1000 Names of Sri Pitambara | Sahasranama Stotram Lyrics in Hindi
Shri Pitambarisahasranamastotram Lyrics in Hindi: ॥ श्रीपीताम्बरीसहस्रनामस्तोत्रम् ॥ अथवा श्रीबगलामुखीसहस्रनामस्तोत्रम् अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् । सुरालयप्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १ ॥ श्रीदेव्युवाच परमेष्ठिन्परन्धाम प्रधान परमेश्वर । नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २ ॥ ईश्वर उवाच शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३ ॥ गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् । अतिगुप्ततरव्विद्या सर्वतन्त्रेषु गोपिता ॥ […]