Shri Vallabha Ashtakam 1 Lyrics in Hindi
Sri Vallabhashtakam 1 Lyrics in Hindi: श्रीवल्लभाष्टकम् १ श्रीमद्वृन्दावनेन्दुप्रकटितरसिकानन्दसन्दोहरूप- स्फूर्जद्रासादिलीलाऽमृतजलधिभराक्रान्तसर्वोऽपि शश्वत् । तस्यैषात्मानुभावप्रकटनहृदयस्याज्ञया प्रादुरासीद्- भूमौ यः सन्मनुष्याकृतिरतिकरुणस्तं प्रपद्ये हुताशम् ॥ १॥ नाविर्भूयाद्भवांश्चेदधिधरणितलं भूतनाथोदितास- न्मार्गध्वान्तान्धतुल्या निगमपथपतौ देवसर्गेऽपि जाताः । घोषाधीशं तदेमे कथमपि मनुजाः प्राप्नुयुर्नैव देवी- सृष्टिर्व्यर्था च भूयान्निजफलरहिता देववैश्वानरैषा ॥ २॥ न ह्यन्यो वागधीशाच्छ्रुतिगणवचसां भावमाज्ञातुमीष्टे यस्मात्साध्वी स्वभावं प्रकटयति वधूरग्रतः पत्युरेव । तस्माच्छ्रीवल्लभाख्य त्वदुदितवचनादन्यथा रूपयन्ति भ्रान्ता ये […]