Templesinindiainfo

Best Spiritual Website

Shiva Manasa Puja Lyrics in Marathi

Shiva Manasa Puja in Marathi:

॥ शिवमानसपूजा ॥
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूश्हितं मृगमदामोदाङ्कितं चन्दनम।ह ।
जातीचम्पकबिल्वपत्ररचितं पुश्ह्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम।ह ॥ १ ॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्श्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम।ह ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥

च्हत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम।ह
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साश्ह्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विश्हयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्शिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम।ह ॥ ४ ॥

करचरण कृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधम।ह ।
विहितमविहितं वा सर्वमेतत्क्शमस्व ।
जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५ ॥

॥ इति श्रीमच्च्हङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥

Also Read:

Shiva Manasa Puja Lyrics in Hindi | English | Marathi | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Manasa Puja Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top