Hinduism Perspective Marathi Stotras Shiva Stotram

Shiva Shadakshara Stotram Lyrics in Marathi

शिवषडक्षर स्तोत्रम Lyrics in Marathi:

शिवषडक्षर स्तोत्रम

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥ 1 ॥

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥ 2 ॥

महादेवं महात्मानं महाध्यान परायणम ।
महापापहरं देवं मकाराय नमो नमः ॥ 3 ॥

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ 4 ॥

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥ 5 ॥

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ 7 ॥

इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम ॥