Templesinindiainfo

Best Spiritual Website

1000 Names of Aghora Murti | Sahasranamavali Stotram Lyrics in Hindi

Aghora Murti Sahasranamavali Lyrics in Hindi:

॥ अघोरमूर्तिसहस्रनामावलिः ॥
अथ मूलम् ।
ॐ श्रीं ह्रीं क्लीं सौः क्ष्मीं घोर घोराय ज्वल ज्वल
प्रज्वल प्रज्वल अघोरास्त्राय फट् स्वाहा ।
इति मूलम् ।
ॐ अस्य श्रीअघोरमूर्तिनामसहस्रस्य श्रीमहाकालभैरव ऋषिः,
पङ्क्ति छन्दः, अघोरमूर्तिः परमात्मा देवता ।
ॐ बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकम् ।
अघोर विद्यासिद्ध्यर्थे जपे पाठे विनियोगः ।

अथ न्यासः –
ह्रां अङ्गुष्ठभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूँ मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि षडङ्गन्यासः ।
अपि च-
ॐ नमो भगवते अघोराय शूलपाणये स्वाहा हृदयाय नमः ।
रुद्रायामृतमूर्तये मां जीवय जीवय शिरसे स्वाहा ।
नीलकण्ठाय चन्द्रजटिने शिखायै वषट् ।
त्रिपुरान्तकाय कवचाय हुम् ।
त्रिलोचनाय ऋग्यजुःसाममूर्तये नेत्राभ्यां वौषट् ।
रुद्रायाग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष
अघोरास्त्राय हुं फट् स्वाहा । अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः एवं करन्यासः ।
भू र्भुवः स्वरिति दिग्बन्धः ।

अथ ध्यानम् ।
श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये
देवं सुधास्रविणमिन्दुकलाधरं च ।
शुद्धाक्षसूत्रकलशामृतपद्महस्तं
देवं भजामि हृदये भुवनैकनाथम् ॥

अपि च –
महाकायं महोरस्कं महादंशं महाभुजम् ।
सुधास्यं शशिमौलिं च ज्वालाकेशोर्ध्वबन्धनम् ॥

किङ्किणीमालया युक्तं सर्पयज्ञोपवीतिनम् ।
रक्ताम्बरधरं देवं रक्तमालाविभूषितम् ।
पादकिङ्किणीसञ्च्छन्नं नूपुरैरतिशोभितम् ॥

ध्यानमार्गस्थितं घोरं पङ्कजासनसंस्थितम् ।
भजामि हृदये देवं देवं चाघोरभैरवम् ॥

इति ध्यानम् ।
अथ मूलमन्त्रः ।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥

इति मूलम् ।
अथ अघोराय नमः ।

ॐ ह्रीं श्रीं क्लीं महारुद्राय नमः । ग्लौं ग्लां अघोरभैरवाय ।
क्ष्मीं कालाग्नये । कलानाथाय । कालाय । कालान्तकाय । कलये ।
श्मशानभैरवाय । भीमाय । भीतिघ्ने । भगवते । प्रभवे ।
भाग्यदाय । मुण्डहस्ताय । मुण्डमालाधराय । महते । उग्रोग्ररवाय ।
अत्युग्राय । उग्रतेजसे । रोगघ्ने नमः । २०

ॐ रोगदाय नमः । भोगदाय । भोक्त्रे । सत्याय । शुद्धाय । सनातनाय ।
चित्स्वरूपाय । महाकायाय । महादीप्तये । मनोन्मनाय । मान्याय ।
धन्याय । यशःकर्त्रे । हर्त्रे । भर्त्त्रे । महानिधये । चिदानन्दाय ।
चिदाकाराय । चिदुल्लासाय । चिदीश्वराय नमः । ४०

ॐ चिन्त्याय नमः । अचिन्त्याय । अचिन्त्यरूपाय । स्वरूपाय ।
रूपविग्रहिने । भूतेभ्यो भूतिदाय । भूत्याय । भूतात्मने ।
भूतभावनाय । चिदानन्दाय । प्रकाशात्मने । सनात्मने । बोधविग्रहाय ।
हृद्बोधाय । बोधवते । बुद्धाय । बुद्धिदाय । बुद्धमण्डनाय ।
सत्यपूर्णाय । सत्यसन्धाय नमः । ६०

ॐ सतीनाथाय नमः । समाश्रयाय । त्रैगुण्याय । निर्गुणाय । गुण्याय ।
अग्रण्ये । गुणविवर्जिताय । सुभावाय । सुभवाय । स्तुत्याय । स्तोत्रे ।
श्रोत्रे । विभाकराय । कालकालान्धकत्रासकर्त्रे । हर्त्रे । विभीषणाय ।
विरूपाक्षाय । सहस्राक्षाय । विश्वाक्षाय । विश्वतोमुखाय नमः । ८०

ॐ चराचरात्मने नमः । विश्वात्मने । विश्वबोधाय । विनिग्रहाय ।
सुग्रहाय । विग्रहाय । वीराय । धीराय । धीरभृतां वराय । शूराय ।
शूलिने । शूलहर्त्रे । शङ्कराय । विश्वशङ्कराय । कङ्कालिने ।
कलिघ्ने । कामिने । हासघ्ने । कामवल्लभाय । कान्तारवासिने नमः । १००

ॐ कान्तास्थाय नमः । कान्ताहृदयधारणाय । काम्याय । काम्यनिधये ।
कान्ताकमनीयाय । कलाधराय । कलेशाय । सकलेशाय । विकलाय ।
शकलान्तकाय । शान्ताय । भ्रान्ताय । महारूपिणे । सुलभाय ।
दुर्लभाशयाय । लभ्याय । अनन्ताय । धनाधीनाय । सर्वगाय ।
सामगायनाय नमः । १२०

ॐ सरोजनयनाय नमः । साधवे । साधूनामभयप्रदाय । सर्वस्तुत्याय ।
सर्वगतये । सर्वातीताय । अगोचराय । गोप्त्रे । गोप्ततराय ।
गानतत्पराय । सत्यपरायणाय । असहायाय । महाशान्ताय । महामूर्ताय ।
महोरगाय । महतीरवसन्तुष्टाय । जगतीधरधारणाय । भिक्षवे ।
सर्वेष्टफलदाय । भयानकमुखाय नमः । १४०

ॐ शिवाय नमः । भर्गाय । भागीरथीनाथाय । भगमालाविभूषणाय ।
जटाजूटिने । स्फुरत्तेजसे । चण्डांशवे । चण्डविक्रमाय । दण्डिने ।
गणपतये । गुण्याय । गणनीयाय । गणाधिपाय । कोमलाङ्गाय । क्रूरास्याय ।
हास्याय । मायापतये । सुधिये । सुखदाय । दुःखघ्ने नमः । १६०

ॐ दम्भाय नमः । दुर्जयाय । विजयिने । जयाय । जयाय ।
अजयाय । ज्वलत्तेजसे । मन्दाग्नये । मदविग्रहाय । मानप्रदाय ।
विजयदाय । महाकालाय । सुरेश्वराय । अभयाङ्काय । वराङ्काय ।
शशाङ्ककृतशेखराय । लेख्याय । लिप्याय । विलापिने ।
प्रतापिने नमः । १८०

ॐ प्रमथाधिपाय नमः । प्रख्याय । दक्षाय । विमुक्ताय । रुक्षाय ।
दक्षमखान्तकाय । त्रिलोचनाय । त्रिवर्गेशाय । त्रिगुणिने ।
त्रितयीपतये । त्रिपुरेशाय । त्रिलोकेशाय । त्रिनेत्राय । त्रिपुरान्तकाय ।
त्र्यम्बकाय । त्रिगतये । स्वक्षाय । विशालाक्षाय । वटेश्वराय ।
वटवे नमः । २००

ॐ पटवे नमः । परस्मै । पुण्याय । पुण्यदाय । दम्भवर्जिताय ।
दम्भिने । विलम्भिने । विषेभये । संरम्भिने । सङ्ग्रहिणे । सख्ये ।
विहारिणे । चाररूपाय । हारिणे । माणिक्यमण्डिताय । विद्येश्वराय ।
विवादिने । वादभेद्याय । विभेदवते । भयान्तकाय नमः । २२०

ॐ बलनिधये नमः । बलिकाय । स्वर्णविग्रहाय । महासीनाय ।
विशाखिने । पृषट्किने । पृतनापतये । अनन्तरूपाय । अनन्तश्रिये ।
षष्टिभागाय । विशाम्पतये । प्रांशवे । शीतांशवे । मुकुटाय ।
निरंशाय । स्वांशविग्रहाय । निश्चेतनाय । जगत्त्रात्रे । हराय ।
हरिणसम्भृताय नमः । २४०

ॐ नागेन्द्राय नमः । नागत्वग्वाससे । श्मशानालयचारकाय । विचारिणे ।
सुमतये । शम्भवे । सर्वाय । खर्वाय । उरुविक्रमाय । ईशाय ।
शेषाय । शशिने । सूर्याय । शुद्धसागराय । ईश्वराय । ईशानाय ।
परमेशानाय । परापरगतये । परस्मै । प्रमोदिने नमः । २६०

ॐ विनयिने नमः । वेद्याय । विद्यारागिने । विलासवते । स्वात्मने ।
दयालवे । धनदाय । धनदार्चनतोषिताय । पुष्टिदाय ।
तुष्टिदाय । तार्क्ष्याय । ज्येष्ठाय । श्रेष्ठाय । विशारदाय ।
चामीकरोच्चयगताय । सर्वगाय । सर्वमण्डनाय । दिनेशाय ।
शर्वरीशाय । सन्मदोन्माददायकाय नमः । २८०

ॐ हायनाय नमः । वत्सराय । नेत्रे । गायनाय । पुष्पसायकाय ।
पुण्येश्वराय । विमानस्थाय । विमान्याय । विमनसे । विधवे । विधये ।
सिद्धिप्रदाय । दान्ताय । गात्रे । गीर्वाणवन्दिताय । श्रान्ताय । वान्ताय ।
विवेकाक्षाय । दुष्टाय । भ्रष्टाय नमः । ३००

ॐ निरष्टकाय नमः । चिन्मयाय । वाङ्मयाय । वायवे । शून्याय ।
शान्तिप्रदाय । अनघाय । भारभृते । भूतभृते । गीताय ।
भीमरूपाय । भयानकाय । चण्डदीप्तये । चण्डाक्षाय । दलत्केशाय ।
स्खलद्रतये । अकाराय । निराकाराय । इलेशाय । ईश्वराय नमः । ३२०

ॐ परस्मै नमः । उग्रमूर्तये । उत्सवेशाय । ऊष्मांशवे । ऋणघ्ने ।
ऋणिने । कल्लिहस्ताय । महाशूराय । लिङ्गमूर्तये । लसद्दृशाय ।
लीलाज्योतिषे । महारौद्राय । रुद्ररूपाय । जनाशनाय । एणत्वगासनाय ।
धूर्त्ताय । धूलिरागानुलेपनाय । ऐं बीजामृतपूर्णाङ्गाय । स्वर्णाङ्गाय ।
पुण्यवर्धनाय नमः । ३४०

ॐ ॐकारोकाररूपाय नमः । तत्सर्वाय । अङ्गनापतये । अःस्वरूपाय ।
महाशान्ताय । स्वरवर्णविभूषणाय । कामान्तकाय । कामदाय ।
कालीयात्मने । विकल्पनाय । कलात्मने । कर्कशाङ्गाय ।
काराबन्धविमोक्षदाय । कालरूपाय । कामनिधये । केवलाय ।
जगताम्पतये । कुत्सिताय । कनकाद्रिस्थाय । काशीवासाय नमः । ३६०

ॐ कलोत्तमाय नमः । कामिने । रामाप्रियाय । कुन्ताय । कवर्णाकृतये ।
आत्मभुवे । खलीनाय । खलताहन्त्रे । खेटेशाय । मुकुटाधराय ।
खाय । खगेशाय । खगधराय । खेटाय । खेचरवल्लभाय ।
खगान्तकाय । खगाक्षाय । खवर्णामृतमज्जनाय । गणेशाय ।
गुणमार्गेयाय नमः । ३८०

ॐ गजराजेश्वराय नमः । गणाय । अगुणाय । सगुणाय । ग्राम्याय ।
ग्रीवालङ्कारमण्डिताय । गूढाय । गूढाशयाय । गुप्ताय ।
गणगन्धर्वसेविताय । घोरनादाय । घनश्यामाय । घूर्णात्मने ।
घुर्घुराकृतये । घनवाहाय । घनेशानाय । घनवाहनपूजिताय ।
घनाय । सर्वेश्वराय । जेशाय नमः । ४००

ॐ घवर्णत्रयमण्डनाय नमः । चमत्कृतये । चलात्मने ।
चलाचलस्वरूपकाय । चारुवेशाय । चारुमूर्तये । चण्डिकेशाय ।
चमूपतये । चिन्त्याय । अचिन्त्यगुणातीताय । चितारूपाय । चिताप्रियाय ।
चितेशाय । चेतनारूपाय । चिताशान्तापहारकाय । छलभृते ।
छलकृते । छत्रिणे । छत्रिकाय । छलकारकाय नमः । ४२०

ॐ छिन्नग्रीवाय नमः । छिन्नशीर्षाय । छिन्नकेशाय । छिदारकाय ।
जेत्रे । जिष्णवे । अजिष्णवे । जयात्मने । जयमण्डलाय । जन्मघ्ने ।
जन्मदाय । जन्याय । वृजनिने । जृम्भणाय । जटिने । जडघ्ने ।
जडसेव्याय । जडात्मने । जडवल्लभाय । जयस्वरूपाय नमः । ४४०

ॐ जनकाय नमः । जलधये । ज्वरसूदनाय । जलन्धरस्थाय ।
जनाध्यक्षाय । निराधये । आधये । अस्मयाय । अनादये । जगतीनाथाय ।
जयश्रिये । जयसागराय । झङ्कारिणे । झलिनीनाथाय । सप्ततये ।
सप्तसागराय । टङ्कारसम्भवाय । टाणवे । टवर्णामृतवल्लभाय ।
टङ्कहस्ताय नमः । ४६०

ॐ विटङ्काराय नमः । टीकाराय । टोपपर्वताय । ठकारिणे । त्रयाय
ठाय । ठःस्वरूपाय । ठकुराय । बलिने । डकारिणे । डकृतिने ।
डम्बडिम्बानाथाय । विडम्बनाय । डिल्लीश्वराय । डिल्लाभाय ।
डङ्काराक्षराय । मण्डनाय । ढवर्णिने । ढुल्लियज्ञेशाय ।
ढम्बसूचिने । निरन्तकाय नमः । ४८०

ॐ णवर्णिने शोणिनोवासाय नमः । णरागिने । रागभूषणाय । ताम्रापाय ।
तपनाय । तापिने । तपस्विने । तपसां निधये । तपोमयाय ।
तपोरूपाय । तपसां फलदायकाय । तमिने । ईश्वराय । महातालिने ।
तमीचरक्षयङ्कराय । तपोद्योतये । तपोहीनाय । वितानिने ।
त्र्यम्यबकेश्वराय । स्थलस्थाय नमः । ५००

ॐ स्थावराय नमः । स्थाणवे । स्थिरबुद्धये । स्थिरेन्द्रियाय ।
स्थिरङ्कृतिने । स्थिरप्रीतये । स्थितिदाय । स्थितिवते । दम्भिने ।
दमप्रियाय । दात्रे । दानवाय । दानवान्तकाय । धर्माधर्माय ।
धर्मगतये । धनवते । धनवल्लभाय । धनुर्धराय । धनुर्धन्याय ।
धीरेशाय नमः । ५२०

ॐ धीमयाय नमः । धृतये । धकारान्ताय । धरापालाय । धरणीशाय ।
धराप्रियाय । धराधराय । धरेशानाय । नारदाय । नारसोरसाय ।
सरसाय । विरसाय । नागाय । नागयज्ञोपवीतवते । नुतिलभ्याय ।
नुतीशानाय । नुतितुष्टाय । नुतीश्वराय । पीवराङ्गाय ।
पराकाराय नमः । ५४०

ॐ परमेशाय नमः । परात्पराय । पारावाराय । परस्मै पुण्याय ।
परामूर्तये । परस्मै पदाय । परोगम्याय । परन्तेजाय । परंरूपाय ।
परोपकृते । पृथ्वीपतये । पतये । पूतये । पूतात्मने । पूतनायकाय ।
पारगाय । पारदृश्वने । पवनाय । पवनात्मजाय । प्राणदाय नमः । ५६०

ॐ अपानदाय नमः । पान्थाय । समानव्यानदाय । वराय । उदानदाय ।
प्राणगतये । प्राणिनां प्राणहारकाय । पुंसां पटीयसे । परमाय ।
परमाय स्थानकाय । पवये । रवये । पीताननाय । पीठाय ।
पाठीनाकृतये । आत्मवते । पत्रिणे । पीताय । पवित्राय ।
पाठनाय नमः । ५८०

ॐ पाठनप्रियाय नमः । पार्वतीशाय । पर्वतेशाय । पर्वेशाय ।
पर्वघातनाय । फणिने । फणिदाय । ईशानाय । फुल्लहस्ताय ।
फणाकृतये । फणिहाराय । फणिमूर्तये । फेनात्मने । फणिवल्लभाय ।
बलिने । बलिप्रियाय । बालाय । बालालापिने । बलन्धराय ।
बालकाय नमः । ६००

ॐ बलहस्ताय नमः । बलिभुजे । बालनाशनाय । बलिराजाय ।
बलङ्कारिणे । बाणहस्ताय । अर्धवर्णभृते । भद्रिणे । भद्रप्रदाय ।
भास्वते । भामयाय । भ्रमयाय । अनयाय । भव्याय । भावप्रियाय ।
भानवे । भानुमते । भीमनन्दकाय । भूरिदाय । भूतनाथाय नमः । ६२०

ॐ भूतलाय नमः । सुतलाय । तलाय । भयघ्ने । भावनाकर्त्रे ।
भवघ्ने । भवघातकाय । भवाय । विभवदाय । भीताय ।
भूतभव्याय । भवप्रियाय । भवानीशाय । भगेष्टाय ।
भगपूजनपोषणाय । मकुराय । मानदाय । मुक्ताय । मलिनाय ।
मलनाशनाय नमः । ६४०

ॐ मारहर्त्रे नमः । महोधये । महस्विने । महतीप्रियाय । मीनकेतवे ।
महामाराय । महेष्वने । मदनान्तकाय । मिथुनेशाय । महामोहाय ।
मल्लाय । मल्लान्तकाय । मुनये । मरीचये । रुचिमते । योगिने ।
मञ्जुलेशाय । अमराधिपाय । मर्दनाय । मोहमर्दिने नमः । ६६०

ॐ मेधाविने नमः । मेदिनीपतये । महीपतये । सहस्राराय । मुदिताय ।
मानवेश्वराय । मौनिने । मौनप्रियाय । मासाय । पक्षिने । माधवाय ।
इष्टवते । मत्सरिणे । मापतये । मेषाय । मेषोपहारतोषिताय ।
माणिक्यमण्डिताय । मन्त्रिणे । मणिपूरनिवासकाय । मन्दाय नमः । ६८०

ॐ उन्मदरूपाय नमः । मेनकिने । प्रियदर्शनाय । महेशाय ।
मेघरूपाय । मकरामृतदर्शनाय । यज्ज्वने । यज्ञप्रियाय ।
यज्ञाय । यशस्विने । यज्ञभुजे । यूने । योधप्रियाय । यमप्रियाय ।
यामीनाथाय । यमक्षयाय । याज्ञिकाय । यज्ञमानाय । यज्ञमूर्तये ।
यशोधराय नमः । ७००

ॐ रवये नमः । सुनयनाय । रत्नरसिकाय । रामशेखराय । लावण्याय ।
लालसाय । लूताय । लज्जालवे । ललनाप्रियाय । लम्बमूर्तये । विलम्बिने ।
लोलजिह्वाय । लुलुन्धराय । वसुदाय । वसुमते । वास्तवे । वाग्भवाय ।
वटुकाय । वटवे । वीटीप्रियाय नमः । ७२०

ॐ विटङ्किने नमः । विटपिने । विहगाधिपाय । विश्वमोदिने । विनयदाय ।
विश्वप्रीताय । विनायकाय । विनान्तकाय । विनांशकाय । वैमानिकाय ।
वरप्रदाय । शम्भवे । शचीपतये । शारसमदाय । वकुलप्रियाय ।
शीतलाय । शीतरूपाय । शावरिणे । प्रणताय । वशिने नमः । ७४०

ॐ शीतालवे नमः । शिशिराय । शैत्याय । शीतरश्मये । सितांशुमते ।
शीलदाय । शीलवते । शालिने । शालीनाय । शशिमण्डनाय । शण्डाय ।
शण्टाय । शिपिविष्टाय । षवर्णोज्ज्वलरूपवते । सिद्धसेव्याय ।
सितानाथाय । सिद्धिकाय । सिद्धिदायकाय । साध्याय । सुरालयाय नमः । ७६०

ॐ सौम्याय नमः । सिद्धिभुवे । सिद्धिभावनाय । सिद्धान्तवल्लभाय ।
स्मेराय । सितवक्त्राय । सभापतये । सरोधीशाय । सरिन्नाथाय ।
सिताभाय । चेतनासमाय । सत्यपाय । सत्यमूर्तये । सिन्धुराजाय ।
सदाशिवाय । सदेशाय । सदनासूरये । सेव्यमानाय । सताङ्गतये ।
सताम्भाव्याय नमः । ७८०

ॐ सदानाथाय नमः । सरस्वते । समदर्शनाय । सुसन्तुष्टाय ।
सतीचेतसे । सत्यवादिने । सतीरताय । सर्वाराध्याय । सर्वपतये ।
समयिने । समयाय । स्वस्मै । स्वयम्भुवे । स्वयमात्मीयाय ।
स्वयम्भावाय । समात्मकाय । सुराध्यक्षाय । सुरपतये ।
सरोजासनसेवकाय । सरोजाक्षनिषेव्याय नमः । ८००

ॐ सरोजदललोचनाय नमः । सुमतये । कुमतये । स्तुत्याय ।
सुरनायकनायकाय । सुधाप्रियाय । सुधेशाय । सुधामूर्तये ।
सुधाकराय । हीरकाय । हीरवते । हेतवे । हाटकमण्डनाय । हाटकेशाय ।
हठधराय । हरिद्रत्नविभूषणाय । हितकृते । हेतुभूताय ।
हास्यदाय । हास्यवक्त्रकाय नमः । ८२०

ॐ हाराय नमः । हारप्रियाय । हारिणे । हविष्मल्लोचनाय । हरये ।
हविष्मते । हविर्भुजे । वाद्याय । हव्याय । हविर्भुजां वराय । हंसाय ।
परमहंसाय । हंसीनाथाय । हलायुधाय । हरिदश्वाय । हरिस्तुत्याय ।
हेरम्बाय । लम्बितोदराय । क्षमापतये । क्षमाय नमः । ८४०

ॐ क्षान्ताय नमः । क्षुराधाराय । अक्षिभीमकाय । क्षितिनाथाय ।
क्षणेष्टाय । क्षणवायवे । क्षवाय । क्षताय । क्षीणाय ।
क्षणिकाय । क्षामाय । क्षवर्णामृतपीठकाय । अकारादिक्षकारान्ताय ।
विद्यामालाविभूषणाय । स्वराय । व्यञ्जनाय । भूषाढ्याय । ह्रस्वाय ।
दीर्घाय । विभूषणाय नमः । ८६०

ॐ क्ष्मृं महाभैरवेशिने नमः । ॐ श्रीं भैरवपूर्वकाय । ॐ ह्रीं
वटुकभावेशाय । ॐ ह्रीं वटुकभैरवाय । ॐ क्लीं श्मशानवासिने ।
ॐ ह्रीं श्मशानभैरवाय । मैं भद्रकालिकानाथाय । क्लीं ॐ ह्रीं
कालिकापतये । ऐं सौः क्लीं त्रिपुरेशानाय । ॐ ह्रीं ज्वालामुखीपतये ।
ऐं क्लीं सः शारदानाथाय । ॐ ह्रीं मार्तण्डभैरवाय । ॐ ह्रीं
सुमन्तुसेव्याय । ॐ श्रीं ह्रीं मत्तभैरवाय । ॐ श्रीं उन्मत्तचित्ताय ।
ॐ श्रीं उं उग्रभैरवाय । ॐ श्रीं कठोरदेशाय । ॐ श्रीं
ह्रीं कठोरभैरवाय । ॐ श्रीं कामान्धकध्वंसिने । ॐ श्रीं
कामान्धभैरवाय नमः । ८८०

ॐ श्रीं अष्टस्वराय नमः । ॐ श्रीं अष्टकभैरवाय । ॐ श्रीं ह्रीं
अष्टमूर्तये । ॐ श्रीं चिन्मूर्तिभैरवाय । ॐ ह्रीं हाटकवर्णाय ।
ॐ ह्रीं हाटकभैरवाय । ॐ श्रीं शशाङ्कवदनाय । ॐ श्रीं
शीतलभैरवाय । ॐ श्रीं शिवारुताय । ॐ श्रीं शारूकभैरवाय ।
ॐ श्रीं अहंस्वरूपाय । ॐ ह्रीं श्रीं मुण्डभैरवाय । ॐ श्रीं
मनोन्मनाय । ॐ श्रीं मङ्गलभैरवाय । ॐ श्रीं बुद्धिमयाय ।
ॐ श्रीं भैं बुद्धभैरवाय । ॐ श्रीं ऐं क्लीं नागमूर्तये ।
ॐ श्रीं ह्रीं नागभैरवाय । ॐ श्रीं क्लीं कूर्ममूर्तये । ॐ श्रीं
कृकरभैरवाय नमः । ९००

ॐ ह्रीं श्रीं देवदत्ताय नमः । ॐ श्रीं क्लीं दत्तभैरवाय ।
ॐ ह्रीं धनञ्जयाय । ॐ श्रीं धनिकभैरवाय । ॐ श्रीं ह्रीं
रसरूपाय । ॐ श्रीं रसिकभैरवाय । ॐ श्रीं स्पर्शरूपाय ।
ॐ श्रीं ह्रीं स्पर्शभैरवाय । ॐ श्रीं ह्रीं क्लीं स्वरूपाय ।
ॐ श्रीं ह्रीं रूपभैरवाय । ॐ श्रीं सत्त्वमयाय । ॐ श्रीं ह्रीं
सत्त्वभैरवाय । ॐ श्रीं रजोगुणात्मने । ॐ श्रीं राजसभैरवाय ।
ॐ श्रीं तमोमयाय । ॐ श्रीं तामसभैरवाय । ॐ श्रीं धर्ममयाय ।
ॐ हीं वै धर्मभैरवाय । ॐ श्रीं ह्रीं मध्यचैतन्याय । ॐ श्रीं
चैतन्यभैरवाय नमः । ९२०

ॐ श्रीं ह्रीं क्षितिमूर्तये नमः । ॐ ह्रीं क्षात्रिकभैरवाय ।
ॐ श्रीं ह्रीं जलमूर्तये । ॐ ह्रीं जलेन्द्रभैरवाय । ॐ श्रीं
पवनमूर्तये । ॐ ह्रीं पीठकभैरवाय । ॐ श्रीं हुताशमूर्तये ।
ॐ ह्रीं हालाखभैरवाय । ॐ श्रीं ह्रीं सोममूर्तये । ॐ
श्रीं ह्रीं सौम्यभैरवाय । ॐ श्रीं ह्रीं सूर्यमूर्तये । ॐ
श्रीं सौरेन्द्रभैरवाय । ॐ जूं सः हंसरूपाय । हं सः जुं ॐ
मृत्युञ्जयाय । ॐ चत्वारिंशदधिकाय । ॐ श्रीं अघोरभैरवाय ।
अघोरेभ्यो नमः । घोरेभ्यो नमः । घोरघोरतरेभ्यो नमः । सर्वतः
सर्वसर्वेभ्यो रुद्ररूपेभ्यो नमः नमः । ९४०

ॐ भैरवेशाय नमः । अभयवरदात्रे । देवजनप्रियाय ।
ॐ श्रीं ह्रीं क्लीं क्ष्म्युं देवी अघोरदर्शनाय ।
ॐ श्रीं सौन्दर्यवते देवाय । ॐ अघोरकृपानिधये । ९४६

इति श्रीरुद्रयामले तन्त्रे भैरव-भैरवी संवादे ।
अघोरमूर्तिसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Aghora Murti:

1000 Names of Aghora Murti | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Aghora Murti | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top