Templesinindiainfo

Best Spiritual Website

Sri Adi Shankaracharya Stuti Ashtakam Lyrics in Sanskrit

Sri Adi Shankaracharya Stuti Ashtakam in Sanskrit:

॥ श्रीमच्छङ्कराचार्य स्तुत्यष्टकम् ॥
(श्रीमच्छङ्करभगवच्चरण स्तुत्यष्टकम्)

श्रुतीनामा क्रीडः प्रथितपरहंसो चितगति-
र्निजे सत्ये धाम्नि त्रिजगदति वर्तिन्यभिरतः ।
असौ ब्रह्मेवास्मिन्न खलु विशये किं तु कलये [**विषये**]
बृहेरर्थं साक्षादनुपचरितं केवलतया ॥ १ ॥

मितं पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतंस्वमहिमनिनिर्वेदरमणं
ततस्तं तद्विष्णोः परमपदमाख्यातिनिगमः ॥ २ ॥

न भूतेष्वासङ्गः क्वचन नगवाचाविहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्नायान्त-स्त्रिपुरदहनात्केवलदशा
तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ ३ ॥

न धर्मस्सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्र स्फुरदरियुतः पार्थिवरथः ।
असाहाये नैवं सती विततपुर्यष्टकजये
कथं तन्नब्रूयान्निगम निकुरम्बः परशिवम् ॥ ४ ॥

दुःखसार दुरन्त दुष्कृतघनां दुस्संसृति प्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरा दुदाराशयः ।
उच्चण्डप्रतिपक्षपण्डितयशो नालीकनालाङ्कुर-
ग्रासो हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ५ ॥

क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोहलहरी मासेदुषीं शेमुषीं
सोयं शीलवतां पुनाति परमो हंसोद्विजात्यग्रणीः ॥ ६ ॥

नीरक्षीरनयेन तथ्यवितथे सम्पिण्डिते पण्डितै-
र्दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्योमुनिः ।
हंसोयं परमोस्तु ये पुनरिहा शक्तास्समस्तास्स्थिता
जृंभान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ ७ ॥

दृष्टिं यं प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालिकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृते विलुम्पति सुहृच्चक्रस्य चार्तिं घनां
हंसस्सोयमभिव्यनक्ति महतां जिज्ञास्यमर्थंमुहुः ॥ ८ ॥

इति श्रीविद्यारण्यमुनिरचितं श्रीमच्छङ्कराचार्यस्तुत्यष्टकम् ।

Also Read:

Sri Adi Shankaracharya Stuti Ashtakam Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Adi Shankaracharya Stuti Ashtakam Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top