Templesinindiainfo

Best Spiritual Website

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in Hindi

Sri Lalitha Sahasranama Stotram Poorvapeetika in Hindi:

॥ श्री ललिता सहस्रनाम स्तोत्रम् – पूर्वपीठिका ॥
श्री ललिता सहस्रनाम स्तोत्र – पूर्वपीठिका

अगस्त्य उवाच –
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ १ ॥

पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २ ॥

वर्णितं श्रीपुरं चापि महाविभवविस्तरं ।
श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३ ॥

षोढान्यासादयो न्यासाः न्यासखण्डे समीरिताः ।
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४ ॥

महायागक्रमश्चैव पूजाखण्डे समीरितः ।
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५ ॥

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चक्रराजस्य विद्यायाः श्री देव्या देशिकात्मनोः ॥ ६ ॥

रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधास्त्सुतयः परिकीर्तिताः ॥ ७ ॥

मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥

तत्र मे सम्शयो जातो हयग्रीव दयानिधे ।
किं वा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥ ९ ॥

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १० ॥

सूत उवाच –
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११ ॥

श्रीहयग्रीव उवाच –
लोपामुद्रापतेऽगस्त्य सावधानमनाश्शृणु ।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२ ॥

रहस्यमिति मत्वाहं नोक्तवान् ते न चान्यथा ।
पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३ ॥

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४ ॥

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ १५ ॥

उपासकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नामसहस्राणि सद्यस्सिद्धिप्रदानि वै ॥ १६ ॥

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७ ॥

पुराणां श्रीपुरमिव शक्तीनां ललिता तथा ।
श्रीविद्योपासकानां च यथा देवः परश्शिवः ॥ १८ ॥

तथा नामसहस्रेषु परमेतत् प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९ ॥

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २० ॥

बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।
पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥ २१ ॥

सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥ २३ ॥

साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।
उपासने स्तुतीरस्याः पठेदभ्युदयो हि सः ॥ २४ ॥

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्याः जपो नाम्नां च कीर्तनम् ॥ २५ ॥

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६ ॥

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७ ॥

वाग्देवीर्वशिनीमुख्यास्समाहूयेदमब्रवीत् ।
वाग्देवता वशिन्याद्याश्शृणुध्वं वचनं मम ॥ २८ ॥

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूति प्रदाने विनियोजिताः ॥ २९ ॥

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३० ॥

कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१ ॥

श्री हयग्रीव उवाच –
इत्याज्ञप्तास्ततो देव्यश्र्शीदेव्या ललिताम्बया ।
रहस्यैर्नामभिर्दिव्यैश्चक्रुस्स्तोत्रमनुत्तमम् ॥ ३२ ॥

रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३ ॥

स्वसेवावसरं प्रादात्सर्वेषां कुम्भसम्भव ।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥ ३४ ॥

लक्ष्मीनारायणानां च कोटयस्समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५ ॥

मन्त्रिणी दण्डिनीमुख्यास्सेवार्थं च समागताः ।
शक्तयो विविधाकारास्तासां सङ्ख्या न विद्यते ॥ ३६ ॥

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७ ॥

तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
तत्र श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८ ॥

उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैस्स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥

श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
ते सर्वे विस्मयं जग्मुर्येतत्र सदसि स्थिताः ॥ ४० ॥

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुस्स्तोत्रमनुत्तमम् ॥ ४१ ॥

अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२ ॥

प्रवर्तयध्वं भक्तेषु मम नामसाहस्रकम् ।
इदं नाम सहस्रं मे यो भक्तः पठतेऽसकृत् ॥ ४३ ॥

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४ ॥

पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ।
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५ ॥

कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान् कामान् लभते नात्र सम्शयः ॥ ४६ ॥

तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।
इति श्री ललितेशानी शास्ति देवान् सहानुगान् ॥ ४७ ॥

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयोमन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥

पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९ ॥

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥

इति श्री ब्रह्माण्डपुराणे हयग्रीवागस्त्यसंवादे ललितासहस्रनामपूर्वभागो नाम प्रथमोऽध्यायः ॥

Also Read:

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top