Templesinindiainfo

Best Spiritual Website

Chandramaulishvara Varnamala Stutih Lyrics in Marathi

Chandramaulishvwra Varnamala Stutih in Marathi:

॥ चन्द्रमौलीश्वर वर्णमाला स्तुति ॥
श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये ।
यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ 1 ॥

चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः ।
प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ 2 ॥

द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः ।
द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ 3 ॥

मौले मन्दाकिनि यस्य मालती मालिका निभा ।
मौनिमानसहंसो.अयं मौढ्यं हरतु नः शिवः ॥ 4 ॥

लीनं योगिमनो यत्र तथा जगदपि ध्रुवे ।
लीढं मज्जिह्वया नित्यं करोतु नीजनाम सः ॥ 5 ॥

स्वस्तना नैव विषया दुःखसंभिन्नसौख्यदाः ।
घ्य़ात्वाप्यैवं तत्र सक्तं मुक्तिमार्गाध्वगं कुरु ॥ 6 ॥

रोदिमि क्क शुगामीढहृदयो.अहं दयानिधे ।
कस्याद्रमस्तु हृदयं त्वां विना मयि शङ्करः ॥ 7 ॥

विघ्नेश्वरगुहाश्लिष्टवामदशिणभाग भाक ।
विद्यां मे दिशतु ब्रह्मविषयां गिरिजापतिः ॥ 8 ॥

जपध्यानार्च्नस्तोत्रवन्दनैः सुरभूसुराः ।
यं तोषयन्ति सततं स शिवो नः प्रसीदतु ॥ 9 ॥

यतच्त्तैर्योगिवर्यैध्यायमानपदाम्बुजम ।
यमभीतिविनाशाय याम्यहं शरणं शिवम ॥ 10 ॥

तेनैव पाविता पृथ्वी तेनैव कुलमुद्धृतम ।
येन शंभो पदाम्भोजयुगले स्वार्पितं मनः ॥ 11 ॥

चन्द्रमौलीश्वरस्तोत्रं भक्त्या यः पठति प्रगे ।
तस्य श्रीचन्द्रमौलीशः काङ्शितानि प्रयच्च्हति ॥ 12 ॥

Also Read:

Chandramaulishvara Varnamala Stutih Lyrics in Marathi | English

Chandramaulishvara Varnamala Stutih Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top