Templesinindiainfo

Best Spiritual Website

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Yajnavalkya Ashtottara Shatanama Stotram in Hindi:

॥ श्री याज्ञवल्क्य अष्टोत्तरशतनाम स्तोत्रम् ॥
अस्य श्री याज्ञवल्क्याष्टोत्तर शतनामस्तोत्रस्य, कात्यायन ऋषिः अनुष्टुप् छन्दः, श्री याज्ञवल्क्यो गुरुः, ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्, मम श्री याज्ञवल्क्यस्य प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

न्यासम् ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।

ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्बन्धः ॥

ध्यानम् ।
वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम् ।
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् ॥

जितेन्द्रियं जितक्रोधं सदाध्यानपरायणम् ।
आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् ॥

वेदान्तवेद्यं सकलागमग्नं
दयासुधासिन्धुमनन्तरूपम् ।
श्री याज्ञवल्क्यं परिपूर्णचन्द्रं
श्रीमद्गुरुं नित्यमहं नमामि ॥

प्रणमाद्यं दिनमणिं योगीश्वर शिरोमणिं ।
सर्वज्ञं याज्ञवल्क्यं तच्छिष्यं कात्यायनं मुनिम् ॥

पञ्चपूजा ।
लं पृथिव्यात्मने गन्धान् धारयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने दिव्यामृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने समस्तराजोपचारान् देवोपचारान् समर्पयामि ।

मुनयः ऊचुः ।
भगवन्मुनिशार्दूल गौतम ब्रह्मवित्तमः ।
उपायं कृपया ब्रूहि तत्त्वज्ञानस्य नो दृढम् ॥

कृतप्रश्नेषु तेष्वेवं कृपया मुनिसत्तमः ।
ध्यात्वामुहूर्तं धर्मात्मा इदं प्राह स गौतमः ॥

गौतम उवाच ।
उपायश्श्रूयतां सम्यक् तत्त्व ज्ञानस्य सिद्धये ।
यथा मति प्रवक्ष्यामि विचार्य मनसा मुहुः ॥

श्रुणुध्वं मुनयो यूयं तत्त्वज्ञान बुभुत्सवः।
यस्य स्मरणमात्रेण सुलभस्तत्व निश्चयः ॥

ब्रह्मिष्ठ प्रवरस्याऽस्य याज्ञवल्क्यस्य शोभनम् ।
नाम्नामष्टोत्तरशतं तत्त्वज्ञानप्रदायकम् ॥

सर्वपापप्रशमनं चाऽयुरारोग्यवर्धनम् ।
अष्टोत्तर शतस्याऽस्य ऋषिः कात्यायनः स्मृतः ॥

छन्दोऽनुष्टुप् देवता च याज्ञवल्क्यो महामुनिः ।
इदं जपन्ति ये वै ते मुक्ति मे वसमाप्नुयुः ॥

॥ स्तोत्रम् ॥

श्रीयाज्ञ्यवल्क्यो ब्रह्मिष्ठो जनकस्यगुरुस्तथा ।
लोकाचार्यस्तथा ब्रह्ममनोजो योगिनाम्पतिः ॥

शाकल्य प्राणदाता च मैत्रेयी ज्ञानदो महान् ।
कात्यायनीप्रियः शान्तः शरणत्राणतत्परः ॥

धर्मशास्त्रप्रणेता च ब्रह्मविद् ब्राह्मणोत्तमः ।
योगीश्वरो योगमूर्तिः योगशास्त्रप्रवर्तकः ॥

गताऽगतज्ञोभूतानां विद्याऽविद्याविभागवित् ।
भगवान् शास्त्रतत्त्वज्ञः तपस्वीशरणंविभुः ॥

तत्त्वज्ञान प्रदाता च सर्वज्ञः करुणात्मवान् ।
सन्यासिनामादिमश्च सूर्यशिष्यो जितेन्द्रियः ॥

अयातयाम सञ्ज्ञायां प्रवर्तन परो गुरुः ।
वाजि विप्रोत्तमः सत्यः सत्यवादी दृढव्रतः ॥

धातृ प्रसाद संलब्ध गायत्री महिमा मतिः ।
गार्गिस्तुतो धर्मपुत्र यागाध्वर्युर्विचक्षणः ॥

दुष्टराज्ञाम्शापदाता शिष्टानुग्रहकारकः ।
अनन्तगुणरत्नाढ्यो भवसागरतारकः ॥

स्मृतिमात्रात्पापहन्ता ज्योतिर्ज्योतिविदां वरः ।
विश्वाचार्यो विष्णुरूपो विश्वप्रिय हितेरतः ॥

श्रुतिप्रसिद्धः सिद्धात्मा समचित्तः कलाधरः ।
आदित्यरूप आदित्यसहिष्णुर्मुनिसत्तमः ॥

सामश्रवादिशिष्यैश्च पूजताङ्घ्रिः दयानिधिः ।
ब्रह्मरातसुतः श्रीमान् पङ्क्तिपावन पावनः ॥

सम्शयस्यापिसर्वस्यनिवर्तनपटुव्रतः ।
सनकादिमहायोगिपूजितः पुण्यकृत्तमः ॥

सूर्यावतारः शुद्धात्मा यज्ञनारायणाम्शभृत् ।
आदिवैदेहशालाङ्क-ऋषिजेतात्रयीमयः ॥

होताश्वलमुनिप्राप्तप्रभावः कार्यसाधकः ।
शरणागतवैदेहः कृपालुः लोकपावनः ॥

ब्रह्मिष्ठप्रवरो दान्तो वेदवेद्यो महामुनिः ।
वाजीवाजसनेयश्च वाजिविप्रकृताधिकृत् ॥

कल्याणदो यज्ञराशिर्यज्ञात्मा यज्ञवत्सलः ।
यज्ञप्रधानो यज्ञेशप्रीतिसञ्जननो धृवः ॥

कृष्णद्वैपायनाचार्यो ब्रह्मदत्तप्रसादकः ।
शाण्डिल्यविद्या प्रभृति विद्यावादेषु निष्ठितः ॥

अज्ञानान्धतमःसूर्यो भगवद्ध्यान पूजितः ।
त्रयीमयो गवांनेता जयशीलः प्रभाकरः ॥

वैशम्पायन शिष्याणां तैत्तरीयत्वदायकः ।
कण्वादिभ्यो यात याम शाखाध्या पयितृत्त्व भाक् ॥

पङ्क्तिपावनविप्रेभ्यः परमात्मैकबुद्धिमान् ।
तेजोराशिः पिशङ्गाक्षः परिव्राजकराण्मुनिः ॥

नित्याऽनित्यविभागज्ञः सत्याऽसत्यविभागवित्।

फलश्रुति:-
एतदष्टोत्तरशतं नाम्नां गुह्यतमं विदुः ।
याज्ञवल्क्यप्रसादेन ज्ञात्वोक्तं भवतां मयम् ॥

जपध्वं मुनि शार्दूलास्तत्वज्ञानं दृढं भवेत् ।
प्रातः काले समुत्थाय स्नात्वा नियत मानसः ॥

इदं जपति योगीश नाम्नामष्टोत्तरम्शतम् ।
स एव मुनिशार्दूलो दृढ तत्त्व धियां वरः ॥

विद्यार्थी चाप्नुयात् विद्यां धनार्थी चाप्नुयाद्धनम् ।
आयुरर्थी च दीर्घायुः नाऽपमृत्युरवाप्नुयात् ॥

राज्यार्थी राज्यभाग्भूयात् कन्यार्थी कन्यकां लभेत् ।
रोगर्तो मुच्यते रोगात् त्रिम्शद्वारञ्जपेन्नरः ॥

शतवारं भानुवारे जप्त्वाऽभीष्ट मवाप्नुयात् ।
इत्युक्तं समुपाश्रित्य गौतमेन महात्मना ॥

तथैव जजपुस्तत्र ते सर्वेऽपि यथाक्रमम् ।
ब्राह्मणान्भोजयामासुः पुनश्चरणकर्मणि ॥

अष्टोत्तरशतस्यास्य यज्ञवल्क्यस्य धीमतः ।
अत्यन्तगूढ माहात्म्यं भस्मच्छन्मानलोपमम् ॥

ततस्तु ब्रह्मविच्छेष्टो गौतमो मुनिसत्तमः ।
प्राणायामपरो भूत्वा स्नात्वा तद्ध्यानमास्थितः ॥

ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।

ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्विमोकः ॥

इति श्रीमदादित्यपुराणे सनत्कुमारसंहितायां गौतममुनिवृन्द संवादे श्री याज्ञवल्क्यस्याऽष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ।

ओं योगीश्वराय विद्महे याज्ञवल्क्यय धीमहि। तन्नश्शुक्लः प्रचोदयात् ॥

Also Read:

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top