Templesinindiainfo

Best Spiritual Website

Sri Somasundara Ashtakam Lyrics in Hindi

Sri Somasundara Ashtakam in Hindi:

॥ श्री सोमसुन्दराष्टकम् ॥
इन्द्र उवाच –
एकंब्रह्माऽद्वितीयं च परिपूर्णं परापरम् ।
इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १ ॥

ज्ञातृज्ञानज्ञेयरूपं विश्वव्याप्यं व्यवस्थितम् ।
यं सर्वैरप्यदृश्योयस्तं वन्दे सोमसुन्दरम् ॥ २ ॥

अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः ।
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३ ॥

यं विदित्वा बुधास्सर्वे कर्मबन्धविवर्जिताः ।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४ ॥

देवदेवं य-माराध्य मृकण्डुतनयो मुनिः ।
नित्यत्वमगमत्सद्यस्तं वन्दे सोमसुन्दरम् ॥ ५ ॥

निजनेत्राम्बुजकृतं पूजया परितोष्ययम् ।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम् ॥ ६ ॥

येन सर्वं जगत्सृष्टं रक्षितं संहृतं क्रमात् ।
नत्वं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम् ॥ ७ ॥

यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते ।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम् ॥ ८ ॥

यस्मै वेदाश्च चत्वारो नमस्यन्त वपुर्धराः ।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम् ॥ ९ ॥

यस्य प्रणममात्रेण सन्ति सर्वाश्च सम्पदः ।
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम् ॥ १० ॥

यस्य दर्शनमात्रेण ब्रह्महत्यादि पातकम् ।
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम् ॥ ११ ॥

उत्तमाङ्गं च चरणं ब्रह्मणा विष्णुनाऽपि च ।
न दृश्यते यस्य यत्नस्तं वन्दे सोमसुन्दरम् ॥ १२ ॥

इति श्रीहालास्यमाहात्म्ये इन्द्रकृतं श्रीसोमसुन्दराष्टकम् ।

Also Read:

Sri Somasundara Ashtakam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Somasundara Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top