः ।
ॐ निशानटननिश्चलाय नमः ।
ॐ भृङ्गिनाट्यप्रमाणज्ञाय नमः । ७० ।

ॐ भ्रमरायितनाट्यकृते नमः ।
ॐ वियदादि जगत्स्रष्ट्रे नमः ।
ॐ विविधानन्ददायकाय नमः ।
ॐ विकाररहिताय नमः ।
ॐ विष्णवे नमः ।
ॐ विराडीशाय नमः ।
ॐ विराण्मयाय नमः ।
ॐ विराढ्हृदयपद्मस्थाय नमः ।
ॐ विधये नमः ।
ॐ विश्वाधिकाय नमः । ८० ।

ॐ विभवे नमः ।
ॐ वीरभद्राय नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विष्णुबाणाय नमः ।
ॐ विशाम्पतये नमः ।
ॐ विद्यानिधये नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विश्वयोनये नमः ।
ॐ वृषध्वजाय नमः ।
ॐ विरूपाय नमः । ९० ।

ॐ विश्वदिग्व्यापिने नमः ।
ॐ वीतशोकाय नमः ।
ॐ विरोचनाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ व्योमाकाराय नमः ।
ॐ अव्ययाकृतये नमः ।
ॐ व्याघ्रपादप्रियाय नमः ।
ॐ व्याघ्रचर्मधृते नमः ।
ॐ व्याधिनाशनाय नमः । १०० ।

ॐ व्याकृताय नमः ।
ॐ व्यापृताय नमः ।
ॐ व्यापिने नमः ।
ॐ व्याप्यसाक्षिणे नमः ।
ॐ विशारदाय नमः ।
ॐ व्यामोहनाशनाय नमः ।
ॐ व्यासाय नमः ।
ॐ व्याख्यामुद्रालसत्कराय नमः ।
ॐ वरदाय नमः ।
ॐ वामनाय नमः । ११० ।

ॐ वन्द्याय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वज्रवर्मभृते नमः ।
ॐ वेदवेद्याय नमः ।
ॐ वेदरूपाय नमः ।
ॐ वेदवेदान्तवित्तमाय नमः ।
ॐ वेदार्थविदे नमः ।
ॐ वेदयोनये नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ वेदसंस्तुताय नमः । १२० ।

ॐ वैकुण्ठवल्लभाय नमः ।
ॐ अवर्ष्याय नमः ।
ॐ वैश्वानरविलोचनाय नमः ।
ॐ समस्तभुवनव्यपिने नमः ।
ॐ समृद्धये नमः ।
ॐ सततोदिताय नमः ।
ॐ सूक्ष्मात्सूक्ष्मतराय नमः ।
ॐ सूर्याय नमः ।
ॐ सूक्ष्मस्थूलत्ववर्जिताय नमः ।
ॐ जह्नुकन्याधराय नमः । १३० ।

ॐ जन्मजरामृत्युनिवारकाय नमः ।
ॐ शूरसेनाय नमः ।
ॐ शुभाकाराय नमः ।
ॐ शुभ्रमूर्तये नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ अनर्धरत्नखचितकिरीटाय नमः ।
ॐ निकटेस्थिताय नमः ।
ॐ सुधारूपाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ सुभ्रुवे नमः । १४० ।

ॐ सुखघनाय नमः ।
ॐ सुधिये नमः ।
ॐ भद्राय नमः ।
ॐ भद्रप्रदाय नमः ।
ॐ भद्रवाहनाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भगनेत्रहराय नमः ।
ॐ भर्गाय नमः ।
ॐ भवघ्नाय नमः ।
ॐ भक्तिमन्निधये नमः । १५० ।

ॐ अरुणाय नमः ।
ॐ शरणाय नमः ।
ॐ शर्वाय नमः ।
ॐ शरण्याय नमः ।
ॐ शर्मदाय नमः ।
ॐ शिवाय नमः ।
ॐ पवित्राय नमः ।
ॐ परमोदाराय नमः ।
ॐ परमापन्निवारकाय नमः ।
ॐ सनातनाय नमः । १६० ।

ॐ समाय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यवादिने नमः ।
ॐ समृद्धिदाय नमः ।
ॐ धन्विने नमः ।
ॐ धनाधिपाय नमः ।
ॐ धन्याय नमः ।
ॐ धर्मगोप्त्रे नमः ।
ॐ धराधिपाय नमः ।
ॐ तरुणाय नमः । १७० ।

ॐ तारकाय नमः ।
ॐ ताम्राय नमः ।
ॐ तरिष्णवे नमः ।
ॐ तत्वबोधकाय नमः ।
ॐ राजराजेश्वराय नमः ।
ॐ रम्याय नमः ।
ॐ रात्रिञ्चरविनाशनाय नमः ।
ॐ गह्वरेष्ठाय नमः ।
ॐ गणाधीशाय नमः ।
ॐ गणेशाय नमः । १८० ।

ॐ गतिवर्जिताय नमः ।
ॐ पतञ्जलिप्राणनाथाय नमः ।
ॐ परापरविवर्जिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परात्पराय नमः ।
ॐ नारसिंहाय नमः ।
ॐ नगाध्यक्षाय नमः ।
ॐ नादान्ताय नमः । १९० ।

ॐ नादवर्जिताय नमः ।
ॐ नमदानन्ददाय नमः ।
ॐ नम्याय नमः ।
ॐ नगराजनिकेतनाय नमः ।
ॐ दैव्याय नमः ।
ॐ भिषजे नमः ।
ॐ प्रमाणज्ञाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणात्मिकाय नमः ।
ॐ कृताकृताय नमः । २०० ।

ॐ कृशाय नमः ।
ॐ कृष्णाय नमः ।
ॐ शान्तिदाय नमः ।
ॐ शरभाकृतये नमः ।
ॐ ब्रह्मविद्याप्रदाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बृहद्गर्भाय नमः ।
ॐ बृहस्पतये नमः ।
ॐ सद्योजाताय नमः ।
ॐ सदाराध्याय नमः । २१० ।

ॐ सामगाय नमः ।
ॐ सामसंस्तुताय नमः ।
ॐ अघोराय नमः ।
ॐ अद्भुतचारित्राय नमः ।
ॐ आनन्दवपुषे नमः ।
ॐ अग्रण्ये नमः ।
ॐ सर्वविद्यानामीशानाय नमः ।
ॐ ईश्वराणामधीश्वराय नमः ।
ॐ सर्वार्थाय नमः ।
ॐ सर्वदातुष्टाय नमः । २१० ।

ॐ सर्वशास्त्रार्थसम्मताय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदाय नमः ।
ॐ स्थाणवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ समरप्रियाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ जगत्स्वामिने नमः ।
ॐ जन्मकर्मनिवारकाय नमः ।
ॐ मोचकाय नमः । २३० ।

ॐ मोहविच्छेत्रे नमः ।
ॐ मोदनीयाय नमः ।
ॐ महाप्रभवे नमः ।
ॐ व्युप्तकेशाय नमः ।
ॐ विविशदाय नमः ।
ॐ विष्वक्सेनाय नमः ।
ॐ विशोधकाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्राङ्घ्रये नमः ।
ॐ सहस्रवदनाम्बुजाय नमः । २४० ।

ॐ सहस्राक्षार्चिताय नमः ।
ॐ सम्राजे नमः ।
ॐ सन्धात्रे नमः ।
ॐ सम्पदालयाय नमः ।
ॐ बभ्रुवे नमः ।
ॐ बहुविधाकाराय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ बलिने नमः ।
ॐ मनोभर्त्रे नमः ।
ॐ मनोगम्याय नमः । २५० ।

ॐ मननैकपरायणाय नमः ।
ॐ उदासीनाय नमः ।
ॐ उपद्रष्ट्रे नमः ।
ॐ मौनगम्याय नमः ।
ॐ मुनीश्वराय नमः ।
ॐ अमानिने नमः ।
ॐ मदनाय नमः ।
ॐ अमन्यवे नमः ।
ॐ अमानाय नमः ।
ॐ मानदाय नमः । २६० ।

ॐ मनवे नमः ।
ॐ यशस्विने नमः ।
ॐ यजमानात्मने नमः ।
ॐ यज्ञभुजे नमः ।
ॐ यजनप्रियाय नमः ।
ॐ मीडुष्टमाय नमः ।
ॐ मृगधराय नमः ।
ॐ मृकण्डुतनयप्रियाय नमः ।
ॐ पुरुहूताय नमः ।
ॐ पुरद्वेषिणे नमः । २७० ।

ॐ पुरत्रयविहारवते नमः ।
ॐ पुण्याय नमः ।
ॐ पुंसे नमः ।
ॐ पुरिशयाय नमः ।
ॐ पूष्णे नमः ।
ॐ पूर्णाय नमः ।
ॐ पुरातनाय नमः ।
ॐ शयानाय नमः ।
ॐ शन्तमाय नमः ।
ॐ शान्ताय नमः । २८० ।

ॐ शासकाय नमः ।
ॐ श्यामलाप्रियाय नमः ।
ॐ भावज्ञाय नमः ।
ॐ बन्धविच्छेत्रे नमः ।
ॐ भावातीताय नमः ।
ॐ अभयङ्कराय नमः ।
ॐ मनीषिणे नमः ।
ॐ मनुजाधीशाय नमः ।
ॐ मिथ्याप्रत्ययनाशिनाय नमः ।
ॐ निरञ्जनाय नमः । २९० ।

ॐ नित्यशुद्धाय नमः ।
ॐ नित्यबुद्धाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निरामयाय नमः ।
ॐ निरङ्कुशाय नमः ।
ॐ निराधाराय नमः ।
ॐ निरपायाय नमः । ३०० ।

ॐ निरत्ययाय नमः ।
ॐ गुहाशयाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुरुमूर्तये नमः ।
ॐ गुहप्रियाय नमः ।
ॐ प्रमाणाय नमः ।
ॐ प्रणवाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणनायिकाय नमः । ३१० ।

ॐ सूत्रात्मने नमः ।
ॐ सुलभाय नमः ।
ॐ स्वच्छाय नमः ।
ॐ सूदराय नमः ।
ॐ सुन्दराननाय नमः ।
ॐ कपालमालालङ्काराय नमः ।
ॐ कालान्तकवपुर्धराय नमः ।
ॐ दुराराध्याय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दुष्टदूराय नमः । ३२० ।

ॐ दुरासदाय नमः ।
ॐ दुर्विज्ञेयाय नमः ।
ॐ दुराचारनाशनाय नमः ।
ॐ दुर्मदान्तकाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ सर्वात्मने नमः ।
ॐ साक्षिवर्जिताय नमः ।
ॐ सर्वद्वन्द्वक्षयकराय नमः ।
ॐ सर्वापद्विनिवारकाय नमः । ३३० ।

ॐ सर्वप्रियतमाय नमः ।
ॐ सर्वदारिद्रयक्लेशनाशनाय नमः ।
ॐ द्रष्ट्रे नमः ।
ॐ दर्शयित्रे नमः ।
ॐ दान्ताय नमः ।
ॐ दक्षिणामूर्तिरूपभृते नमः ।
ॐ दक्षाध्वरहराय नमः ।
ॐ दक्षाय नमः ।
ॐ दहरस्थाय नमः ।
ॐ दयानिधये नमः । ३४० ।

ॐ समदृष्टये नमः ।
ॐ सत्यकामाय नमः ।
ॐ सनकादिमुनिस्तुताय नमः ।
ॐ पत्ये नमः ।
ॐ पञ्चत्वनिर्मुक्ताय नमः ।
ॐ पञ्चकृत्यपरायणाय नमः ।
ॐ पञ्चयज्ञप्रियाय नमः ।
ॐ पञ्चप्राणाधिपतये नमः ।
ॐ अव्ययाय नमः ।
ॐ पञ्चभूतप्रभवे नमः । ३५० ।

ॐ पञ्चपूजासन्तुष्टमानसाय नमः ।
ॐ विघ्नेश्वराय नमः ।
ॐ विघ्नहन्त्रे नमः ।
ॐ शक्तिपाणये नमः ।
ॐ शरोद्भवाय नमः ।
ॐ गूढाय नमः ।
ॐ गुह्यतमाय नमः ।
ॐ गोप्याय नमः ।
ॐ गोरक्षिगणसेविताय नमः ।
ॐ सुव्रताय नमः । ३६० ।

ॐ सत्यसङ्कल्पाय नमः ।
ॐ स्वसंवेद्याय नमः ।
ॐ सुखावहाय नमः ।
ॐ योगगम्याय नमः ।
ॐ योगनिष्ठाय नमः ।
ॐ योगानन्दाय नमः ।
ॐ युधिष्ठिराय नमः ।
ॐ तत्वावबोधाय नमः ।
ॐ तत्वेशाय नमः ।
ॐ तत्वभावाय नमः । ३७० ।

ॐ तपोनिधये नमः ।
ॐ अक्षराय नमः ।
ॐ त्र्यक्षराय नमः ।
ॐ त्र्यक्षाय नमः ।
ॐ पक्षपातविवर्जिताय नमः ।
ॐ माणिभद्रार्चिताय नमः ।
ॐ मान्याय नमः ।
ॐ मायाविने नमः ।
ॐ मान्त्रिकाय नमः ।
ॐ महते नमः । ३८० ।

ॐ कुठारभृते नमः ।
ॐ कुलाद्रीशाय नमः ।
ॐ कुञ्चितैकपदाम्बुजाय नमः ।
ॐ यक्षराजे नमः ।
ॐ यक्षफलदाय नमः ।
ॐ यज्ञमूर्तये नमः ।
ॐ यशस्कराय नमः ।
ॐ लिद्धेशाय नमः ।
ॐ सिद्धजनकाय नमः ।
ॐ सिद्धान्ताय नमः । ३९० ।

ॐ सिद्धवैभवाय नमः ।
ॐ रविमण्डलमध्यस्थाय नमः ।
ॐ रजोगुणविवर्जिताय नमः ।
ॐ वह्निमण्डलमध्यस्थाय नमः ।
ॐ वर्षीयसे नमः ।
ॐ वरुणेश्वराय नमः ।
ॐ सोममण्डलमध्यस्थाय नमः ।
ॐ सोमाय नमः ।
ॐ सौम्याय नमः ।
ॐ सूहृदे नमः । ४०० ।

ॐ वराय नमः ।
ॐ दक्षिणाग्नये नमः ।
ॐ गार्हपत्याय नमः ।
ॐ दमनाय नमः ।
ॐ दानवान्तकाय नमः ।
ॐ चतुर्वक्त्राय नमः ।
ॐ चक्रधराय नमः ।
ॐ पच्चवक्त्राय नमः ।
ॐ परन्तपाय नमः ।
ॐ विश्वस्यायतनाय नमः । ४१० ।

ॐ वर्याय नमः ।
ॐ वन्दारुजनवत्सलाय नमः ।
ॐ गायत्रीवल्लभाय नमः ।
ॐ गार्ग्याय नमः ।
ॐ गायकानुग्रहोन्मुखाय नमः ।
ॐ अनन्तरूपाय नमः ।
ॐ एकात्मने नमः ।
ॐ स्वस्तरवे नमः ।
ॐ व्याहृतये नमः ।
ॐ स्वधा नमः । ४२० ।

ॐ स्वाहा नमः ।
ॐ अरुपाय नमः ।
ॐ वसुमनसे नमः ।
ॐ वटुकाय नमः ।
ॐ क्षेत्रपालकाय नमः ।
ॐ श्राव्याय नमः ।
ॐ शत्रुहराय नमः ।
ॐ शूलिने नमः ।
ॐ श्रुतिस्मृतिविधायकाय नमः ।
ॐ अप्रमेयाय नमः । ४३० ।

ॐ अप्रतिस्थाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ प्रमथेश्वराय नमः ।
ॐ अनुत्तमाय नमः ।
ॐ अनुदासीनाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुदिताननाय नमः ।
ॐ ऊर्ध्व रेतसे नमः ।
ॐ ऊर्ध्वपादाय नमः ।
ॐ प्रौढनर्तनलम्पटाय नमः । ४४० ।

ॐ महामायाय नमः ।
ॐ महाग्रासाय नमः ।
ॐ महावीर्याय नमः ।
ॐ महाभुजाय नमः ।
ॐ महानन्दाय नमः ।
ॐ महास्कन्धाय नमः ।
ॐ महेन्द्राय नमः ।
ॐ महसान्निधये नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भावनागम्याय नमः । ४५० ।

ॐ भ्रान्तिज्ञानविनाशनाय नमः ।
ॐ महर्धये नमः ।
ॐ महिमाधाराय नमः ।
ॐ महासेनगुरवे नमः ।
ॐ महसे नमः ।
ॐ सर्वद्टशे नमः ।
ॐ सर्वभृते नमः ।
ॐ सर्गाय नमः ।
ॐ सर्वहृत्कोशसंस्थिताय नमः ।
ॐ दीर्घपिङ्गजटाजूटाय नमः । ४६० ।

ॐ दीर्घबाहवे नमः ।
ॐ दिगम्बराय नमः ।
ॐ संयद्वामाय नमः ।
ॐ संयमीन्द्राय नमः ।
ॐ संशयच्छिदे नमः ।
ॐ सहस्रदृशे नमः ।
ॐ हेतुदृष्टान्तनिर्मुक्ताय नमः ।
ॐ हेतवे नमः ।
ॐ हेरम्बजन्मभुवे नमः ।
ॐ हेलाविनिर्मितजगते नमः । ४७० ।

ॐ हेमश्मश्रवे नमः ।
ॐ हिरण्मयाय नमः ।
ॐ सकृद्विभाताय नमः ।
ॐ संवेत्रे नमः ।
ॐ सदसत्कोटिवर्जिताय नमः ।
ॐ स्वात्मस्थाय नमः ।
ॐ स्वायुधाय नमः ।
ॐ स्वामिने नमः ।
ॐ स्वानन्याय नमः ।
ॐ रवांशिताखिलाय नमः । ४८० ।

ॐ रातये नमः ।
ॐ दातये नमः ।
ॐ चतुष्पादाय नमः ।
ॐ स्वात्मबन्धहराय नमः ।
ॐ स्वभुवे नमः ।
ॐ वशिने नमः ।
ॐ वरेण्याय नमः ।
ॐ वितताय नमः ।
ॐ वज्रभृते नमः ।
ॐ वरुणात्मकाय नमः । ४९० ।

ॐ चैतन्याय नमः ।
ॐ चिच्छिदे नमः ।
ॐ अद्वैताय नमः ।
ॐ चिन्मात्राय नमः ।
ॐ चित्सभाधिपाय नमः ।
ॐ भूम्ने नमः ।
ॐ भूतपतये नमः ।
ॐ भाव्याय नमः ।
ॐ भूर्भुवोव्याहृतिप्रियाय नमः ।
ॐ वाच्यवाचकनिर्मुक्ताय नमः । ५०० ।

ॐ वागीशाय नमः ।
ॐ वागगोचराय नमः ।
ॐ वेदान्तकृते नमः ।
ॐ तुर्यपादाय नमः ।
ॐ वैद्युताय नमः ।
ॐ सुकृतोद्भवाय नमः ।
ॐ अशुभक्षयकृते नमः ।
ॐ ज्योतिषे नमः ।
ॐ अनाकाशाय नमः ।
ॐ अविलेपकाय नमः । ५१० ।

ॐ आप्तकामाय नमः ।
ॐ अनुमन्त्रे नमः ।
ॐ आत्मने नमः ।
ॐ अकामाय नमः ।
ॐ अभिन्नाय नमः ।
ॐ अनणवे नमः ।
ॐ हराय नमः ।
ॐ अस्नेहाय नमः ।
ॐ सङ्गनिर्मुक्ताय नमः ।
ॐ अह्रस्वाय नमः । ५२० ।

ॐ अदीर्घाय नमः ।
ॐ अविशेषकाय नमः ।
ॐ स्वच्छन्दाय नमः ।
ॐ स्वच्छसंवित्तये नमः ।
ॐ अन्वेष्टव्याय नमः ।
ॐ अश्रुताय नमः ।
ॐ अमृताय नमः ।
ॐ अपरोक्षाय नमः ।
ॐ अवृणाय नमः ।
ॐ अलिङ्गाय नमः । ५३० ।

ॐ अविद्वेष्ट्रे नमः । ५३१
ॐ प्रेमसागराय नमः ।
ॐ ज्ञानलिङ्गाय नमः ।
ॐ गत्यै नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ अवभासकाय नमः ।
ॐ शुद्धस्फटिकसङ्काशाय नमः ।
ॐ श्रुतिप्रस्तुतवैभवाय नमः ।
ॐ हिरण्यबाहवे नमः । ५४० ।

ॐ सेनान्ये नमः ।
ॐ हरिकेशाय नमः ।
ॐ दिशाम्पतये नमः ।
ॐ सस्पिञ्जराय नमः ।
ॐ पशुपतये नमः ।
ॐ त्विषीमते नमः ।
ॐ अध्वनाम्पतये नमः ।
ॐ बभ्लुशाय नमः ।
ॐ भगवते नमः ।
ॐ भव्याय नमः । ५५० ।

ॐ विव्याधिने नमः ।
ॐ विगतज्वराय नमः ।
ॐ अन्नानाम्पतये नमः ।
ॐ अत्युग्राय नमः ।
ॐ हरित्केशाय नमः ।
ॐ अद्वयाकृतये नमः ।
ॐ पुष्टानाम्पतये नमः ।
ॐ अव्यग्राय नमः ।
ॐ भवहेत्ये नमः ।
ॐ जगत्पतये नमः । ५६० ।

ॐ आतताविने नमः ।
ॐ महारुद्राय नमः ।
ॐ क्षेत्राणाम्पतये नमः ।
ॐ अक्षयाय नमः ।
ॐ सूताय नमः ।
ॐ सदस्पतये नमः ।
ॐ सुरये नमः ।
ॐ अहन्त्याय नमः ।
ॐ वनपाय नमः ।
ॐ अवराय नमः । ५७० ।

ॐ रोहिताय नमः ।
ॐ स्थपतये नमः ।
ॐ वृक्षपतये नमः ।
ॐ मन्त्रिणे नमः ।
ॐ सुवाणिजाय नमः ।
ॐ कक्षाधिपाय नमः ।
ॐ भुवन्तीशाय नमः ।
ॐ भवाख्याय नमः ।
ॐ वारिवस्कृताय नमः ।
ॐ ओषधीशाय नमः । ५८० ।

ॐ सतामीशाय नमः ।
ॐ उच्चैर्घोषाय नमः ।
ॐ विभीषणाय नमः ।
ॐ पत्तीनामधिपाय नमः ।
ॐ कृत्स्नवीताय नमः ।
ॐ धावते नमः ।
ॐ तस्मै नमः ।
ॐ सत्वपाय नमः ।
ॐ सहमानाय नमः ।
ॐ सत्यधर्मणे नमः । ५९० ।

ॐ निव्याधिने नमः ।
ॐ नियमाय नमः ।
ॐ यमाय नमः ।
ॐ आव्याधिपतये नमः ।
ॐ आदित्याय नमः ।
ॐ ककुभाय नमः ।
ॐ कलकोविदाय नमः ।
ॐ निषङ्गिणे नमः ।
ॐ इषुधिमते नमः ।
ॐ इन्द्राय नमः । ६०० ।

ॐ तस्कराणामधीश्वराय नमः ।
ॐ निचेरुकाय नमः ।
ॐ परिचराय नमः ।
ॐ अरण्यानाम्पतये नमः ।
ॐ अद्भुताय नमः ।
ॐ सृकाविने नमः ।
ॐ मुष्णतान्नाथाय नमः ।
ॐ पञ्चाशद्वर्णरूपभृते नमः ।
ॐ नक्तञ्चराय नमः ।
ॐ प्रकृन्तानाम्पतये नमः । ६१० ।

ॐ गिरिचराय नमः ।
ॐ गुरवे नमः ।
ॐ कुलुञ्चानाम्पतये नमः ।
ॐ कूप्याय नमः ।
ॐ धन्वाविने नमः ।
ॐ धनदाधिपाय नमः ।
ॐ आतन्वानाय नमः ।
ॐ शतानन्दाय नमः ।
ॐ गृत्साय नमः ।
ॐ गृत्सपतये नमः । ६२० ।

ॐ सुराय नमः ।
ॐ व्राताय नमः ।
ॐ व्रातपतये नमः ।
ॐ विप्राय नमः ।
ॐ वरीयसे नमः ।
ॐ क्षुल्लकाय नमः ।
ॐ क्षमिणे नमः ।
ॐ बिल्मिने नमः ।
ॐ वरूथिने नमः ।
ॐ दुन्दुभ्याय नमः । ६३० ।

ॐ आहनन्याय नमः ।
ॐ प्रमर्शकाय नमः ।
ॐ धृष्णवे नमः ।
ॐ दूताय नमः ।
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ सुधन्वने नमः ।
ॐ सुभगाय नमः ।
ॐ सुखिने नमः ।
ॐ स्रुत्याय नमः ।
ॐ पथ्याय नमः । ६४० ।

ॐ स्वतन्त्रस्थाय नमः ।
ॐ काट्याय नमः ।
ॐ नीप्याय नमः ।
ॐ करोटिभुते नमः ।
ॐ सूद्याय नमः ।
ॐ सरस्याय नमः ।
ॐ वैशन्ताय नमः ।
ॐ नाद्याय नमः ।
ॐ अवट्याय नमः ।
ॐ प्रार्षजाय नमः । ६५० ।

ॐ विद्युत्याय नमः ।
ॐ विशदाय नमः ।
ॐ मेघ्याय नमः ।
ॐ रेष्मियाय नमः ।
ॐ वास्तुपाय नमः ।
ॐ वसवे नमः ।
ॐ अग्रेवधाय नमः ।
ॐ अग्रेसम्पूज्याय नमः ।
ॐ हन्त्रे नमः ।
ॐ ताराय नमः । ६६० ।

ॐ मयोभवाय नमः ।
ॐ मयस्कराय नमः ।
ॐ महातीर्थ्याय नमः ।
ॐ कूल्याय नमः ।
ॐ पार्याय नमः ।
ॐ पदात्मकाय नमः ।
ॐ शङ्गाय नमः ।
ॐ प्रतरणाय नमः ।
ॐ अवार्याय नमः ।
ॐ फेन्याय नमः । ६७० ।

ॐ शष्प्याय नमः ।
ॐ प्रवाहजाय नमः ।
ॐ मुनये नमः ।
ॐ आतार्याय नमः ।
ॐ आलाद्याय नमः ।
ॐ सिकत्याय नमः ।
ॐ किंशिलाभिधाय नमः ।
ॐ पुलस्तये नमः ।
ॐ क्षयणाय नमः ।
ॐ गृह्याय नमः । ६८० ।

ॐ गोष्ठयाय नमः ।
ॐ गोपरिपालकाय नमः ।
ॐ शुष्क्याय नमः ।
ॐ हरित्याय नमः ।
ॐ लोप्याख्याय नमः ।
ॐ सूर्म्याय नमः ।
ॐ पर्ण्याय नमः ।
ॐ अणिमादिभुवे नमः ।
ॐ पर्णशद्याय नमः ।
ॐ प्रत्यगात्मने नमः । ६९० ।

ॐ प्रसन्नाय नमः ।
ॐ परमोन्नताय नमः ।
ॐ शीघ्रियाय नमः ।
ॐ शीभ्याय नमः ।
ॐ आनन्दाय नमः ।
ॐ क्षयद्वीराय नमः ।
ॐ क्षराक्षराय नमः ।
ॐ पाशिपातकसंहत्रे नमः ।
ॐ तीक्ष्णेषवे नमः ।
ॐ तिमिरापहाय नमः । ७०० ।

ॐ वराभयप्रदाय नमः ।
ॐ ब्रह्मपुच्छाय नमः ।
ॐ ब्रह्मविद्यांवराय नमः ।
ॐ ब्रह्मविद्यागुरवे नमः ।
ॐ गुह्याय नमः ।
ॐ गुह्यकैस्समभिष्टुताय नमः ।
ॐ कृतान्तकृते नमः ।
ॐ क्रियाधाराय नमः ।
ॐ कृतिने नमः ।
ॐ कृपणरक्षकाय नमः । ७१० ।

ॐ नैष्कर्म्यदाय नमः ।
ॐ नवरसाय नमः ।
ॐ त्रिस्थाय नमः ।
ॐ त्रिपुरभैरवाय नमः ।
ॐ त्रिमातृकाय नमः ।
ॐ त्रिवृद्रूपाय नमः ।
ॐ तृतीयाय नमः ।
ॐ त्रिगुणातिगाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ त्रिजगद्धेतवे नमः । ७२० ।

ॐ त्रिकर्त्रे नमः ।
ॐ तिर्यगूर्ध्वगाय नमः ।
ॐ प्रपञ्चोपशमाय नमः ।
ॐ नामरूपद्वयविवर्जिताय नमः ।
ॐ प्रकृतीशाय नमः ।
ॐ प्रतिष्ठात्रे नमः ।
ॐ प्रभवाय नमः ।
ॐ प्रमथाय नमः ।
ॐ पथिने नमः ।
ॐ सुनिश्चितार्थाय नमः । ७३० ।

ॐ राद्धान्ताय नमः ।
ॐ तत्वमर्थाय नमः ।
ॐ तपसे नमः ।
ॐ निधये नमः ।
ॐ हिताय नमः ।
ॐ प्रमात्रे नमः ।
ॐ प्राग्वर्तिने नमः ।
ॐ सर्वोपनिषदाश्रयाय नमः ।
ॐ विश‍ृङ्खलाय नमः ।
ॐ वियद्धेतवे नमः । ७४० ।

ॐ विषमाय नमः ।
ॐ विद्रुमप्रभाय नमः ।
ॐ अखण्डबोधाय नमः ।
ॐ अखण्डात्मने नमः ।
ॐ घण्टामण्डलमण्डिताय नमः ।
ॐ अनन्तशक्तये नमः ।
ॐ आचार्याय नमः ।
ॐ पुष्कराय नमः ।
ॐ सर्वपूरणाय नमः ।
ॐ पुरजिते नमः । ७५० ।

ॐ पूर्वजाय नमः ।
ॐ पुष्पहासाय नमः ।
ॐ पुण्यफलप्रदाय नमः ।
ॐ ध्यानगम्याय नमः ।
ॐ ध्यातृरूपाय नमः ।
ॐ ध्येयाय नमः ।
ॐ धर्मविदांवराय नमः ।
ॐ अवशाय नमः ।
ॐ स्ववशाय नमः ।
ॐ अस्थाणवे नमः । ७६० ।

ॐ अन्तर्यामिने नमः ।
ॐ शतक्रतवे नमः ।
ॐ कूटस्थाय नमः ।
ॐ कूर्मपीठस्थाय नमः ।
ॐ कूश्माण्डग्रहमोचकाय नमः ।
ॐ कूलङ्कषकृपासिन्धवे नमः ।
ॐ कुशलिने नमः ।
ॐ कुङ्कुमेश्वराय नमः ।
ॐ गदाधराय नमः ।
ॐ गणस्वामिने नमः । ७७० ।

ॐ गरिष्ठाय नमः ।
ॐ तोमरायुधाय नमः ।
ॐ जवनाय नमः ।
ॐ जगदाधाराय नमः ।
ॐ जमदग्नये नमः ।
ॐ जराहराय नमः ।
ॐ जटाधराय नमः ।
ॐ अमृताधाराय नमः ।
ॐ अमृतांशवे नमः ।
ॐ अमृतोद्भवाय नमः । ७८० ।

ॐ विद्वत्तमाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विश्रमाय नमः ।
ॐ वेदनामयाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ शततनवे नमः ।
ॐ शमिताखिलकौतुकाय नमः ।
ॐ वौषट्काराय नमः ।
ॐ वषट्काराय नमः ।
ॐ हुङ्काराय नमः । ७९० ।

ॐ फट्काराय नमः ।
ॐ पटवे नमः ।
ॐ ब्रह्मिष्ठाय नमः ।
ॐ ब्रह्मसूत्रार्थाय नमः ।
ॐ ब्रह्मज्ञाय नमः ।
ॐ ब्रह्मचेतनाय नमः ।
ॐ गायकाय नमः ।
ॐ गरुडारूढाय नमेः ।
ॐ गजासुरविमर्दनाय नमः ।
ॐ गर्विताय नमः । ८०० ।

ॐ गगनावासाय नमः ।
ॐ ग्रन्थित्रयविभेदनाय नमः ।
ॐ भूतमुक्तावलीतन्तवे नमः ।
ॐ भूतपूर्वाय नमः ।
ॐ भुजङ्गभृते नमः ।
ॐ अतर्क्याय नमः ।
ॐ सुकराय नमः ।
ॐ साराय नमः ।
ॐ सत्तमात्राय नमः ।
ॐ सदाशिवाय नमः । ८१० ।

ॐ शक्तिपातकराय नमः ।
ॐ शक्ताय नमः ।
ॐ शाश्वताय नमः ।
ॐ श्रेयसान्निधये नमः ।
ॐ अजीर्णाय नमः ।
ॐ सुकुमाराय नमः ।
ॐ अन्यस्मै नमः ।
ॐ पारदर्शिने नमः ।
ॐ पुरन्दराय नमः ।
ॐ अनावरणविज्ञानाय नमः । ८२० ।

ॐ निर्विभागाय नमः ।
ॐ विभावसवे नमः ।
ॐ विज्ञानमात्राय नमः ।
ॐ विरजसे नमः ।
ॐ विरामाय नमः ।
ॐ विबुधाश्रयाय नमः ।
ॐ विदग्धमुग्धवेषाढ्याय नमः ।
ॐ विश्वातीताय नमः ।
ॐ विशोकदाय नमः ।
ॐ मायानाट्यविनोदज्ञाय नमः । ८३० ।

ॐ मायानटनशिक्षकाय नमः ।
ॐ मायानाटककृते नमः ।
ॐ मायिने नमः ।
ॐ मायायन्त्रविमोचकाय नमः ।
ॐ वृद्धिक्षयविनिर्मुक्ताय नमः ।
ॐ विद्योताय नमः ।
ॐ विश्ववचङ्काय नमः ।
ॐ कालात्मने नमः ।
ॐ कालिकानाथाय नमः ।
ॐ कार्कोटकविभीषणाय नमः । ८४० ।

ॐ षडूर्मिरहिताय नमः ।
ॐ स्तव्याय नमः ।
ॐ षड्गुणैश्वर्यदायकाय नमः ।
ॐ षडाधारगताय नमः ।
ॐ साङ्ख्याय नमः ।
ॐ षडक्षरसमाश्रयाय नमः ।
ॐ अनिर्देश्याय नमः ।
ॐ अनिलाय नमः ।
ॐ अगम्याय नमः ।
ॐ अविक्रियाय नमः । ८५० ।

ॐ अमोघवैभवाय नमः ।
ॐ हेयादेयविनिर्मुक्ताय नमः ।
ॐ हेलाकलितताण्डवाय नमः ।
ॐ अपर्यन्ताय नमः ।
ॐ अपरिच्छेद्याय नमः ।
ॐ अगोचराय नमः ।
ॐ रुग्विमोचकाय नमः ।
ॐ निरंशाय नमः ।
ॐ निगमानन्दाय नमः ।
ॐ निरानन्दाय नमः । ८६० ।

ॐ निदानभुवे नमः ।
ॐ आदिभूताय नमः ।
ॐ महाभूताय नमः ।
ॐ श्वेच्छाकलितविग्रहाय नमः ।
ॐ निस्पन्दाय नमः ।
ॐ प्रत्ययानन्दाय नमः ।
ॐ निर्निमेषाय नमः ।
ॐ निरन्तराय नमः ।
ॐ प्रबुद्धाय नमः ।
ॐ अपरमोदाराय नमः । ८७० ।

ॐ परमानन्दसागराय नमः ।
ॐ संवित्साराय नमः ।
ॐ कलापूर्णाय नमः ।
ॐ सुरासुरनमस्कृताय नमः ।
ॐ निर्वाणदाय नमः ।
ॐ निर्वृतिस्थाय नमः ।
ॐ निर्वैराय नमः ।
ॐ निरुपाधिकाय नमः ।
ॐ आभास्वराय नमः ।
ॐ परन्तत्वाय नमः । ८८० ।

ॐ आदिमाय नमः ।
ॐ पेशलाय नमः ।
ॐ पवये नमः ।
ॐ संशान्तसर्वसङ्कल्पाय नमः ।
ॐ संसदीशाय नमः ।
ॐ सदोदिताय नमः ।
ॐ भावाभावविनिर्मुक्ताय नमः ।
ॐ भारूपाय नमः ।
ॐ भाविताय नमः ।
ॐ भराय नमः । ८९० ।

ॐ सर्वातीताय नमः ।
ॐ सारतराय नमः ।
ॐ साम्बाय नमः ।
ॐ सारस्वतप्रदाय नमः ।
ॐ सर्वकृते नमः ।
ॐ सर्वहृदे नमः ।
ॐ सर्वमयाय नमः ।
ॐ सत्वावलम्बकाय नमः ।
ॐ केवलाय नमः ।
ॐ केशवाय नमः । ९०० ।

ॐ केळीकराय नमः ।
ॐ केवलनायकाय नमः ।
ॐ इच्चानिच्चाविरहिताय नमः ।
ॐ विहारिणे नमः ।
ॐ वीर्यवर्धनाय नमः ।
ॐ विजिघत्साय नमः ।
ॐ विगतभिये नमः ।
ॐ विपिपासाय नमः ।
ॐ विभावनाय नमः ।
ॐ विश्रान्तिभुवे नमः । ९१० ।

ॐ विवसनाय नमः ।
ॐ विघ्नहत्रे नमः ।
ॐ विबोधकाय नमः ।
ॐ वीरप्रियाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विन्ध्यदर्पविनाशिनाय नमः ।
ॐ वेताळनटनप्रीताय नमः ।
ॐ वेतण्डत्वक्कृताम्बराय नमः ।
ॐ वेलातिलङ्घिकरुणाय नमः ।
ॐ विलासिने नमः । ९२० ।

ॐ विक्रमोन्नताय नमः ।
ॐ वैराग्यशेवधये नमः ।
ॐ विश्वभोक्त्रे नमः ।
ॐ सर्वोर्ध्वसंस्थिताय नमः ।
ॐ महाकर्त्रे नमः ।
ॐ महाभोक्त्रे नमः ।
ॐ महासंविन्मयाय नमः ।
ॐ मधुने नमः ।
ॐ मनोवचोभिरग्राह्याय नमः ।
ॐ महाबिलकृतालयाय नमः । ९३० ।

ॐ अनहङ्कृतये नमः ।
ॐ अच्छेद्याय नमः ।
ॐ स्वानन्दैकघनाकृतये नमः ।
ॐ संवर्ताग्न्युदराय नमः ।
ॐ सर्वान्तरस्थाय नमः ।
ॐ सर्वदुर्ग्रहाय नमः ।
ॐ सम्पन्नाय नमः ।
ॐ सङ्क्रमाय नमः ।
ॐ सत्रिणे नमः ।
ॐ सन्दोग्ध्रे नमः । ९४० ।

ॐ सकलोर्जिताय नमः ।
ॐ सम्प्रवृद्धाय नमः ।
ॐ सन्निकृष्टाय नमः ।
ॐ संविमृष्टाय नमः ।
ॐ समग्रदृशे नमः ।
ॐ संयमस्थाय नमः ।
ॐ संहृदिस्थाय नमः ।
ॐ सम्प्रविष्टाय नमः ।
ॐ समुत्सुकाय नमः ।
ॐ सम्प्रहृष्टाय नमः । ९५० ।

ॐ सन्निविष्टाय नमः ।
ॐ संस्पष्टाय नमः ।
ॐ सम्प्रमर्दनाय नमः ।
ॐ सूत्रभूताय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ समशीलाय नमः ।
ॐ सदादयाय नमः ।
ॐ सत्वसंस्थाय नमः ।
ॐ सुषुप्तिस्थाय नमः ।
ॐ सूतल्पाय नमः । ९६० ।

ॐ सत्स्वरूपकाय नमः ।
ॐ सङ्कल्पोल्लासनिर्मुक्ताय नमः ।
ॐ सामनीरागचेतनाय नमः ।
ॐ आदित्यवर्णाय नमः ।
ॐ सञ्ज्योतिषे नमः ।
ॐ सम्यग्दर्शनतत्पराय नमः ।
ॐ महातात्पर्यनिलयाय नमः ।
ॐ प्रत्यग्ब्रह्मैक्यनिश्चयाय नमः ।
ॐ प्रपञ्चोल्लसनिर्मुक्ताय नमः ।
ॐ प्रत्यक्षाय नमः । ९७० ।

ॐ प्रतिभात्मकाय नमः ।
ॐ प्रवेगाय नमः ।
ॐ प्रमदार्धाङ्गाय नमः ।
ॐ प्रनर्तनपरायणाय नमः ।
ॐ योगयोनये नमः ।
ॐ ययाभूताय नमः ।
ॐ यक्षगन्धर्ववन्दिताय नमः ।
ॐ जटिलाय नमः ।
ॐ चटुलापाङ्गाय नमः ।
ॐ महानटनलम्पटाय नमः । ९८० ।

ॐ पाटलांशवे नमः ।
ॐ पटुतराय नमः ।
ॐ पारिजातद्रुमूलगाय नमः ।
ॐ पापाटवीबृह्मद्भानवे नमः ।
ॐ भानुमत्कोटिकोटिभाय नमः ।
ॐ कोटिकन्दर्पसौभाग्यसुन्दराय नमः ।
ॐ मधुरस्मिताय नमः ।
ॐ लास्यामृताब्धिलहरीपूर्णेन्दवे नमः ।
ॐ पुण्यगोचराय नमः ।
ॐ रुद्राक्षस्रङ्ग्मयाकल्पाय नमः । ९९० ।

ॐ कह्लारकिरणद्युतये नमः ।
ॐ अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणाय नमः ।
ॐ चिच्छक्तिलोचनानन्दकन्दलाय नमः ।
ॐ कुन्दपाण्डुराय नमः ।
ॐ अगम्यमहिमाम्भोधये नमः ।
ॐ अनौपौम्ययशोनिधये नमः ।
ॐ चिदानन्दनटाधीशाय नमः ।
ॐ चित्केवलवपुर्धराय नमः ।
ॐ चिदेकरससम्पूर्णश्रीशिवाय नमः ।
ॐ श्रीमहेश्वराय नमः । १००० ।

ॐ तत्सत्
॥ इति श्रीनटेशसहस्रनामावली समाप्ता ॥

Also Read 1000 Names of Nateshwar Nateshwar Sammelana :

1000 Names of Sri Nateshvari Nateshvara Sammelana | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Nateshvari Nateshvara Sammelana | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top