Sri Gopala Vimsathi Lyrics in Hindi
Shri Gopala Vimsati in Hindi: ॥ श्री गोपाल विम्शति ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ वन्दे बृन्दावनचरं वल्लवी जनवल्लभं । जयन्तीसम्भवं धाम वैजयन्ती विभूषणम् ॥ १ ॥ वाचं निजाङ्करसिकां प्रसमीक्षमाणो वक्त्रारविन्दविनिवेशितपाञ्चजन्यः । वर्णत्रिकोणरुचिरे वरपुण्डरीके बद्धासनो जयति वल्लवचक्रवर्ती ॥ २ ॥ आम्नायगन्धिरुचिरस्फुरिताधरोष्ठं आस्राविलेक्षणमनुक्षणमन्दहासं । गोपालडिम्भवपुषं कुहना जनन्याः प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ ३ […]