Templesinindiainfo

Best Spiritual Website

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Batukabhairava Ashtottarashatanama Stotram in Hindi:

॥ श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् ॥
आपदुद्धारकबटुकभैरवस्तोत्रम्

॥ श्रीगणेशाय नमः ॥

॥ श्रीउमामहेश्वराभ्यां नमः ॥

॥ श्रीगुरवे नमः ॥

॥ श्रीभैरवाय नमः ॥

मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १ ॥

श्रीपार्वत्युवाच –
भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥ २ ॥

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३ ॥

अङ्गन्यासकरन्यासदेहन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ ४ ॥

शङ्कर उवाच –
श‍ृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ ५ ॥

अपस्मारादि रोगानां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६ ॥

ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥ ७ ॥

सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् ।
आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥ ८ ॥

प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् ।
बटुकायेति वै पश्चादापदुद्धारणाय च ॥ ९ ॥

कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ।
देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ १० ॥

मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् ।
ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु-कुरु बटुकाय ह्रीम् ।
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥ ११ ॥

स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥ १२ ॥

पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥ १३ ॥

न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥ १४ ॥

भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ।
न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥ १५ ॥

श्रीपार्वत्युवाच –
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवःकल्पवित्तमः ॥ १६ ॥

तस्य नाम सहस्राणि अयुतान्यर्बुदानि च ।
सारं समुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १७ ॥

यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः ।
सर्वान्कामानवाप्नोति साधकःसिद्धिमेव च ॥ १८ ॥

ईश्वर उवाच –
श‍ृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येदं नामाष्टशतमुत्तमम् ॥ १९ ॥

सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ २० ॥

सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् ।
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २१ ॥

नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितः ।
बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥ २२ ॥

लज्जाबीजं बीजमिति बटुकामेति शक्तिकम् ।
प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत् ॥ २३ ॥

अष्टबाहुं त्रिनयनमिति बीजं समाहितः ।
शक्तिः ह्रीं कीलकं शेषमिष्टसिद्धौ नियोजयेत् ॥ २४ ॥

ॐ अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य
बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः।
श्रीमदापदुद्धारक-बटुकभैरवो देवता ।
बं बीजम् । ह्रीं वटुकाय इति शक्तिः । प्रणवः कीलकम् ।
ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

॥ ऋष्यादि न्यासः ॥

श्रीबृहदारण्यकऋषये नमः (शिरसि)।
अनुष्टप् छन्दसे नमः (मुखे)।
श्रीबटुकभैरव देवतायै नमः (हृदये)।
ॐ बं बीजाय नमः (गुह्ये)।
ॐ ह्रीं वटुकायेति शक्तये नमः पादयोः ।
ॐ कीलकाय नमः (नाभौ)।
विनियोगाय नमः सर्वाङ्गे ।
॥ इति ऋष्यादि न्यासः ॥

॥ अथ करन्यासः ॥

ॐ ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः ।
ॐ ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः ।
ॐ ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः ।
ॐ ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः ।
ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः ।
॥ इति करन्यासः ॥

॥ अथ हृदयादि न्यासः ॥

ॐ ह्रां वां ईशानाय नमः हृदयाय नमः ।
ॐ ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा ।
ॐ ह्रूं वूं अघोराय नमः शिखायै वषट् ।
ॐ ह्रैं वैं वामदेवाय नमः कवचाय हुम् ।
ॐ ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् ।
ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् ।
॥ इति हृदयादि न्यासः ॥

अथ देहन्यासः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ।
नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ॥ २५ ॥

कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः ।
नासौष्ठयोश्चैव तथा भस्माङ्गं सर्पविभूषणम् ॥ २६ ॥

अनादिभूतभाष्यौ च शक्तिहस्तखले न्यसेत् ।
स्कन्धयोर्दैत्यशमनं वाह्वोरतुलतेजसः ॥ २७ ॥

पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् ।
शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ २८ ॥

उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा ।
क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ॥ २९ ॥

पापौघनाशनं कट्यां बटुकं लिङ्गदेशके ।
गुदे रक्षाकरं न्यस्येत्तथोर्वोर्रक्तलोचनम् ॥ ३० ॥

जानुनोर्घुर्घुरारावं जङ्घयो रक्तपाणिनम् ।
गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ॥ ३१ ॥

आपादमस्तकं चैव आपदुद्धारकं तथा ।
पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३२ ॥

खड्गहस्ते पश्चिमायां घण्टावादिनमुत्तरे ।
आग्नेय्यामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥ ३३ ॥

वायव्यां सर्वभूतस्थमैशान्ये चाष्टसिद्धिदम् ।
ऊर्ध्वं खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३४ ॥

एवं विन्यस्य स्वदेहस्य षडङ्गेषु ततो न्यसेत् ।
रुद्रं मुखोष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् ॥ ३५ ॥

शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् ।
ब्रह्माणं तु कनिष्ठिक्यां स्तनयोस्त्रिपुरान्तकम् ॥ ३६ ॥

मांसासिनं कराग्रे तु करपृष्ठे दिगम्बरम् ।

अथ नामाङ्गन्यासः ।
हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ॥ ३७ ॥

आनन्दपादपूर्वाय नाथाय च शिखासु च ।
सिद्धसामरनाथाय कवचं विन्यसेत्ततः ॥ ३८ ॥

सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च ।
परमानन्दनाथाय अस्त्रं चैव प्रयोजयेत् ॥ ३९ ॥

एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् ।
तस्य ध्यानं प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४० ॥

शुद्धस्फटिकसङ्काशं नीलाञ्जनसमप्रभम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ४१ ॥

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४२ ॥

दिगम्बरं कुमारीशं बटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ ४३ ॥

डमरुं च कपोलं च वरदं भुजगं तथा ।
अग्निवर्णं समोपेतं सारमेयसमन्वितम् ॥ ४४ ॥

ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥

ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥

मन्त्रमहार्णवे सात्त्विकध्यानम् –
वन्दे बालं स्फटिकसदृशं कुण्डलोभासिताङ्गं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ॥

दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्याम्बटुकेशं शूलदण्डैर्दधानम् ॥ १ ॥

मन्त्रमहार्णवे राजसध्यानम् –
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ॥

नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २ ॥

मन्त्रमहार्णवे तामसध्यानम् –
ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गपाशाभयानि ॥

नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं,
दिव्याकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥ ३ ॥

॥ इति ध्यानत्रयम् ॥

सात्त्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् ।
राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥ १ ॥

ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सिद्ध्यर्थं विनियोजयेत् ॥ २ ॥

विनियोगः
ॐ अस्य श्रीबटुकभैरवनामाष्टशतकस्य आपदुद्धारणस्तोमन्त्रस्य,
बृहदारण्यको नाम ऋषिः, श्रीबटुकभैरवो देवता, अनुष्टुप् छन्दः,
ह्रीं बीजम्, बटुकायेति शक्तिः, प्रणवः कीलकं, अभीष्टतां सिद्ध्यिर्थे
जपे विनियोगः ॥ ह्रीं ह्रौं नमः शिवाय इति नमस्कार मन्त्रः ॥

॥ अथ ध्यानम् ॥

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥
करकलितकपालः कुण्डली दण्डपाणिः
तरुणतिमिरनीलो व्यालयज्ञोपवीती ।
क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः
जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥

दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥

डमरुं च कपालं च वरदं भुजगं तथा ।
आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥

॥ इति ध्यानम् ॥

॥ मूलमन्त्रः ॥

ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ
इसका जप ११ २१ ५१ या १०८ बार करे

॥ अथ स्तोत्रम् ॥
ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ १ ॥

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २ ॥

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३ ॥

शूलपाणिः खङ्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४ ॥

धनदोऽधनहारि च धनवान्प्रीतिवर्धनः । प्रतिभानवान्
नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ ५ ॥ नागपाशो
कालः कपालमालि च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ त्रिलोकपः
त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः ।
बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ७ ॥

भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८ ॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९ ॥

अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।
भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ १० ॥

कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् ।
variation कपालधारि मुण्डी च नागयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११ ॥

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः ।
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२ ॥

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ १३ ॥

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओं ॥ १४ ॥

फलश्रुतिः ।
अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १५ ॥

य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ १६ ॥

न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् ।
न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥ १७ ॥

पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् ।
मारीभये राजभये तथा चौराग्निजे भये ॥ १८ ॥

औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने ।
बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥ १९ ॥

सर्वं प्रशममायाति भयं भैरवकीर्तनात् ।
एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ २० ॥

यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ २१ ॥

षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् ।
राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥ २२ ॥

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥ २३ ॥

धनार्थी च सुतार्थी च दारार्थी चापि मानवः ।
पठेन् (जपेन्) मासत्रयं देवि वारमेकं तथा निशि ॥ २४ ॥

धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः ।
रोगी भयात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ २५ ॥

भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ।
निगडिश्चापि बद्धो यः कारागेहे निपातितः ॥ २६ ॥

श‍ृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशि ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ २७ ॥

सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात्स्तोत्रमिमं पुण्यं सर्वकामफलप्रदम् ॥ २८ ॥

जजाप परमं प्राप्यं भैरवस्य महात्मनः ।
भैरवस्य प्रसन्नाभूत्सर्वलोकमहेश्वरी ॥ २९ ॥

भैरवस्तु प्रहृष्टोऽभूत्सर्वगः परमेश्वरः ।
जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम् ॥ ३० ॥

॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Also Read:

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top