Templesinindiainfo

Best Spiritual Website

Durga Ashtakam Lyrics in Hindi | दुर्गाष्टकम्

Sri Durgashtakam Lyrics in Hindi:

॥ दुर्गाष्टकम् ॥
दुर्गे परेशि शुभदेशि परात्परेशि
वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १ ॥

दिव्ये नुते श्रुतिशतैर्विमले भवेशि
कन्दर्पदाराशतसुन्दरि माधवेशि ।
मेधे गिरीशतनये नियते शिवेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २ ॥

रासेश्वरि प्रणततापहरे कुलेशि
धर्मप्रिये भयहरे वरदाग्रगेशि ।
वाग्देवते विधिनुते कमलासनेशि
कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३ ॥

पूज्ये महावृषभवाहिनि मंगलेशि
पद्मे दिगम्बरि महेश्वरि काननेशि
रम्येधरे सकलदेवनुते गयेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४ ॥

श्रद्धे सुराऽसुरनुते सकले जलेशि
गंगे गिरीशदयिते गणनायकेशि ।
दक्षे स्मशाननिलये सुरनायकेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५ ॥

तारे कृपार्द्रनयने मधुकैटभेशि
विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।
ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि
कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६ ॥

मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि
माहेश्वरि त्रिनयने प्रबले मखेशि ।
तृष्णे तरंगिणि बले गतिदे ध्रुवेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७ ॥

विश्वम्भरे सकलदे विदिते जयेशि
विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।
मातः सरोजनयने रसिके स्मरेशि
कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८ ॥

दुर्गाष्टकं पठति यः प्रयतः प्रभाते
सर्वार्थदं हरिहरादिनुतां वरेण्यां ।
दुर्गां सुपूज्य महितां विविधोपचारैः
प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९ ॥

॥ इति श्री मत्परमहंसपरिव्राजकाचार्य
श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि-
श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्री मदनन्तानन्द-सरस्वति
विरचितं श्री दुर्गाष्टकं सम्पूर्णम् ॥

Also Read:

Durga Ashtakam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Durga Ashtakam Lyrics in Hindi | दुर्गाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top