Templesinindiainfo

Best Spiritual Website

Sri Sukra Ashtottara Satanama Stotram Lyrics in Hindi

Sri Shukra Ashtottara Satanama Stotram in Hindi:

॥ श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ॥

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १ ॥

दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः
काव्यासक्तः कामपालः कविः कल्याणदायकः ॥ २ ॥

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ ३ ॥

चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ ४ ॥

सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ ५ ॥

भृगुर्भोगकरो भूमिसुरपालनतत्परः
मनस्वी मानदो मान्यो मायातीतो महाशयः ॥ ६ ॥

बलिप्रसन्नोऽभयदो बली बलपराक्रमः
भवपाशपरित्यागो बलिबन्धविमोचकः ॥ ७ ॥

घनाशयो घनाध्यक्षो कम्बुग्रीवः कलाधरः
कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः ॥ ८ ॥

श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः
अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ॥ ९ ॥

नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ १० ॥

चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत्
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ ११ ॥

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ १२ ॥

कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ १३ ॥

रत्नसिंहासनारूढो रथस्थो रजतप्रभः
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत्कविः ॥ १४ ॥

तुलावृषभराशीशो दुर्धरो धर्मपालकः
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ १५ ॥

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ १६ ॥

अपवर्गप्रदोऽनन्तः सन्तानफलदायकः
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ १७ ॥

Also Read:

Sri Sukra Aashtottara Satanama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Sukra Ashtottara Satanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top