Templesinindiainfo

Best Spiritual Website

Sri Rahu Stotram Lyrics in Hindi

Sri Rahu Kavacham in Hindi:

॥ श्री राहु स्तोत्रम् ॥
ओं अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः । अनुष्टुप्च्छन्दः । राहुर्देवता । श्री राहु ग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।

काश्यप उवाच ।
शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १ ॥

सर्वसम्पत्करं चैव गुह्यं स्तोत्रमनुत्तमम् ।
आदरेण प्रवक्ष्यामि सावधानाश्च शृण्वत ॥ २ ॥

राहुः सूर्यरिपुश्चैव विषज्वालाधृताननः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३ ॥

भुजगेशस्तीक्ष्णदम्ष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४ ॥

जप्त्वा तु प्रतिमां चैव सीसजां माषसुस्थिताम् ।
नील गन्धाक्षतैः पुष्पैर्भक्त्या सम्पूज्य यत्नतः ॥ ५ ॥

वह्निमण्डलमानीय दूर्वान्नाज्याहुतीः क्रमात् ।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६ ॥

हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७ ॥

राहो करालवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८ ॥

सिंहिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान्रोगान्निवारय ॥ ९ ॥

कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।
गरलातिगरालास्य गदान्मे नाशयाखिलान् ॥ १० ॥

स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११ ॥

इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२ ॥

विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३ ॥

एवं पठेदनुदिनं स्तवराजमेतं
मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः ।
आरोग्यमायुरतुलं लभते सुपुत्रान्-
सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४ ॥

Also Read:

Sri Rahu Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Rahu Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top