Templesinindiainfo

Best Spiritual Website

Shambhu Stotram Lyrics in Marathi

Shambhustotram in Marathi:

॥ शम्भुस्तोत्रम ॥
नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद\-
गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत .
भूयो भूय इहानुभूय सुतरां कष्टानि नष्टो.अस्म्यहं
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 1 ||

बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः
तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः .
लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः
सो.अहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे || 2 ||

तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनी\-
सक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः .
कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 3 ||

वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः
श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयो.अनाश्रयः .
लालोच्च्हिष्टपुरीषमूत्रसलिलक्लिन्नो.अस्मि दीनो.अस्म्यहं
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 4 ||

ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा
पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः .
नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव संतर्पिता
पापिष्ठेन मया सदाशिव विभो शंभो दयाम्भोनिधे || 5 ||

संध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं
त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम .
त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता
भोगासक्तिमता मया शिव विभो शंभो दयाम्भोनिधे || 6 ||

संध्याध्यानजपादिकर्मकरणे शक्तो.अस्मि नैव प्रभो
दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे .
नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 7 ||

कुम्भीपाकधुरंधरादिषु महाबीजादिषु प्रोद्धतं
घोरं नारकदुःखमीषदपि वा सोढुं न शक्तो.अस्म्यहम .
तस्मात त्वां शरणं व्रजामि सततं जानामि न त्वां विना
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 8 ||

माता वापि पिता सुतो.अपि न हितो भ्रात्रादयो बान्धवाः
सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न के.अपि क्षमाः .
दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शंकर
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 9 ||

|| शंभुस्तोत्रं संपूर्णम ||

Also Read:

Shambhu Stotram Lyrics in Hindi | English | Marathi  | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shambhu Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top