Templesinindiainfo

Best Spiritual Website

1000 Names of Kakaradi Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi

Kakaradi Shrikrishna Sahasranamavali Lyrics in Hindi:

॥ ककारादिश्रीकृष्णसहस्रनामावलिः ॥
ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य
नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता ।
ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं,
धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥

अथ करन्यासः ।
ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः ।
ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः ।
ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः ।
ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः ।
ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः ।
ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥

अथ अङ्गन्यासः ।
ॐ कालात्मेति हृदयाय नमः ।
ॐ कीर्तिवर्धन इति शिरसे स्वाहा ।
ॐ कूटस्थसाक्षीति शिखायै वषट् ।
ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् ।
ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् ।
ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् ।

अथ ध्यानम् ।
वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं
धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् ।
कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं
कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥

ॐ कृष्णाय नमः । कृष्णात्मकाय । कृष्णस्वरूपाय ।
कृष्णनामधृते । कृष्णाङ्गाय । कृष्णदैवत्याय ।
कृष्णारक्तविलोचनाय । कृष्णाश्रयाय । कृष्णवर्त्मने ।
कृष्णालक्ताभिरक्षकाय । कृष्णेशप्रीतिजनकाय ।
कृष्णेशप्रियकारकाय । कृष्णेशारिष्टसंहर्त्रे ।
कृष्णेशप्राणवल्लभाय । कृष्णेशानन्दजनकाय ।
कृष्णेशायुर्विवर्धनाय । कृष्णेशारिसमूहघ्नाय ।
कृष्णेशाभीष्टसिद्धिदाय । कृष्णाधीशाय ।
कृष्णकेशाय नमः ॥ २० ॥

ॐ कृष्णानन्दविवर्धनाय नमः । कृष्णागरुसुगन्धाढ्याय ।
कृष्णागरुसुगन्धविदे । कृष्णागरुविवेकज्ञाय ।
कृष्णागरुविलेपनाय । कृतज्ञाय । कृतकृत्यात्मने ।
कृपासिन्धवे । कृपाकराय । कृष्णानन्दैकवरदाय ।
कृष्णानन्दपदाश्रयाय । कमलावल्लभाकाराय । कलिघ्नाय ।
कमलापतये । कमलानन्दसम्पन्नाय । कमलासेविताकृतये ।
कमलामानसोल्लासिने । कमलामानदायकाय । कमलालङ्कृताकाराय ।
कमलाश्रितविग्रहाय नमः ॥ ४० ॥

ॐ कमलामुखपद्मार्काय नमः । कमलाकरपूजिताय ।
कमलाकरमध्यस्थाय । कमलाकरतोषिताय ।
कमलाकरसंसेव्याय । कमलाकरभूषिताय । कमलाकरभावज्ञाय ।
कमलाकरसंयुताय । कमलाकरपार्श्वस्थाय । कमलाकररूपवते ।
कमलाकरशोभाढ्याय । कमलाकरपङ्कजाय । कमलाकरपापघ्नाय ।
कमलाकरपुष्टिकृते । कमलारूपसौभाग्यवर्धनाय ।
कमलेक्षणाय । कमलाकलिताङ्घ्र्यब्जाय । कमलाकलिताकृतये ।
कमलाहृदयानन्दवर्धनाय । कमलाप्रियाय नमः ॥ ६० ॥

ॐ कमलाचलचित्तात्मने नमः । कमलालङ्कृताकृतये ।
कमलाचलभावज्ञाय । कमलालिङ्गिताकृतये । कमलामलनेत्रश्रिये ।
कमलाचलमानसाय । कमलापरमानन्दवर्धनाय । कमलाननाय ।
कमलानन्दसौभाग्यवर्धनाय । कमलाश्रयाय । कमलाविलसत्पाणये ।
कमलामललोचनाय । कमलामलफालश्रिये । कमलाकरपल्लवाय ।
कमलेशाय । कमलभुवे । कमलानन्ददायकाय । कमलोद्भवभीतिघ्नाय ।
कमलोद्भवसंस्तुताय । कमलाकरपाशाढ्याय नमः ॥ ८० ॥

ॐ कमलोद्भवपालकाय नमः । कमलासनसंसेव्याय ।
कमलासनसंस्थिताय । कमलासनरोगघ्नाय । कमलासनपापघ्ने ।
कमलोदरमध्यस्थाय । कमलोदरदीपनाय । कमलोदरसम्पन्नाय ।
कमलोदरसुन्दराय । कनकालङ्कृताकाराय । कनकालङ्कृताम्बराय ।
कनकालङ्कृतागाराय । कनकालङ्कृतासनाय ।
कनकालङ्कृतास्यश्रिये । कनकालङ्कृतास्पदाय ।
कनकालङ्कृताङ्घ्र्यब्जाय । कनकालङ्कृतोदराय ।
कनकाम्बरशोभाढ्याय । कनकाम्बरभूषणाय ।
कनकोत्तमभालश्रिये नमः ॥ १०० ॥

ॐ कनकोत्तमरूपधृषे नमः । कनकाघारमध्यस्थाय ।
कनकागारकारकाय । कनकाचलमध्यस्थाय । कनकाचलपालकाय ।
कनकाचलशोभाढ्याय । कनकाचलभूषणाय । कनकैकप्रजाकर्त्रे ।
कनकैकप्रदायकाय । कलाननाय । कलरवाय । कलस्त्रीपरिवेष्टिताय ।
कलहंसपरित्रात्रे । कलहंसपराक्रमाय । कलहंससमानश्रिये ।
कलहंसप्रियङ्कराय । कलहंसस्वभावस्थाय । कलहंसैकमानसाय ।
कलहंससमारूढाय । कलहंससमप्रभाय नमः ॥ १२० ॥

ॐ कलहंसविवेकज्ञाय नमः । कलहंसगतिप्रदाय ।
कलहंसपरित्रात्रे । कलहंससुखास्पदाय । कलहंसकुलाधीशाय ।
कलहंसकुलास्पदाय । कलहंसकुलाधाराय । कलहंसकुलेश्वराय ।
कलहंसकुलाचारिणे । कलहंसकुलप्रियाय । कलहंसकुलत्रात्रे ।
कलहंसकुलात्मकाय । कवीशाय । कविभावस्थाय । कविनाथाय ।
कविप्रियाय । कविमानसहंसात्मने । कविवंशविभूषणाय ।
कविनायकसंसेव्याय । कविनायकपालकाय नमः ॥ १४० ॥

ॐ कविवंशैकवरदाय नमः । कविवंशशिरोमणये ।
कविवंशविवेकज्ञाय । कविवंशप्रबोधकाय । कविवंशपरित्रात्रे ।
कविवंशप्रभावविदे । कवित्वामृतसंसिद्धाय । कवित्वामृतसागराय ।
कवित्वाकारसंयुक्ताय । कवित्वाकारपालकाय । कवित्वाद्वैतभावस्थाय ।
कवित्वाश्रयकारकाय । कवीन्द्रहृदयानन्दिने । कवीन्द्रहृदयास्पदाय ।
कवीन्द्रहृदयान्तःस्थाय । कवीन्द्रज्ञानदायकाय ।
कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकराय । कवीन्द्रहृदयाम्भोजा-
ह्लादनैकनिशाकराय । कवीन्द्रहृदयाब्जस्थाय ।
कवीन्द्रप्रतिबोधकाय नमः ॥ १६० ॥

ॐ कवीन्द्रानन्दजनकाय नमः । कवीन्द्राश्रितपङ्कजाय ।
कविशब्दैकवरदाय । कविशब्दैकदोहनाय । कविशब्दैकभावस्थाय ।
कविशब्दैककारणाय । कविशब्दैकसंस्तुत्याय । कविश्ब्दैकभूषणाय ।
कविशब्दैकरसिकाय । कविशब्दविवेकविदे । कवित्वब्रह्मविख्याताय ।
कवित्वब्रह्मगोचराय । कविवाणीविवेकज्ञाय । कविवाणीविभूषणाय ।
कविवाणीसुधास्वादिने । कविवाणीसुधाकराय । कविवाणीविवेकस्थाय ।
कविवाणीविवेकविदे । कविवाणीपरित्रात्रे । कविवाणीविलासवते नमः ॥ १८० ॥

ॐ कविशक्तिप्रदात्रे नमः । कविशक्तिप्रवर्तकाय ।
कविशक्तिसमूहस्थाय । कविशक्तिकलानिधये । कलाकोटिसमायुक्ताय ।
कलाकोटिसमावृताय । कलाकोटिप्रकाशस्थाय । कलाकोटिप्रवर्तकाय ।
कलानिधिसमाकाराय । कलानिधिसमन्विताय । कलाकोटिपरित्रात्रे ।
कलाकोटिप्रवर्धनाय । कलानिधिसुधास्वादिने । कलानिधिसमाश्रिताय ।
कलङ्करहिताकाराय । कलङ्करहितास्पदाय । कलङ्करहितानन्दाय ।
कलङ्करहितात्मकाय । कलङ्करहिताभासाय ।
कलङ्करहितोदयाय नमः ॥ २०० ॥

ॐ कलङ्करहितोद्देशाय नमः । कलङ्करहिताननाय ।
कलङ्करहितश्रीशाय । कलङ्करहितस्तुतये ।
कलङ्करहितोत्साहाय । कलङ्करहितप्रियाय । कलङ्करहितोच्चाराय ।
कलङ्करहितेन्दिरयाय । कलङ्करहिताकाराय । कलङ्करहितोत्सवाय ।
कलङ्काङ्कितदुष्टघ्नाय । कलङ्काङ्कितधर्मघ्ने ।
कलङ्काङ्कितकर्मारये । कलङ्काङ्कितमार्गहृते ।
कलङ्काङ्कितदुर्दर्शाय । कलङ्काङ्किततदुस्सहाय ।
कलङ्काङ्कितदूरस्थाय । कलङ्काङ्कितदूषणाय ।
कलहोत्पत्तिसंहर्त्रे । कलहोत्पत्तिकृद्रिपवे नमः ॥ २२० ॥

ॐ कलहातीतधामस्थाय नमः । कलहातीतनायकाय ।
कलहातीततत्त्वज्ञाय । कलहातीतवैभवाय । कलहातीतभावस्थाय ।
कलहातीतसत्तमाय । कलिकालबलातीताय । कलिकालविलोपकाय ।
कलिकालैकसंहर्त्रे । कलिकालैकदूषणाय । कलिकालकुलध्वंसिने ।
कलिकालकुलापहाय । कलिकालभयच्छेत्रे । कलिकालमदापहाय ।
कलिक्लेशविनिर्मुक्ताय । कलिक्लेशविनाशनाय । कलिग्रस्तजनत्रात्रे ।
कलिग्रस्तनिजार्तिघ्ने । कलिग्रस्तजगन्मित्राय ।
कलिग्रस्तजगत्पतये नमः ॥ २४० ॥

ॐ कलिग्रस्तजगत्त्रात्रे नमः । कलिपाशविनाशनाय ।
कलिमुक्तिप्रदात्रे (प्रदायकाय) । कलिमुक्तकलेवराय ।
कलिमुक्तमनोवृत्तये । कलिमुक्तमहामतये । कलिकालमतातीताय ।
कलिधर्मविलोपकाय । कलिधर्माधिपध्वंसिने । कलिधर्मैकखण्डनाय ।
कलिधर्माधिपालक्ष्याय । कलिकालविकारघ्ने । कलिकर्मकथातीताय ।
कलिकर्मकथारिपवे । कलिकष्टैकशमनाय । कलिकष्टविवर्जिताय ।
कलिघ्नाय । कलिधर्मघ्नाय । कलिधर्माधिकारघ्ने नमः ॥ २६० ॥

ॐ कर्मविदे नमः । कर्मकृते । कर्मिणे । कर्मकाण्डैकदोहनाय ।
कर्मस्थाय । कर्मजनकाय । कर्मिष्ठाय । कर्मसाधनाय । कर्मकर्त्रे ।
कर्मभर्त्रे । कर्महर्त्रे । कर्मजिते । कर्मजातजगत्त्रात्रे ।
कर्मजातजगत्पतये । कर्मजातजगन्मित्राय । कर्मजातजगद्गुरवे ।
कर्मभूतभवच्छत्राय । कर्मम्भूतभवार्तिघ्ने ।
कमकाण्डपरिज्ञात्रे । कर्मकाण्डप्रवर्तकाय नमः ॥ २८० ॥

ॐ कर्मकाण्डपरित्रात्रे नमः । कर्मकाण्डप्रमाणकृते ।
कर्मकाण्डविवेकज्ञाय । कर्मकाण्डप्रकारकाय । कर्मकाण्डाविवेकस्थाय ।
कर्मकाण्डैकदोहनाय । कर्मकाण्डरताभीष्टप्रदात्रे । कर्मतत्पराय ।
कर्मबद्धजगत्त्रात्रे । कर्मबद्धजगद्गुरवे । कर्मबन्धार्तिशमनाय ।
कर्मबन्धविमोचनाय । कर्मिष्ठद्विजवर्यस्थाय ।
कर्मिष्ठद्विजवल्लभाय । कर्मिष्ठद्विजजीवात्मने ।
कर्मिष्ठद्विजजीवनाय । कर्मिष्ठद्विजभावज्ञाय ।
कर्मिष्ठद्विजपालकाय । कर्मिष्ठद्विजजातिस्थाय ।
कर्मिष्ठद्विजकामदाय नमः ॥ ३०० ॥

ॐ कर्मिष्ठद्विजसंसेव्याय नमः । कर्मिष्ठद्विजपापघ्ने ।
कर्मिष्ठद्विजबुद्धिस्थाय । कर्मिष्ठद्विजबोधकाय ।
कर्मिष्ठद्विजभीतिघ्नाय । कर्मिष्ठद्विजमुक्तिदाय ।
कर्मिष्ठद्विजदोषघ्नाय । कर्मिष्ठद्विजकामदुहे ।
कर्मिष्ठद्विजसम्पूज्याय । कर्मिष्ठद्विजतारकाय ।
कर्मिष्ठारिष्टसंहर्त्रे । कर्मिष्ठाभीष्टसिद्धिदाय ।
कर्मिष्ठादृष्टमध्यस्थाय । कर्मिष्ठादृष्टवर्धनाय ।
कर्ममूलजगद्धेतवे । कर्ममूलनिकन्दनाय । कर्मबीजपरित्रात्रे ।
कर्मबीजविवर्धनाय । कर्मद्रुमफलाधीशाय ।
कर्मद्रुमफलप्रदाय नमः ॥ ३२० ॥

ॐ कस्तूरीद्रवलिप्ताङ्गाय नमः । कस्तूरीद्रववल्लभाय ।
कस्तूरीसौरभग्राहिणे । कस्तूरीमृगवल्लभाय । कस्तूरीतिलकानन्दिने ।
कस्तूरीतिलकप्रियाय । कस्तूरीतिलकाश्लेषिणे । कस्तूरीतिलकाङ्किताय ।
कस्तूरीवासनालीनाय । कस्तूरीवासनाप्रियाय । कस्तूरीवासनारूपाय ।
कस्तूरीवासनात्मकाय । कस्तूरीवासनान्तस्थाय । कस्तूरीवासनास्पदाय ।
कस्तूरीचन्दनग्राहिणे । कस्तूरीचन्दनार्चिताय । कस्तूरीचन्दनागाराय ।
कस्तूरीचन्दनान्विताय । कस्तूरीचन्दनाकाराय ।
कस्तूरिचन्दनासनाय नमः ॥ ३४० ॥

ॐ कस्तूरीचर्चितोरस्काय नमः । कस्तूरीचर्विताननाय ।
कस्तूरीचर्वितश्रीशाय । कस्तूरीचर्चिताम्बराय ।
कस्तूरीचर्चितास्यश्रिये । कस्तूरीचर्चितप्रियाय । कस्तूरीमोदमुदिताय ।
कस्तूरीमोदवर्धनाय । कस्तूरीमोददीप्ताङ्गाय । कस्तूरीसुन्दराकृतये ।
कस्तूरीमोदरसिकाय । कस्तूरीमोदलोलुपाय । कस्तूरीपरमानन्दिने ।
कस्तूरीपरमेश्वराय । कस्तूरीदानसन्तुष्ठाय । कस्तूरीदानवल्लभाय ।
कस्तूरीपरमाह्लादाय । कस्तूरीपुष्टिवर्धनाय । कस्तूरीमुदितात्मने ।
कस्तूरीमुदिताशयाय नमः ॥ ३६० ॥

ॐ कदलीवनमध्यस्थाय नमः । कदलीवनपालकाय ।
कदलीवनसञ्चारिने । कदलीवनसञ्चारिणे । कदलीवनवल्लभाय ।
कदलीदर्शनानन्दिने । कदलीदर्शनोत्सुकाय । कदलीपल्लवास्वदिने ।
कदलीपल्लवाश्रयाय । कदलीफलसन्तुष्टाय । कदलीफलदायकाय ।
कदलीफलसम्पुष्टाय । कदलीफलभोजनाय । कदलीफलवर्याशिने ।
कदलीफलतोषिताय । कदलीफलमाधुर्यवल्लभाय । कदलीप्रियाय ।
कपिध्वजसमायुक्ताय । कपिध्वजपरिस्तुताय । कपिध्वजपरित्रात्रे ।
कपिध्वजसमाश्रिताय नमः ॥ ३८० ॥

ॐ कपिध्वजपदान्तस्थाय नमः । कपिध्वजजयप्रदाय ।
कपिध्वजरथारूढाय । कपिध्वजयशःप्रदाय । कपिध्वजैकपापघ्नाय ।
कपिध्वजसुखप्रदाय । कपिध्वजारिसंहर्त्रे । कपिध्वजभयापहाय ।
कपिध्वजमनोऽभिज्ञाय । कपिध्वजमतिप्रदाय ।
कपिध्वजसुहृन्मित्राय । कपिध्वजसुहृत्सखाय ।
कपिध्वजाङ्गनाराध्याय । कपिध्वजगतिप्रदाय ।
कपिध्वजाङ्गनारिघ्नाय । कपिध्वजरतिप्रदाय । कपिध्वजकुलत्रात्रे ।
कपिध्वजकुलारिघ्ने । कपिध्वजकुलाधीशाय ।
कपिध्वजकुलप्रियाय नमः ॥ ४०० ॥
ॐ कपीन्द्रसेविताङ्घ्य्रब्जाय नमः । कपीन्द्रस्तुतिवल्लभाय ।
कपीन्द्रानन्दजनकाय । कपीन्द्राश्रितविग्रहाय ।
कपीन्द्राश्रितपादाब्जाय । कपीन्द्राश्रितमानसाय । कपीन्द्राराधिताकाराय ।
कपीन्द्राभीष्टसिद्धिदाय । कपीन्द्रारातिसंहर्त्रे । कपीन्द्रातिबलप्रदाय ।
कपीन्द्रैकपरित्रात्रे । कपीन्द्रैकयशःप्रदाय ।
कपीन्द्रानन्दसम्पन्नाय । कपीन्द्रानन्दवर्धनाय ।
कपीन्द्रध्यानगम्यात्मने । कपीन्द्रज्ञानदायकाय ।
कल्याणमङ्गलाकाराय । कल्याणमङ्गलास्पदाय । कल्याणमङ्गलाधीशाय ।
कल्याणमङ्गलप्रदाय नमः ॥ ४२० ॥

ॐ कल्याणमङ्गलागाराय नमः । कल्याणमङ्गलात्मकाय ।
कल्याणानन्दसम्पन्नाय । कल्याणानन्दवर्धनाय । कल्याणानन्दसहिताय ।
कल्याणानन्ददायकाय । कल्याणानन्दसन्तुष्टाय । कल्याणानन्दसंयुताय ।
कल्याणीरागसङ्गीताय । कल्याणीरागवल्लभाय । कल्याणीरागरसिकाय ।
कल्याणीरागकारकाय । कल्याणीरागवल्लभाय । कल्याणीराघरसिकाय ।
कल्याणीरागकारकाय । कल्याणीकेलिकुशलाय । कल्याणीप्रियदर्शनाय ।
कल्पशास्त्रपरिज्ञात्रे । कल्पशास्त्रार्थदोहनाय ।
कल्पशास्त्रसमुद्धर्त्रे । कल्पशास्त्रप्रस्तुताय । कल्पकोटिशतातीताय ।
कल्पकोटिशतोत्तराय नमः ॥ ४४० ॥

ॐ कल्पकोटिशतज्ञानिने नमः । कल्पकोटिशतप्रभवे ।
कल्पवृक्षसमाकाराय । कल्पवृक्षसमप्रभाय ।
कल्पवृक्षसमोदाराय । कल्पवृक्षसमस्थिताय ।
कल्पवृक्षपरित्रात्रे । कल्पवृक्षसमावृताय ।
कल्पवृक्षवनाधीशाय । कल्पवृक्षवनास्पदाय ।
कल्पान्तदहनाकाराय । कल्पन्तादहनोपमाय । कल्पान्तकालशमनाय ।
कल्पान्तातीतविग्रहाय । कलशोद्भवसंसेव्याय । कलशोद्भववल्लभाय ।
कलशोद्भावभीतिघ्नाय । कलशोद्भवसिद्धिदाय । कपिलाय ।
कपिलाकाराय नमः ॥ ४६० ॥

ॐ कपिलप्रियदशनाय नमः । कर्दमात्मजभावस्थाय ।
कर्दमप्रियकारकाय । कन्यकानीकवरदाय । कन्यकानीकवल्लभाय ।
कन्यकानीकसंस्तुत्याय । कन्यकानीकनायकाय । कन्यादानप्रदत्रात्रे ।
कन्यादानप्रदप्रियाय । कन्यादानप्रभावज्ञाय । कन्यादानप्रदायकाय ।
कश्यपात्मजभावस्थाय । कश्यपात्मजभास्कराय ।
कश्यपात्मजशत्रुघ्नाय । कश्यपात्मजपालकाय ।
कश्यपात्मजमध्यस्थाय । कश्यपात्मजवल्लभाय ।
कश्यपात्मजभीतिघ्नाय । कश्यपात्मजदुर्लभाय ।
कश्यपात्मजभावस्थाय नमः ॥ ४८० ॥

ॐ कश्यपात्मजभावविदे नमः । कश्यपोद्भवदैत्यारये ।
कश्यपोद्भवदेवराजे । कश्यपानन्दजनकाय । कश्यपानन्दवर्धनाय ।
कश्यपारिष्टसंहर्त्रे । कश्यपाभीष्टसिद्धिदाय ।
कर्तृकर्मक्रियातीताय । कर्तृकर्मक्रियान्वयाय ।
कर्तृकर्मक्रियालक्ष्याय । कर्तृकर्मक्रियास्पदाय ।
कर्तृकर्मक्रियाधीशाय । कर्तृकर्मक्रियात्मकाय ।
कर्तृकर्मक्रियाभासाय । कर्तृकर्मक्रियाप्रदाय । कृपानाथाय ।
कृपासिन्धवे । कृपाधीशाय । कृपाकराय ।
कृपासागरमध्यस्थाय नमः ॥ ५०० ॥

ॐ कृपापात्राय नमः । कृपानिधये । कृपापात्रैकवरदाय ।
कृपापात्रभयापहाय । कृपाकटाक्षपापाघ्नाय । कृतकृत्याय ।
कृतान्तकाय । कदम्बवनमध्यस्थाय । कदम्बकुसुमप्रियाय ।
कदम्बवनसञ्चारिणे । कदम्बवनवल्लभाय । कर्पूरामोदमुदिताय ।
कर्पूरामोदवल्लभाय । कर्पूरवासनासक्ताय । कर्पूरागरुचर्चिताय ।
करुणारससम्पूर्णाय । करुणारसवर्धनाय । करुणाकरविख्याताय ।
करुणाकरसागराय । कालात्मने नमः ॥ ५२० ॥

ॐ कालजनकाय नमः । कालाग्नये । कालसंज्ञकाय । कालाय ।
कालकलातीताय । कालस्थाय । कालभैरवाय । कालज्ञाय । कालसंहर्त्रे ।
कालचक्रप्रवर्तकाय । कालरूपाय । कालनाथाय । कालकृते ।
कालिकाप्रियाय । कालैकवरदाय । कालाय । कारणाय । कालरूपभाजे ।
कालमायाकलातीताय । कालमायाप्रवर्तकाय नमः ॥ ५४० ॥

ॐ कालमायाविनिर्मुक्ताय नमः । कालमायाबलापहाय ।
कालत्रयगतिज्ञात्रे । कालत्रयपराक्रमाय । कालज्ञानकलातीताय ।
कालज्ञानप्रदायकाय । कालज्ञाय । कालरहिताय । कालाननसमप्रभाय ।
कालचक्रैकहेतुस्थाय । कालरात्रिदुरत्ययाय । कालपाशविनिर्मुक्ताय ।
कालपाशविमोचनाय । कालव्यालैकदलनाय । कालव्यालभयापहाय ।
कालकर्मकलातीताय । कालकर्मकलाश्रयाय । कालकर्मकलाधीशाय ।
कालकर्मकलात्मकाय । कालव्यालपरिग्रस्तनिजभक्तैकमोचनाय नमः ॥ ५६० ॥

ओम् काशिराजशिरश्छेत्रे नमः । काशीशप्रियकारकाय ।
काशीस्थार्तिहराय । काशीमध्यस्थाय । काशिकाप्रियाय ।
काशीवासिजनानन्दिने । काशीवासिजनप्रियाय । काशीवासिजनत्रात्रे ।
काशीवासिजनस्तुताय । काशीवासिविकारघ्नाय । काशीवासिविमोचनाय ।
काशीवासिजनोद्धर्त्रे । काशीवासिकुलप्रदाय ।
काशीवास्याश्रिताङ्घ्य्रब्जाय । काशीवासिसुखप्रदाय ।
काशीस्थाभीष्टफलदाय । काशीस्थारिष्टनाशनाय ।
काशीस्थद्विजसंसेव्याय । काशीस्थद्विजपालकाय ।
काशीस्थद्विजसद्बुद्धिप्रदात्रे नमः ॥ ५८० ॥

ॐ काशिकाश्रयाय नमः । कान्तीशाय । कान्तिदाय । कान्ताय ।
कान्तारप्रियदर्शनाय । कान्तिमते । कान्तिजनकाय । कान्तिस्थाय ।
कान्तिवर्धनाय । कालागुरुसुगन्धाढ्याय । कालागरुविलेपनाय ।
कालागरुसुगन्धज्ञाय । कालागरुसुगन्धकृते । कापट्यपटलच्छेत्रे ।
कायस्थाय । कायवर्धनाय । कायभाग्भयभीतिघ्नाय ।
कायरोगापहारकाय । कार्यकारणकर्तृस्थाय ।
कार्यकारणकारकाय नमः ॥ ६०० ॥

ॐ कार्यकारणसम्पन्नाय नमः । कार्यकारणसिद्धिदाय ।
काव्यामृतरसास्वादिने । काव्यामृतरसात्मकाय । काव्यामृतरसाभिज्ञाय ।
काव्यामृतरसप्रियाय । कादिवर्णैकजनकाय । कादिवर्णप्रवर्तकाय ।
कादिवर्णविवेकज्ञाय । कादिवर्णविनोदवते । कादिहादिमनुज्ञात्रे ।
कादिहादिमनुप्रियाय । कादिहादिमनूद्धारकारकाय । कादिसंज्ञकाय ।
कालुष्यरहिताकाराय । कालुष्यैकविनाशनाय । कारागारविमुक्तात्मने ।
कारागृहविमोचनाय । कामात्मने । कामदाय नमः ॥ ६२० ॥

ॐ कामिने नमः । कामेशाय । कामपूरकाय । कामहृते । कामजनकाय ।
कामिकामप्रदायकाय । कामपालाय । कामभर्त्रे । कामकेलिकलानिधये ।
कामकेलिकलासक्ताय । कामकेलिकलाप्रियाय । कामबीजैकवरदाय ।
कामबीजसमन्विताय । कामजिते । कामवरदाय । कामक्रीडातिलालसाय ।
कामार्तिशमनाय । कामालङ्कृताय । कामसंस्तुताय ।
कामिनीकामजनकाय नमः ॥ ६४० ॥

ॐ कामिनीकामवर्धनाय नमः । कामिनीकामरसिकाय । कामिनीकामपूरकाय ।
कामिनीमानदाय । कामकलाकौतूहलप्रियाय । कामिनीप्रेमजनकाय ।
कामिनीप्रेमवर्धनाय । कामिनीहावभावज्ञाय । कामिनीरूपरसिकाय ।
कामिनीरूपभूषणाय । कामिनीमानसोल्लासिने । कामिनीमानसास्पदाय ।
कामिभक्तजनत्रात्रे । कामिभक्तजनप्रियाय । कामेश्वराय । कामदेवाय ।
काम्बीजैकजीवनाय । कालिन्दीविषसंहर्त्रे ।
कालिन्दीप्राणजीवनाय नमः ॥ ६६० ॥

ॐ कालिन्दीहृदयानन्दिने नमः । कालिन्दीनीरवल्लभाय ।
कालिन्दीकेलिकुशलाय । कालिन्दीप्रीतिवर्धनाय । कालिन्दीकेलिरसिकाय ।
कालिन्दीकेलिलालसाय । कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृताय ।
कालिन्दीनीरमध्यस्थाय । कालिन्दीनीरकेलिकृते । कालिन्दीरमणासक्ताय ।
कालिनागमदापहाय । कामधेनुपरित्रात्रे । कामधेनुसमावृताय ।
काञ्चनाद्रिसमानश्रिये । काञ्चनाद्रिनिवासकृते ।
काञ्चनाभूषणासक्ताय । काञ्चनैकविवर्धनाय ।
काञ्चनाभश्रियासक्ताय । काञ्चनाभश्रियाश्रिताय ।
कार्तिकेयैकवरदाय नमः ॥ ६८० ॥

ॐ कार्तवीर्यमदापहाय नमः । किशोरीनायिकासक्ताय ।
किशोरीनायिकाप्रियाय । किशोरीकेलिकुशलाय । किशोरीप्राणजीवनाय ।
किशोरीवल्लभाकाराय । किशोरीप्राणवल्लभाय । किशोरीप्रीतिजनकाय ।
किशोरीप्रियदर्शनाय । किशोरीकेलिसंसक्ताय । किशोरीकेलिवल्लभाय ।
किशोरीकेलिसंयुक्ताय । किशोरीकेलिलोलुपाय । किशोरीहृदयानन्दिने ।
किशोरीहृदयास्पदाय । किशोरीशाय । किशोरात्मने । किशोराय ।
किंशुकाकृतये । किंशुकाभरणालक्ष्याय नमः ॥ ७०० ॥

ॐ किंशुकाभरणान्विताय नमः । कीर्तिमते । कीर्तिजनकाय ।
कीर्तनीयपराक्रमाय । कीर्तनीययशोराशये । कीर्तिस्थाय ।
कीर्तनप्रियाय । कीर्तिश्रीमतिदाय । कीशाय । कीर्तिज्ञाय ।
कीर्तिवर्धनाय । क्रियात्मकाय । क्रियाधाराय । क्रियाभासाय ।
क्रियास्पदाय । कीलालामलचिद्वृत्तये । कीलालाश्रयकारणाय ।
कुलधर्माधिपाधीशाय । कुलधर्माधिपप्रियाय ।
कुलधर्मपरित्रात्रे नमः ॥ ७२० ॥

ॐ कुलधर्मपतिस्तुताय नमः । कुलधर्मपदाधाराय ।
कुलधर्मपदाश्रयाय । कुलधर्मपतिप्राणाय । कुलधर्मपतिप्रियाय ।
कुलधर्मपतित्रात्रे । कुलधर्मैकरक्षकाय । कुलधर्मसमासक्ताय ।
कुलधर्मैकदोहनाय । कुलधर्मसमुद्धर्त्रे । कुलधर्मप्रभावविदे ।
कुलधर्मसमाराध्याय । कुलधर्मधुरन्धराय । कुलमार्गरतासक्ताय ।
कुलमार्गरताश्रयाय । कुलमार्गसमासीनाय । कुलमार्गसमुत्सुकाय ।
कुलधर्माधिकारस्थाय । कुलधर्मविवर्धनाय ।
कुलाचारविचारज्ञाय नमः ॥ ७४० ॥

ॐ कुलाचारसमाश्रिताय नमः । कुलाचारसमायुक्ताय ।
कुलाचारसुखप्रदाय । कुलाचारातिचतुराय । कुलाचारातिवल्लभाय ।
कुलाचारपवित्राङ्गाय । कुलाचारप्रमाणकृते । कुलवृक्षैकजनकाय ।
कुलवृक्षविवर्धनाय । कुलवृक्षपरित्रात्रे ।
कुलवृक्षफलप्रदाय । कुलवृक्षफलाधीशाय ।
कुलवृक्षफलाशनाय । कुलमार्गकलाभिज्ञाय । कुलमार्गकलान्विताय ।
कुकर्मनिरतातीताय । कुकर्मनिरतान्तकाय । कुकर्ममार्गरहिताय ।
कुकर्मैकनिषूदनाय । कुकर्मरहिताधीशाय नमः ॥ ७६० ॥

ॐ कुकर्मरहितात्मकाय नमः । कुकर्मरहिताकाराय । कुकर्मरहितास्पदाय ।
कुकर्मरहिताचाराय । कुकर्मरहितोत्सवाय । कुकर्मरहितोद्देशाय ।
कुकर्मरहितप्रियाय । कुकर्मरहितान्तस्थाय । कुकर्मरहितेश्वराय ।
कुकर्मरहितस्त्रीशाय । कुकर्मरहितप्रजाय । कुकर्मोद्भवपापघ्नाय ।
कुकर्मोद्भवदुःखघ्ने । कुतर्करहिताधीशाय । कुतर्करहिताकृतये ।
कूटस्थसाक्षिणे । कूटात्मने । कूटस्थाक्षरनायकाय ।
कूटस्थाक्षरसंसेव्याय । कूटस्थाक्षरकारणाय नमः ॥ ७८० ॥

ॐ कुबेरबन्धवे नमः । कुशलाय । कुम्भकर्णविनाशनाय ।
कूर्माकृतिधराय । कूर्माय । कूर्मस्थावनिपालकाय । कुमारीवरदाय ।
कुस्थाय । कुमारीगणसेविताय । कुशस्थलीसमासीनाय ।
कुशदैत्यविनाशनाय । केशवाय । क्लेशसंहर्त्रे ।
केशिदैत्यविनाशनाय । क्लेशहीनमनोवृत्तये । क्लेशहीनपरिग्रहाय ।
क्लेशातीतपदाधीशाय । क्लेशातीतजनप्रियाय । क्लेशातीतशुभाकाराय ।
क्लेशातीतसुखास्पदाय नमः ॥ ८०० ॥

ॐ क्लेशातीतसमाजस्थाय नमः । क्लेशातीतमहामतये ।
क्लेशातीतजनत्रात्रे । क्लेशहीनजनेश्वराय । क्लेशहीनस्वधर्मस्थाय ।
क्लेशहीनविमुक्तिदाय । क्लेशहीननराधीशाय । क्लेशहीननरोत्तमाय ।
क्लेशातिरिक्तसदनाय । क्लेशमूलनिकन्दनाय । क्लेशातिरक्तभावस्थाय ।
क्लेशहीनैकवल्लभाय । क्लेशहीनपदान्तस्थाय । क्लेशहीनजनार्दनाय ।
केसराङ्कितभालश्रिये । केसराङ्कितवल्लभाय । केसरालिप्तहृदयाय ।
केसरालिप्तसद्भुजाय । केसराङ्कितवासश्रिये ।
केसराङ्कितविग्रहाय नमः ॥ ८२० ॥

ॐ केसराकृतिगोपीशाय नमः । केसरामोदवल्लभाय ।
केसरामोदमधुपाय । केसरामोदसुन्दराय । केसरामोदमुदिताय ।
केसरामोदवर्धनाय । केसरार्चितभालश्रिये । केसरार्चितविग्रहाय ।
केसरार्चितपादाब्जाय । केसरार्चितकुण्डलाय । केसरामोदसम्पन्नाय ।
केसरामोदलोलुपाय । केतकीकुसुमासक्ताय । केतकीकुसुमप्रियाय ।
केतकीकुसुमाधीशाय । केतकीकुसुमाङ्किताय । केतकीकुसुमामोदवर्धनाय ।
केतकीप्रियाय । केतकीशोभिताकाराय । केतकीशोभिताम्बराय नमः ॥ ८४० ॥

ॐ केतकीकुसुमामोदवल्लभाय नमः । केतकीश्वराय ।
केतकीसौरभानन्दिने । केतकीसौरभप्रियाय । केयूरालङ्कृतभुजाय ।
केयूरालङ्कृतात्मकाय । केयूरालङ्कृतश्रीशाय ।
केयूरप्रियदर्शनाय । केदारेश्वरसंयुक्ताय । केदारेश्वरवल्लभाय ।
केदारेश्वरपार्श्वस्थाय । केदारेश्वरभक्तपाय । केदारकल्पसारज्ञाय ।
केदारस्थलवासकृते । केदाराश्रितभीतिघ्नाय । केदाराश्रितमुक्तिदाय ।
केदारावासिवरदाय । केदाराश्रितदुःखघ्ने । केदारपोषकाय ।
केशाय नमः ॥ ८६० ॥

ॐ केदारान्नविवर्धनाय नमः । केदारपुष्टिजनकाय ।
केदारप्रियदर्शनाय । कैलासेशसमाजस्थाय । कैलासेशप्रियङ्कराय ।
कैलासेशसमायुक्ताय । कैलासेशप्रभावविदे । कैलासाधीशशत्रुघ्नाय ।
कैलासपतितोषकाय । कैलासाधीशसहिताय । कैलासाधीशवल्लभाय ।
कैवल्यमुक्तिजनकाय । कैवल्यपदवीश्वराय । कैवल्यपदवीत्रात्रे ।
कैवल्यपदवीप्रियाय । कैवल्यज्ञानसम्पन्नाय । कैवल्यज्ञानसाधनाय ।
कैवल्यज्ञानगम्यात्मने । कैवल्यज्ञानदायकाय ।
कैवल्यज्ञानसंसिद्धाय नमः ॥ ८८० ॥

ॐ कैवल्यज्ञानदीपकाय नमः । कैवल्यज्ञानविख्याताय ।
कैवल्यैकप्रदायकाय । क्रोधलोभभयातीताय । क्रोधलोभविनाशनाय ।
क्रोधारये । क्रोधहीनात्मने । क्रोधहीनजनप्रियाय ।
क्रोधहीनजनाधीशाय । क्रोधहीनप्रजेश्वराय । कोपतापोपशमनाय ।
कोपहीनवरप्रदाय । कोपहीननरत्रात्रे । कोपहीनजनाधिपाय ।
कोपहीननरान्तःस्थाय । कोपहीनप्रजापतये । कोपहीनप्रियासक्ताय ।
कोपहीनजनार्तिघ्ने । कोपहीनपदाधीशाय । कोपहीनपदप्रदाय नमः ॥ ९०० ॥

ॐ कोपहीननरस्वामिने नमः । कोपहीनस्वरूपधृषे ।
कोकिलालापसङ्गीताय । कोकिलालापवल्लभाय । कोकिलालापलीनात्मने ।
कोकिलालापकाराय । कोकिलालापकान्तेशाय । कोकिलालापभावविदे ।
कोकिलागानरसिकाय । कोकिलास्वरवल्लभाय । कोटिसूर्यसमानश्रिये ।
कोटिचन्द्रामृतात्मकाय । कोटिदानवसंहर्त्रे । कोटिकन्दर्पदर्पघ्ने ।
कोटिदेवेन्द्रसंसेव्याय । कोटिब्रह्मार्चिताकृतये ।
कोटिब्रह्माण्डमध्यस्थाय । कोटिविद्युत्समद्युतये ।
कोट्यश्वमेधपापघ्नाय । कोटिकामेश्वराकृतये नमः ॥ ९२० ॥

ॐ कोटिमेघसमोदाराय नमः । कोटिवह्निसुदुःसहाय ।
कोटिपाथोधिगम्भीराय । कोटिमेरुसमस्थिराय ।
कोटिगोपीजनाधीशाय । कोटिगोपाङ्गनावृताय । कोटिदैत्येशदर्पघ्नाय ।
कोटिरुद्रपराक्रमाय । कोटिभक्तार्तिशमनाय । कोटिदुष्टविमर्दनाय ।
कोटिभक्तजनोद्धर्त्रे । कोटियज्ञफलप्रदाय । कोटिदेवर्षिसंसेव्याय ।
कोटिब्रह्मर्षिमुक्तिदाय । कोटिराजर्षिसंस्तुत्याय । कोटिब्रह्माण्डमण्डनाय ।
कोट्याकाशप्रकाशात्मने । कोटिवायुमहाबलाय । कोटितेजोमयाकाराय ।
कोटिभूमिसमक्षमिणे नमः ॥ ९४० ॥

ॐ कोटिनीरसमस्वच्छाय । कोटिदिग्ज्ञानदायकाय । कोटिब्रह्माण्डजनकाय ।
कोटिब्रह्माण्डबोधकाय । कोटिब्रह्माण्डपालकाय । कोटिब्रह्माण्डसंहर्त्रे ।
कोटिवाक्पतिवाचालाय । कोटिशुक्रकवीश्वराय । कोटिद्विजसमाचाराय ।
कोटिहेरम्बविघ्नघ्ने । कोटिमानसहंसात्मने । कोटिमानससंस्थिताय ।
कोटिच्छलकरारातये । कोटिदाम्भिकनाशनाय । कोटिशून्यपथच्छेत्रे ।
कोटिपाखण्डखण्डनाय । कोटिशेषधराधाराय । कोटिकालप्रबोधकाय ।
कोटिवेदान्तसंवेद्याय । कोटिसिद्धान्तनिश्चयाय नमः ॥ ९६० ॥

ॐ कोटियोगीश्वराधीशाय नमः । कोटियोगैकसिद्धिदाय ।
कोटिधामाधिपाधीशाय । कोटिलोकैकपालकाय । कोटियज्ञैकभोक्त्रे ।
कोटियज्ञफलप्रदाय । कोटिभक्तहृदन्तस्थाय ।
कोटिभक्ताभयप्रदाय । कोटिजन्मार्तिशमनाय । कोटिजन्माघनाशनाय ।
कोटिजन्मान्तरज्ञानप्रदात्रे । कोटिभक्तपाय । कोटिशक्तिसमायुक्ताय ।
कोटिचैतन्यबोधकाय । कोटिचक्रावृताकाराय । कोटिचक्रप्रवर्तकाय ।
कोटिचक्रार्चनत्रात्रे । कोटिवीरावलीवृताय । कोटितीर्थजलान्तस्थाय ।
कोटितीर्थफलप्रदाय नमः ॥ ९८० ॥

ॐ कोमलामलचिद्वृत्तये नमः । कोमलामलमानसाय ।
कौस्तुभोद्भासितोरस्काय । कौस्तुभोद्भासिताकृतये ।
कौरवानीकसंहर्त्रे । कौरवार्णवकुम्भभुवे । कौन्तेयाश्रितपादाब्जाय ।
कौन्तयाभयदायकाय । कौन्तेयारातिसंहर्त्रे । कौन्तेयप्रतिपालकाय ।
कौन्तेयानन्दजनकाय । कौन्तेयप्राणजीवनाय । कौन्तयाचलभावज्ञाय ।
कौन्तयाचलमुक्तिदाय । कौमुदीमुदिताकाराय । कौमुदीमुदिताननाय ।
कौमुदीमुदितप्राणाय । कौमुदीमुदिताशयाय । कौमुदीमोदमुदिताय ।
कौमुदीमोदवल्लभाय नमः ॥ १००० ॥

ॐ कौमुदीमोदमधुपाय नमः । कौमुदीमोदवर्धनाय ।
कौमुदीमोदमानात्मने । कौमुदीमोदसुन्दराय । कौमुदीदर्शनानन्दिने ।
कौमुदीदर्शनोत्सुकाय । कौसल्यापुत्रभावस्थाय ।
कौसल्यानन्दवर्धनाय । कंसारये । कंसहीनात्मने ।
कंसपक्षनिकन्दनाय । कङ्कालाय । कङ्कवरदाय ।
कण्टकक्षयकारकाय । कन्दर्पदर्पशमनाय । कन्दर्पाभिमनोहराय ।
कन्दर्पकामनाहीनाय । कन्दर्पज्वरनाशनाय नमः ॥ १०१८ ॥

इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये
ककारादि श्रीकृष्णसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Kakaradi Shri Krishna:

1000 Names of Kakaradi Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Kakaradi Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top