Templesinindiainfo

Best Spiritual Website

Dwadasa Jyotirlinga Stotram Lyrics in Marathi

Dwadasa Jyotirlinga in Marathi:

॥ द्वादश ज्योतिर्लिङ्ग स्तोत्रम ॥

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्र कलावतंसम ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृङ्गॆ विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम ॥ 2 ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम ॥ 3 ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ 4 ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 6 ॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पुज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥ 7 ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 8 ॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 9 ॥

यं डाकिनीशाकिनिकासमाजैर्निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 10 ॥

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपाप वॄन्दम ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 11 ॥

इलापुरे रम्यविशालकेऽस्मिन्समुल्लसन्तं च जगद्वरेण्यम ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ 13 ॥

इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रं संपूर्णम ॥

Also Read:

Dwadasa Jyotirlinga Stotram in Hindi | English | Bengali | Gujarati | Marathi | Kannada | Malayalam | Telugu | Tamil

Dwadasa Jyotirlinga Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top