Vatapi Ganapathim Bhaje in Hindi:
॥ वातापि गणपतिं भजेहं ॥
(श्री मुत्तुस्वामि दीक्षितर्)
वातापि गणपतिं भजेऽहं
वारणाश्यं वरप्रदं श्री ।
भूतादि संसेवित चरणं
भूत भौतिक प्रपञ्च भरणं ।
वीतरागिणं विनुत योगिनं
विश्वकारणं विघ्नवारणं ।
पुरा कुम्भ सम्भव मुनिवर प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं मूलाधार क्षेत्रस्थितं
परादि चत्वारि वागात्मकं प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं निजवामकर विद्रुतेक्षुखण्डं ।
कराम्बुज पाश बीजापूरं
कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं
हंसध्वनि भूषित हेरम्बं ।
Also Read:
Vatapi Ganapathim Bhaje Lyrics in English | Telugu | Hindi
Other Keerthanas:
Vatapi Ganapathim Bhaje Lyrics in Hindi