Templesinindiainfo

Best Spiritual Website

Sri Sankatmochan Hanuman Ashtak Lyrics in Hindi

Sankat Mochan Hanuman Ashtakam in Hindi:

॥ सङ्कटमोचन हनुमानाष्टकम् ॥

ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १ ॥

धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २ ॥

ॐ हनुमानञ्जनी सूनो वायुपुत्रो महाबलः ।
महालाङ्गूल निक्षेपैर्निहताखिल राक्षसाः ॥ ३ ॥

श्रीराम हृदयानन्द विपत्तौशरणं तव ।
लक्ष्मणे निहिते भूमौ नीत्वा द्रोणाचलं युतम् ॥ ४ ॥

यया जीवित वा नाद्य ता शक्तिं प्रकटीं कुरु ।
येन लङ्केश्वरो वीरो निःशङ्कः विजितस्त्वया ॥ ५ ॥

दुर्निरीक्ष्योऽपिदेवानी तद्बलं दर्शयाधुना ॥ ६ ॥

यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकी स्वयं ।
रावणांतः पुरेऽत्युग्रेतां बुद्धिं प्रकटी कुरु ॥ ७ ॥

रुद्रावतार भक्तार्ति विमोचन महाभुज ।
कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम् ॥ ८ ॥

इत्यष्टकं हनुमतः यः पठेत् श्रद्धयान्वितः ।
सर्वकष्ट विनिर्मुक्तो लभते वाञ्च्छितफलम् ॥

ग्रहभूतार्दितेघोरे रणे राजभयेऽथवा ।
त्रिवारं पठेनाच्छ्रीघ्रं नरो मुच्येत् सङ्कटात् ॥

॥ इति श्रीगोस्वामितुलसीदास विरचितं श्रीहनुमान्नाष्टकं सम्पूर्णम् ॥

Also Read:

Sri Sankatmochan Hanuman Ashtak Lyrics Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali | Oriya | Gujarati | Punjabi

Sri Sankatmochan Hanuman Ashtak Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top