Templesinindiainfo

Best Spiritual Website

Pradosha Stotra Ashtakam Lyrics in Marathi

Pradosha Stotrashtakam in Marathi:

॥ दोष स्तोत्राष्टकम ॥
प्रदोषस्तोत्राष्टकम ।

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदांबुरुहस्य सेवा ॥ 1 ॥

ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये ।
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ 2 ॥

ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम ।
नित्यं प्रवृद्धधनधान्यकळत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥ 3 ॥

कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे ।
नृत्यं विधातुममिवाञ्चति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे ॥ 4 ॥

वाग्देवी धृतवल्लकी शतमुखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमॄदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम ॥ 5 ॥

गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणांश्च ।
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥ 6 ॥

अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ।
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥ 7 ॥

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।
प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥ 8 ॥

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ।
दद्दोषपरिहारार्थं शरणं यातु शङ्करम ॥ 9 ॥

इति श्रीस्कान्दोक्तं प्रदोषस्तोत्राष्टकं संपूर्णम ॥

Also Read:

Pradosha Stotra Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Marathi | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Pradosha Stotra Ashtakam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top