Templesinindiainfo

Best Spiritual Website

Hymns with 108 Names of Maa Durga 2 in Hindi | Goddess Durga Names

Ashtottara Shatanamavali of Goddess Durga 2 in Hindi:

॥ श्रीदुर्गाष्टोत्तर शतनामस्तोत्र २ ॥

॥ॐ श्री दुर्गा परमेश्वर्यै नमः ॥

अस्यश्री दुर्गाष्टोत्तर शतनामास्तोत्र मालामन्त्रस्य
महाविष्णु महेश्वराः ऋषयः,
अनुष्टुप्छन्दः, श्रीदुर्गापरमेश्वरी देवता,
ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं,
सर्वाभीष्टसिध्यर्थे जपहोमार्चने विनियोगः ।
ॐ सत्या साध्या भवप्रीता भवानी भवमोचनी ।
आर्या दुर्गा जया चाध्या त्रिणेत्राशूलधारिणी ॥

पिनाकधारिणी चित्रा चंडघंटा महातपाः ।
मनो बुद्धि रहंकारा चिद्रूपा च चिदाकृतिः ॥

अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः ।
शांभवी देवमाता च चिन्ता रत्नप्रिया तथा ॥

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।
अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥

पट्टांबरपरीधाना कलमंजीररंजिनी ।
ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा ।
रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ॥

वनदुर्गा च मातंगी मतंगमुनिकन्यका ।
ब्राम्ही माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥

चामुंडा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ।
विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ॥

बहुला बहुलप्रेमा महिषासुरमर्दिनी ।
मधुकैठभ हन्त्री च चंडमुंडविनाशिनी ॥

सर्वशास्त्रमयी चैव सर्वधानवघातिनी ।
अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ॥

भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः ।
प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ॥

बलप्रदा घोररूपा महोत्साहा महाबला ।
अग्निज्वाला रौद्रमुखी कालारात्री तपस्विनी ॥

नारायणी महादेवी विष्णुमाया शिवात्मिका ।
शिवदूती कराली च ह्यनन्ता परमेश्वरी ॥

कात्यायनी महाविद्या महामेधास्वरूपिणी ।
गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी ।
सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥

इदं स्तोत्रं महादेव्याः नाम्नां अष्टोत्तरं शतम् ।
यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा ।
शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् ।
सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥

ऋणी ऋणात् विमुच्येत ह्यपुत्रो लभते सुतम् ।
रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥

भूमिलाभो भवेत्तस्य सर्वत्र विजयी भवेत् ।
सर्वान्कामानवाप्नोति महादेवीप्रसादतः ॥

कुंकुमैः बिल्वपत्रैश्च सुगन्धैः रक्तपुष्पकैः ।
रक्तपत्रैर्विशेषेण पूजयन्भद्रमश्नुते ॥

॥ॐ तत्सत् ॥

Also Read:

Hymns with 108 Names of Maa Durga 2 | Goddess Durga Names in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Hymns with 108 Names of Maa Durga 2 in Hindi | Goddess Durga Names

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top