Shri Vallabha Ashtakam 2 Lyrics in Hindi
Sri Vallabhashtakam 2 Lyrics in Hindi: श्रीवल्लभाष्टकम् २ प्रथयितुमच्युतचरणाम्बुजरसपानैकसंश्रयं वर्त्म । श्रीमल्लक्ष्मणतनुजो जगति श्रीवल्लभो जयति ॥ १॥ यदनुग्रहेण जन्तून् व्रजमतिरप्यात्मनो मनुते । निःसाधनानसाध्यो जगति श्रीवल्लभो जयति ॥ २॥ विश्वोद्धारविचारप्रकटितकरुणोत्तरङ्गपाथोभिः । दिशि दिशि विदितविभूतिर्जगति श्रीवल्लभो जयति ॥ ३॥ मायामताद्रिपक्षं सर्वं ब्रह्मेति वादवज्रेण । चिच्छेदाद्भुतवीर्यो जगति श्रीवल्लभो जयति ॥ ४॥ वितरति कृष्णकथामृतधनमविनाश्यं सुदुर्लभं बहुलम् । अर्थिषु तदुदितकीर्तिर्जगति […]