Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rudra | Sahasranamavali 2 from Lingapurana Lyrics in Hindi

Shri Rudra Sahasranamavali 2 from Lingapurana Lyrics in Hindi:

॥ श्रीरुद्रसहस्रनामावलिः २ ॥
लिङ्गपुराणतः अध्याय ६५
ॐ स्थिराय नमः । स्थाणवे । प्रभवे । भानवे । प्रवराय । वरदाय ।
वराय । सर्वात्मने । सर्वविख्याताय । सर्वाय । सर्वकराय ।
भवाय । जटिने । दण्डिने । शिखण्डिने । सर्वगाय । सर्वभावनाय ।
हरये । हरिणाक्षाय । सर्वभूतहराय नमः । २० ।

ॐ प्रवृत्तये नमः । निवृत्तये । शान्तात्मने । शाश्वताय ।
ध्रुवाय । श्मशानवासिने । भगवते । खचराय । गोचरोर्दनाय ।
अभिवाद्याय । महाकर्मणे । तपस्विने । भूतधारणाय । उन्मत्तवेशाय ।
प्रच्छन्नाय । सर्वलोकप्रजापतये । महारूपाय । महाकायाय ।
सर्वरूपाय । महायशसे नमः । ४० ।

ॐ महात्मने नमः । सर्वभूताय । विरूपाय । वामनाय । नराय ।
लोकपालाय । अन्तर्हितात्मने । प्रसादाय । अभयदाय । विभवे ।
पवित्राय । महते । नियताय । नियताश्रयाय । स्वयम्भुवे ।
सर्वकर्मणे । आदये । आदिकराय । निधये । सहस्राक्षाय नमः । ६० ।

ॐ विशालाक्षाय नमः । सोमाय । नक्षत्रसाधकाय । चन्द्राय ।
सूर्याय । शनये । केतुर्ग्रहाय । ग्रहपतये । राज्ञे । राज्योदयाय ।
कर्त्रे । मृगबाणार्पणाय । घनाय । महातपसे । दीर्घतपसे ।
अदृश्याय । धनसाधकाय । संवत्सराय । कृताय ।
मन्त्राय नमः । ८० ।

ॐ प्राणायामाय नमः । परन्तपाय । योगिने । योगाय । महाबीजाय ।
महारेतसे । महाबलाय । सुवर्णरेतसे । सर्वज्ञाय । सुबीजाय ।
वृषवाहनाय । दशबाहवे । अनिमिषाय । नीलकण्ठाय । उमापतये ।
विश्वरूपाय । स्वयंश्रेष्ठाय । बलवीराय । बलाग्रण्ये ।
गणकर्त्रे नमः । १०० ।

ॐ गणपतये नमः । दिग्वाससे । काम्याय । मन्त्रविदे । परमाय
मन्त्राय । सर्वभावकराय । हराय । कमण्डलुधराय । धन्विने ।
बाणहस्ताय । कपालवते । शरिणे । शतघ्निने । खड्गिने । पट्टिशिने ।
आयुधिने । महते । अजाय । मृगरूपाय । तेजसे नमः । १२० ।

ॐ तेजस्कराय नमः । विधये । उष्णीषिने । सुवक्त्राय । उदग्राय ।
विनताय । दीर्घाय । हरिकेशाय । सुतीर्थाय । कृष्णाय ।
श‍ृगालरूपाय । सर्वार्थाय । मुण्डाय । सर्वशुभङ्कराय ।
सिंहशार्दूलरूपाय । गन्धकारिणे । कपर्दिने । ऊर्ध्वरेतसे ।
ऊर्ध्वलिङ्गिने । ऊर्ध्वशायिने नमः । १४० ।

ॐ त्रिजटिने नमः । चीरवाससे । रुद्राय । सेनापतये ।
विभवे । अहोरात्राय । नक्ताय । तिग्ममन्यवे । सुवर्चसे ।
गजघ्ने । दैत्यघ्ने । कालाय । लोकधात्रे । गुणाकराय ।
सिंहशार्दुलरूपाणामार्द्रचर्माम्बरन्धराय । कालयोगिने । महानादाय ।
सर्वावासाय । चतुष्पथाय । निशाचराय नमः । १६० ।

ॐ प्रेतचारिणे नमः । सर्वदर्शिने । महेश्वराय । बहुभूताय ।
बहुधनाय । सर्वसाराय । अमृतेश्वराय । नृत्यप्रियाय ।
नित्यनृत्याय । नर्तनाय । सर्वसाधकाय । सकार्मुकाय । महाबाहवे ।
महाघोराय । महातपसे । महाशराय । महापाशाय । नित्याय ।
गिरिचराय । सहस्रहस्ताय नमः । १८० ।

ॐ विजयाय नमः । व्यवसायाय । अनिन्दिताय । अमर्षणाय ।
मर्षणात्मने । यज्ञघ्ने । कामनाशनाय । दक्षघ्ने । परिचारिणे ।
प्रहसाय । मध्यमाय । तेजोऽपहारिणे । बलवते । विदिताय ।
अभ्युदिताय । बहवे । गम्भीरघोषाय । योगात्मने । यज्ञघ्ने ।
कामनाशनाय नमः । २०० ।

ॐ गम्भीररोषाय नमः । गम्भीराय । गम्भीरबलवाहनाय ।
न्यग्रोधरूपाय । न्यग्रोधाय । विश्वकर्मणे । विश्वभुजे ।
तीक्ष्णोपायाय । हर्यश्वाय । सहायाय । कर्मकालविदे । विष्णवे ।
प्रसादिताय । यज्ञाय । समुद्राय । वडवामुखाय । हुताशनसहायाय ।
प्रशान्तात्मने । हुताशनाय । उग्रतेजसे नमः । २२० ।

ॐ महातेजसे नमः । जयाय । विजयकालविदे । ज्योतिषामयनाय ।
सिद्धये । सन्धिर्विग्रहाय । खड्गिने । शङ्खिने । जटिने । ज्वालिने ।
खचराय । द्युचराय । बलिने । वैणविने । पणविने । कालाय ।
कालकण्ठाय । कटङ्कटाय । नक्षत्रविग्रहाय । भावाय नमः । २४० ।

ॐ निभावाय नमः । सर्वतोमुखाय । विमोचनाय । शरणाय ।
हिरण्यकवचोद्भवाय । मेखलाकृतिरूपाय । जलाचाराय । स्तुताय ।
वीणिने । पणविने । तालिने । नालिने । कलिकटवे । सर्वतूर्यनिनादिने ।
सर्वव्याप्यपरिग्रहाय । व्यालरूपिणे । बिलावासिने । गुहावासिने ।
तरङ्गविदे । वृक्षाय नमः । २६० ।

ॐ श्रीमालकर्मणे नमः । सर्वबन्धविमोचनाय । सुरेन्द्राणां
बन्धनाय । युधि शत्रुविनाशनाय । सख्ये । प्रवासाय । दुर्वापाय ।
सर्वसाधुनिषेविताय । प्रस्कन्दाय । अविभावाय । तुल्याय ।
यज्ञविभागविदे । सर्ववासाय । सर्वचारिणे । दुर्वाससे । वासवाय ।
हैमाय । हेमकराय । यज्ञाय । सर्वधारिणे नमः । २८० ।

ॐ धरोत्तमाय नमः । आकाशाय । निर्विरूपाय । विवाससे । उरगाय ।
खगाय । भिक्षवे । भिक्षुरूपिणे । रौद्ररूपाय । सुरूपवते ।
वसुरेतसे । सुवर्चस्विने । वसुवेगाय । महाबलाय । मनोवेगाय ।
निशाचाराय । सर्वलोकशुभप्रदाय । सर्वावासिने । त्रयीवासिने ।
उपदेशकराय नमः । ३०० ।

ॐ धराय नमः । मुनये आत्मने । मुनये लोकाय । सभाग्याय ।
सहस्रभुजे । पक्षिणे । पक्षरूपाय । अतिदीप्ताय । निशाकराय ।
समीराय । दमनाकाराय । अर्थाय । अर्थकराय । अवशाय । वासुदेवाय ।
देवाय । वामदेवाय । वामनाय । सिद्धियोगापहारिणे । सिद्धाय नमः । ३२० ।

ॐ सर्वार्थसाधकाय नमः । अक्षुण्णाय । क्षुण्णरूपाय । वृषणाय ।
मृदवे । अव्ययाय । महासेनाय । विशाखाय । षष्टिभागाय । गवां
पतये । चक्रहस्ताय । विष्टम्भिने । मूलस्तम्भनाय । ऋतवे ।
ऋतुकराय । तालाय । मधवे । मधुकराय । वराय ।
वानस्पत्याय नमः । ३४० ।

ॐ वाजसनाय नमः । नित्यमाश्रमपूजिताय । ब्रह्मचारिणे ।
लोकचारिणे । सर्वचारिणे । सुचारविदे । ईशानाय । ईश्वराय ।
कालाय । निशाचारिणे । अनेकदृशे । निमित्तस्थाय । निमित्ताय ।
नन्दये । नन्दिकराय । हराय । नन्दीश्वराय । सुनन्दिने । नन्दनाय ।
विषमर्दनाय नमः । ३६० ।

ॐ भगहारिणे नमः । नियन्त्रे । कालाय । लोकपितामहाय ।
चतुर्मुखाय । महालिङ्गाय । चारुलिङ्गाय । लिङ्गाध्यक्षाय ।
सुराध्यक्षाय । कालाध्यक्षाय । युगावहाय । बीजाध्यक्षाय ।
बीजकर्त्रे । अध्यात्मानुगताय । बलाय । इतिहासाय । कल्पाय । दमनाय ।
जगदीश्वराय । दम्भाय नमः । ३८० ।

ॐ दम्भकराय नमः । दात्रे । वंशाय । वंशकराय । कलये ।
लोककर्त्रे । पशुपतये । महाकर्त्रे । अधोक्षजाय । अक्षराय ।
परमाय । ब्रह्मणे । बलवते । शुक्राय । नित्याय । अनीशाय ।
शुद्धात्मने । शुद्धाय । मानाय । गतये नमः । ४०० ।

ॐ हविषे नमः । प्रासादाय । बलाय । दर्पाय । दर्पणाय । हव्याय ।
इन्द्रजिदे । वेदकाराय । सूत्रकाराय । विदुषे । परमर्दनाय ।
महामेघनिवासिने । महाघोराय । वशीकराय । अग्निज्वालाय ।
महाज्वालाय । परिधूम्रावृताय । रवये । धिषणाय ।
शङ्कराय नमः । ४२० ।

ॐ नित्याय नमः । वर्चस्विने । धूम्रलोचनाय । नीलाय । अङ्गलुप्ताय ।
शोभनाय । नरविग्रहाय । स्वस्तये । स्वस्तिस्वभावाय । भोगिने ।
भोगकराय । लघवे । उत्सङ्गाय । महाङ्गाय । महागर्भाय ।
प्रतापवते । कृष्णवर्णाय । सुवर्णाय । इन्द्रियाय ।
सर्ववर्णिकाय नमः । ४४० ।

ॐ महापादाय नमः । महाहस्ताय । महाकायाय । महायशसे ।
महामूर्ध्ने । महामात्राय । महामित्राय । नगालयाय । महास्कन्धाय ।
महाकर्णाय । महोष्ठाय । महाहनवे । महानासाय । महाकण्ठाय ।
महाग्रीवाय । श्मशानवते । महाबलाय । महातेजसे । अन्तरात्मने ।
मृगालयाय नमः । ४६० ।

ॐ लम्बितोष्ठाय नमः । निष्ठाय । महामायाय । पयोनिधये ।
महादन्ताय । महादंष्ट्राय । महाजिह्वाय । महामुखाय । महानखाय ।
महारोमाय । महाकेशाय । महाजटाय । असपत्नाय । प्रसादाय ।
प्रत्ययाय । गीतसाधकाय । प्रस्वेदनाय । स्वहेनाय । आदिकाय ।
महामुनये नमः । ४८० ।

ॐ वृषकाय नमः । वृषकेतवे । अनलाय । वायुवाहनाय ।
मण्डलिने । मेरुवासाय । देववाहनाय । अथर्वशीर्षाय । सामास्याय ।
ऋजे । सहस्रोर्जितेक्षणाय । यजुषे । पादभुजाय । गुह्याय ।
प्रकाशाय । ओजसे । अमोघार्थप्रसादाय । अन्तर्भाव्याय । सुदर्शनाय ।
उपहाराय नमः । ५०० ।

ॐ प्रियाय नमः । सर्वाय । कनकाय । काञ्चनस्थिताय । नाभये ।
नन्दिकराय । हर्म्याय । पुष्कराय । स्थपतये । स्थिताय ।
सर्वशास्त्राय । धनाय । आद्याय । यज्ञाय । यज्वने । समाहिताय ।
नगाय । नीलाय । कवये । कालाय नमः । ५२० ।

ॐ मकराय नमः । कालपूजिताय । सगणाय । गणकाराय ।
भूतभावनसारथये । भस्मशायिने । भस्मगोप्त्रे । भस्मभूततनवे ।
गणाय । आगमाय । विलोपाय । महात्मने । सर्वपूजिताय । शुक्लाय ।
स्त्रीरूपसम्पन्नाय । शुचये । भूतनिषेविताय । आश्रमस्थाय ।
कपोतस्थाय । विश्वकर्मणे नमः । ५४० ।

ॐ पतये नमः । विराजे । विशालशाखाय । ताम्रोष्ठाय । अम्बुजालाय ।
सुनिश्चिताय । कपिलाय । कलशाय । स्थूलाय । आयुधाय । रोमशाय ।
गन्धर्वाय । अदितये । तार्क्ष्याय । अविज्ञेयाय । सुशारदाय ।
परश्वधायुधाय । देवाय । अर्थकारिणे । सुबान्धवाय नमः । ५६० ।

ॐ तुम्बवीणाय नमः । महाकोपाय । ऊर्ध्वरेतसे । जलेशयाय । उग्राय ।
वंशकराय । वंशाय । वंशवादिने । अनिन्दिताय । सर्वाङ्गरूपिणे ।
मायाविने । सुहृदाय । अनिलाय । बलाय । बन्धनाय । बन्धकर्त्रे ।
सुबन्धनविमोचनाय । राक्षसघ्नाय । कामारये ।
महादंष्ट्राय नमः । ५८० ।

ॐ महायुधाय नमः । लम्बिताय । लम्बितोष्ठाय । लम्बहस्ताय ।
वरप्रदाय । बाहवे । अनिन्दिताय । सर्वाय । शङ्कराय । अप्यकोपनाय ।
अमरेशाय । महाघोराय । विश्वदेवाय । सुरारिघ्ने । अहिर्बुध्न्याय ।
निऋर्तये । चेकितानाय । हलिने । अजैकपादाय । कापालिने नमः । ६०० ।

ॐ शं कुमाराय नमः । महागिरये । धन्वन्तरये । धूमकेतवे ।
सूर्याय । वैश्रवणाय । धात्रे । विष्णवे । शक्राय । मित्राय ।
त्वष्ट्रे । धराय । ध्रुवाय । प्रभासाय । पर्वताय । वायवे ।
अर्यम्णे । सवित्रे । रवये । धृतये नमः । ६२० ।

ॐ विधात्रे नमः । मान्धात्रे । भूतभावनाय । नीराय । तीर्थाय ।
भीमाय । सर्वकर्मणे । गुणोद्वहाय । पद्मगर्भाय । महागर्भाय ।
चन्द्रवक्त्राय । नभसे । अनघाय । बलवते । उपशान्ताय । पुराणाय ।
पुण्यकृत्तमाय । क्रूरकर्त्रे । क्रूरवासिने । तनवे नमः । ६४० ।

ॐ आत्मने नमः । महौषधाय । सर्वाशयाय । सर्वचारिणे ।
प्राणेशाय । प्राणिनां पतये । देवदेवाय । सुखोत्सिक्ताय । सते । असते ।
सर्वरत्नविदे । कैलासस्थाय । गुहावासिने । हिमवद्गिरिसंश्रयाय ।
कुलहारिणे । कुलाकर्त्रे । बहुवित्ताय । बहुप्रजाय । प्राणेशाय ।
बन्धकिने नमः । ६६० ।

ॐ वृक्षाय नमः । नकुलाय । अद्रिकाय । ह्रस्वग्रीवाय । महाजानवे ।
अलोलाय । महौषधये । सिद्धान्तकारिणे । सिद्धार्थाय । छन्दसे ।
व्याकरणोद्भवाय । सिंहनादाय । सिंहदंष्ट्राय । सिंहास्याय ।
सिंहवाहनाय । प्रभावात्मने । जगत्कालाय । कालाय । कम्पिने ।
तरवे नमः । ६८० ।

ॐ तनवे नमः । सारङ्गाय । भूतचक्राङ्काय । केतुमालिने ।
सुवेधकाय । भूतालयाय । भूतपतये । अहोरात्राय । मलाय ।
अमलाय । वसुभृते । सर्वभूतात्मने । निश्चलाय । सुविदे ।
उर्बुधाय ?? । सर्वभूतानां असुभृते । निश्चलाय । चलविदे ।
बुधाय । अमोघाय नमः । ७०० ।

ॐ संयमाय नमः । हृष्टाय । भोजनाय । प्राणधारणाय ।
धृतिमते । मतिमते । त्र्यक्षाय । सुकृताय । युधां पतये ।
गोपालाय । गोपतये । ग्रामाय । गोचर्मवसनाय । हराय ।
हिरण्यबाहवे । गुहावासाय । प्रवेशनाय । महामनसे । महाकामाय ।
चित्तकामाय नमः । ७२० ।

ॐ जितेन्द्रियाय नमः । गान्धाराय । सुरापाय । तापकर्मरताय ।
हिताय । महाभूताय । भूतवृताय । अप्सरोगणसेविताय । महाकेतवे ।
धराधात्रे । नैकतानरताय । स्वराय । अवेदनीयाय । आवेद्याय ।
सर्वगाय । सुखावहाय । तारणाय । चरणाय । धात्रे ।
परिधाय नमः । ७४० ।

ॐ परिपूजिताय नमः । संयोगिने । वर्धनाय । वृद्धाय । गणिकाय ।
गणाधिपाय । नित्याय । धात्रे । सहायाय । देवासुरपतये । पतये ।
युक्ताय । युक्तबाहवे । सुदेवाय । सुपर्वणाय । आषाढाय । सषाढाय ।
स्कन्धदाय । हरिताय । हराय नमः । ७६० ।

ॐ आवर्तमानवपवे नमः । अन्याय । श्रेष्ठाय वपवे । महावपवे ।
शिरसे । विमर्शनाय । सर्वलक्ष्यलक्षणभूषिताय । अक्षयाय ।
रथगीताय । सर्वभोगिने । महाबलाय । साम्नायाय । महाम्नायाय ।
तीर्थदेवाय । महायशसे । निर्जीवाय । जीवनाय । मन्त्राय ।
सुभगाय । बहुकर्कशाय नमः । ७८० ।

ॐ रत्नभूताय नमः । रत्नाङ्गाय । महार्णवनिपातविदे । मूलाय ।
विशालाय । अमृताय । व्यक्ताव्यक्ताय । तपोनिधये । आरोहणाय ।
अधिरोहाय । शीलधारिणे । महातपसे । महाकण्ठाय । महायोगिने ।
युगाय । युगकराय । हरये । युगरूपाय । महारूपाय ।
वहनाय नमः । ८०० ।

ॐ गहनाय नमः । नगाय । न्यायाय । निर्वापणाय । पादाय । पण्डिताय ।
अचलोपमाय । बहुमालाय । महामालाय । शिपिविष्टाय । सुलोचनाय ।
विस्ताराय । लवणाय । कूपाय । कुसुमाङ्गाय । फलोदयाय । ऋषभाय ।
वृषभाय । भङ्गाय । माणिबिम्बजटाधराय नमः । ८२० ।

ॐ इन्दवे नमः । विसर्गाय । सुमुखाय । शूराय । सर्वायुधाय ।
सहाय । निवेदनाय । सुधाजाताय । स्वर्गद्वाराय । महाधनवे ।
गिरावासाय । विसर्गाय । सर्वलक्षणलक्षविदे । गन्धमालिने ।
भगवते । अनन्ताय । सर्वलक्षणाय । सन्तानाय । बहुलाय ।
बाहवे नमः । ८४० ।

ॐ सकलाय नमः । सर्वपावनाय । करस्थालिने । कपालिने ।
ऊर्ध्वसंहननाय । यूने । यन्त्रतन्त्रसुविख्याताय । लोकाय ।
सर्वाश्रयाय । मृदवे । मुण्डाय । विरूपाय । विकृताय । दण्डिने ।
कुण्डिने । विकुर्वणाय । वार्यक्षाय । ककुभाय । वज्रिणे ।
दीप्ततेजसे नमः । ८६० ।

ॐ सहस्रपादे नमः । सहस्रमूर्ध्ने । देवेन्द्राय । सर्वदेवमयाय ।
गुरवे । सहस्रबाहवे । सर्वाङ्गाय । शरण्याय । सर्वलोककृते ।
पवित्राय । त्रिमधवे । मन्त्राय । कनिष्ठाय । कृष्णपिङ्गलाय ।
ब्रह्मदण्डविनिर्मात्रे । शतघ्नाय । शतपाशधृषे । कलायै ।
काष्ठायै । लवाय नमः । ८८० ।

ॐ मात्रायै नमः । मुहूर्ताय । अह्ने । क्षपायै । क्षणाय ।
विश्वक्षेत्रप्रदाय । बीजाय । लिङ्गाय । आद्याय । निर्मुखाय ।
सते । असते । व्यक्ताय । अव्यक्ताय । पित्रे । मात्रे । पितामहाय ।
स्वर्गद्वाराय । मोक्षद्वाराय । प्रजाद्वाराय नमः । ९०० ।

ॐ त्रिविष्टपाय नमः । निर्वाणाय । हृदयाय । ब्रह्मलोकाय ।
पराय । गतये । देवासुरविनिर्मात्रे । देवासुरपरायणाय ।
देवासुरगुरवे । देवाय । देवासुरनमस्कृताय । देवासुरमहामात्राय ।
देवासुरगणाश्रयाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रण्ये ।
देवाधिदेवाय । देवर्षये । देवासुरवरप्रदाय । देवासुरेश्वराय ।
विष्णवे नमः । ९२० ।

ॐ देवासुरमहेश्वराय नमः । सर्वदेवमयाय । अचिन्त्याय ।
देवताऽऽत्मने । स्वयम्भवाय । उद्गताय । त्रिक्रमाय । वैद्याय ।
वरदाय । अवरजाय । अम्बराय । इज्याय । हस्तिने । व्याघ्राय ।
देवसिंहाय । महर्षभाय । विबुधाग्र्याय । सुरश्रेष्ठाय ।
स्वर्गदेवाय । उत्तमाय नमः । ९४० ।

ॐ संयुक्ताय नमः । शोभनाय । वक्त्रे । आशानां प्रभवाय ।
अव्ययाय । गुरवे । कान्ताय । निजाय । सर्गाय । पवित्राय ।
सर्ववाहनाय । श‍ृङ्गिणे । श‍ृङ्गप्रियाय । बभ्रवे ।
राजराजाय । निरामयाय । अभिरामाय । सुशरणाय । निरामाय ।
सर्वसाधनाय नमः । ९६० ।

ॐ ललाटाक्षाय नमः । विश्वदेहाय । हरिणाय । ब्रह्मवर्चसाय ।
स्थावराणां पतये । नियतेन्द्रियवर्तनाय । सिद्धार्थाय ।
सर्वभूतार्थाय । अचिन्त्याय । सत्याय । शुचिव्रताय । व्रताधिपाय ।
पराय । ब्रह्मणे । मुक्तानां परमागतये । विमुक्ताय । मुक्तकेशाय ।
श्रीमते । श्रीवर्धनाय । जगते नमः । ९८० ।

Also Read 1000 Names of Sri Rudra 2:

1000 Names of Sri Rudra | Sahasranamavali 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rudra | Sahasranamavali 2 from Lingapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top