Templesinindiainfo

Best Spiritual Website

1000 Names of Sita | Sahasranama Stotram from Bhushundiramaya Lyrics in Hindi

Sitasahasranamastotram from Bhushundiramaya Lyrics in Hindi:

॥ सीतासहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम् ॥
चतर्दशोऽध्यायः ।
वसिष्ठ उवाच –
या श्रीरेतस्य सहजा सीता नित्याङ्गसङ्गिनो ।
भवित्री जनकस्यैव कुले सर्वाङ्गसुन्दरी ॥ १ ॥

तस्याश्च नामसाहस्रं कथयिष्यामि भूपते ।
यथा रामस्तथैवेयं महालक्ष्मीः सनातनी ॥ २ ॥

नानयोः संमतो भेदः शास्त्रकोटिशतैरपि ।
अस्यैव नित्यरमणो बहुनामस्वरूपतः ॥ ३ ॥

तस्यास्तु नामसाहस्रं यथावदुपधारय ।
अं सहजानन्दिनी सीता जानकी राधिका रतिः ॥ ४ ॥

रुक्मिणी कमला कान्ता कान्तिः कमललोचना ।
किशोरी रामललना कामुकी करुणानिधिः ॥ ५ ॥

कन्दर्पवद्धिनी वीरा वरुणालयवासिनो ।
अशोकवनमध्यस्था महाशोकविनाशिनी ॥ ६ ॥

चम्पकाङ्गी तडित्कान्तिर्जाह्नवी जनकात्मजा ।
जानकी जयदा जप्या जयिनी जैत्रपालिका ॥ ७ ॥

परमा परमानन्दा पूणिमामृतसागरा ।
सूधासूतिः सुधारश्मिः सुधादीपितविग्रहा ॥ ८ ॥

सुस्मिता सुस्मितमुखी तारका सुखदेक्षणा ।
रक्षणी चित्रकूटस्था वृन्दावनमहेश्वरी ॥ ९ ॥

कन्दर्पकोटिजननी कोटिब्रह्माण्डनायिका ।
शरण्या शारदा श्रीश्च शरत्कालविनोदिनी ॥ १० ॥

हंसी क्षीराब्धिवसतिर्वासुकी स्थावराङ्गना ।
वराङ्गासनसंस्थाना प्रियभोगविशारदा ॥ ११ ॥

वसिष्ठविश्ववसिनी विश्वपत्नी गुणोदया ।
गौरी चम्पकगात्रा च दीपद्योता प्रभावती ॥ १२ ॥

रत्नमालाविभूषा च दिव्यगोपालकन्यका ।
सत्यभामारतिः प्रीता मित्रा चित्तविनोदिनी ॥ १३ ॥

सुमित्रा चैव कौशल्या कैकेयीकुलवर्द्धिनी ।
कुलीना केलिनी दक्षा दक्षकन्या दयावती ॥ १४ ॥

पार्वती शैलकुलजा वंशध्वजपटीरुचिः ।
रुचिरा रुचिरापाङ्गा पूर्णरूपा कलावती ॥ १५ ॥

कोटिब्रह्माण्डलक्ष्मीशा स्थानदात्री स्थितिः सती ।
अमृता मोदिनी मोदा रत्नाचलविहारिणी ॥ १६ ॥

नन्दभानुसुता धीरा वंशीरवविनोदिनी ।
विजया वीजिनी विद्या विद्यादानपरायणा ॥ १७ ॥

मन्दस्मिता मन्दगतिर्मदना मदनातुरा ।
वृंहिणी वृहती वर्या वरणीया वराङ्गना ॥ १८ ॥

रामप्रिया रमारूपा रासनृत्यविशारदा ।
गान्धर्विका गीतरम्या सङ्गीतरसवर्द्धिनी ॥ १९ ॥

तालदा तालवक्षोजा तालभेदनसुन्दरी ।
सरयूतीरसन्तुष्टा यमुनातटसंस्थिता ॥ २० ॥

स्वामिनी स्वामिनिरता कौसुम्भवसनावृता ।
मालिनी तुङ्गवक्षोजा फलिनी फलमालिनी ॥ २१ ॥

वैडूर्यहारसुभगा मुक्ताहारमनोहरा ।
किरातीवेशसंस्थाना गुञ्जामणिविभूषणा ॥ २२ ॥

विभूतिदा विभा वीणा वीणानादविनोदिनी ।
प्रियङ्गुकलिकापाङ्गा कटाक्षा गतितोषिता ॥ २३ ॥

रामानुरागनिलया रत्नपङ्कजमालिनी ।
विभावा विनयस्था च मधुरा पतिसेविता ॥ २४ ॥

शत्रुघ्नवरदात्री च रावणप्राणमोचिनी । var मोक्षिणी
दण्डकावनमध्यस्था बहुलीला विलासिनी ॥ २५ ॥

शुक्लपक्षप्रिया शुक्ला शुक्लापाङ्गस्वरोन्मुखी ।
कोकिलस्वरकण्ठी च कोकिलस्वरगायिनी ॥ २६ ॥

पञ्चमस्वरसन्तुष्टा पञ्चवक्त्रप्रपूजिता ।
आद्या गुणमयी लक्ष्मीः पद्महस्ता हरिप्रिया ॥ २७ ॥

हरिणी हरिणाक्षी च चकोराक्षी किशोरिका ।
गुणहृष्टा शरज्ज्योत्स्ना स्मितस्नपितविग्रहा ॥ २८ ॥

विरजा सिन्धुगमनी गङ्गासागरयोगिनी ।
कपिलाश्रमसंस्थाना योगिनी परमाकला ॥ २९ ॥

खेचरो भूचरी सिद्धा वैष्णवी वैष्णवप्रिया ।
ब्राह्मी माहेश्वरी तिग्मा दुर्वारबलविभ्रमा ॥ ३० ॥

रक्तांशुकप्रिया रक्ता नवविद्रुमहारिणी ।
हरिप्रिया ह्रीस्वरूपा हीनभक्तविवर्द्धिनी ॥ ३१ ॥

हिताहितगतिज्ञा च माधवी माधवप्रिया ।
मनोज्ञा मदनोन्मत्ता मदमात्सर्यनाशिनी ॥ ३२ ॥

निःसपत्नो निरुपमा स्वाधीनपतिका परा ।
प्रेमपूर्णा सप्रणया जनकोत्सवदायिनी ॥ ३३ ॥

वेदिमध्या वेदिजाता त्रिवेदी वेदभारतो ।
गीर्वाणगुरुपत्नी च नक्षत्रकुलमालिनी ॥ ३४ ॥

मन्दारपुष्पस्तवका मन्दाक्षनयवर्द्धिनी ।
सुभगा शुभरूपा च सुभाग्या भाग्यवर्द्धिनी ॥ ३५ ॥

सिन्दूराङ्कितमाला च मल्लिकादामभूषिता ।
तुङ्गस्तनी तुङ्गनासा विशालाक्षी विशल्यका ॥ ३६ ॥

कल्याणिनी कल्मषहा कृपापूर्णा कृपानदी ।
क्रियावती वेधवती मन्त्रणी मन्त्रनायिका ॥ ३७ ॥

कैशोरवेशसुभगा रघुवंशविवद्धिनी ।
राघवेन्द्रप्रणयिनी राघवेन्द्रविलासिनी ॥ ३८ ॥

तरुणी तिग्मदा तन्वी त्राणा तारुण्यवर्द्धिनी ।
मनस्विनी महामोदा मीनाक्षी मानिनी मनुः ॥ ३९ ॥

आग्नेयीन्द्राणिका रौद्री वारुणी वशवर्तिनी । var अग्राह्यी वारुणी
वीतरागा वीतरतिर्वोतशोका वरोरुका ॥ ४० ॥

वरदा वरसंसेव्या वरज्ञा वरकाङ्क्षिणी ।
फुल्लेन्दीवरदामा च वृन्दा वृन्दावती प्रिया ॥ ४१ ॥

तुलसीपुष्पसंकाशा तुलसीमाल्यभूषिता ।
तुलसीवनसंस्थाना तुलसीवनमन्दिरा ॥ ४२ ॥

सर्वाकारा निराकारा रूपलावण्यवर्द्धिनी । var नित्याकारा
रूपिणी रूपिका रम्या रमणीया रमात्मिका ॥ ४३ ॥

वैकुप्यपतिपत्नी च वैकुण्ठप्रियवासिनी ।
वद्रिकाश्रभसंस्था च सर्वसौभाग्यमण्डिता ॥ ४४ ॥

सर्ववेदान्तगम्या च निष्कला परमाकला ।
कलाभासा तुरीया च तुरीयाश्रममण्डिता ॥ ४५ ॥

रक्तोष्ठी च प्रिया रामा रागिनी रागवर्द्धिनी ।
नीलांशुकपरीधाना सुवर्णकलिकाकृतिः ॥ ४६ ॥

कामकेलिविनोदा च सुरतानन्दवर्द्धिनी ।
सावित्री व्रतधर्त्री च करामलकनायका ॥ ४७ ॥ var व्रतधात्री

मराला मोदिनी प्राज्ञा प्रभा प्राणप्रिया परा ।
पुनाना पुण्यरूपा च पुण्यदा पूर्णिमात्मिका ॥ ४८ ॥

पूर्णाकारा व्रजानन्दा व्रजवासा व्रजेश्वरी ।
व्रजराजसुताधारा धारापीयूषवर्षिणी ॥ ४९ ॥

राकापतिभुखी मग्ना मधुसूदनवल्लभा ।
वीरिणी वीरपत्नी च वीरचारित्रवर्द्धिनी ॥ ५० ॥

धम्मिल्लमल्लिकाषुष्पा माधुरी ललितालया ।
वासन्ती वर्हभूषा च वर्होत्तंसा विलासिनी ॥ ५१ ॥

बर्हिणी बहुदा बह्वी बाहुवल्ली मृणालिका ।
शुकनासा शुद्धरूपा गिरीशवरवर्द्धिता ॥ ५१ ॥

नन्दिनी च सुदन्ता च वसुधा चित्तनन्दिनी ।
हेमसिहासनस्थाना चामरद्वयवीजिता ॥ ५२ ॥

छत्रिणी छत्ररम्या च महासाम्राज्यसर्वदा ।
संपन्नदा भवानी च भवभीतिविनाशिनी ॥ ५४ ॥

द्राविडी द्रविडस्थाना आन्ध्री कार्णाटनागरी ।
महाराष्ट्रैकविषया उदग्देशनिवासिनी ॥ ५५ ॥

सुजङ्घा पङ्कजपदा गुप्तगुल्फा गुरुप्रिया ।
रक्तकाञ्चीगुणकटिः सुरूपा बहुरूपिणी ॥ ५६ ॥

सुमध्या तरुणश्रीश्च वलित्रयविभूषिता ।
गर्विणी गुर्विणी सीता सीतापाङ्गविभोचनी ॥ ५७ ॥

ताटङ्किनी कुन्तलिनी हारिणी हीरकान्विता ।
शैवालमञ्जरीहस्ता मञ्जुला मञ्जुलापिनी ॥। ५८ ॥

कवरीकेशविन्यासा मन्दहासमनोरथा ।
मधुरालापसन्तोषा कौबेरी दुर्गमालिका ॥ ५९ ॥

इन्दिरा परमश्रीका सुश्रीः शैशवशोभिता ।
शमीवृक्षाश्रया श्रेणी शमिनो शान्तिदा शमा ॥ ६० ॥

कुञ्जेश्वरी कुञ्जगेहा कुञ्जगा कुञ्जदेवता ।
कलविङ्ककुलप्रीता पादाङ्गुलिविभूषिता ॥ ६१ ॥

वसुदा वसुपत्नी च वीरसूर्वीरवर्द्धिनी ।
सप्तश‍ृङ्गकृतस्थाना कृष्णा कृष्णप्रिया प्रिया ॥ ६२ ॥

गोपीजनगणोत्साहा गोपगोपालमण्डिता ।
गोवर्द्धनधरा गोपी गोधनप्रणयाश्रया ॥ ६३ ॥

दधिविक्रयकर्त्रो च दानलीलाविशारदा ।
विजना विजनप्रीता विधिजा विधुजा विधा ॥ ६४ ॥

अद्वैता द्वैतविच्छिन्ना रामतादाम्यरूपिणी ।
कृपारूपा निष्कलङ्का काञ्चनासनसंस्थिता ॥ ६५ ॥

महार्हरत्नपीठस्था राज्यलक्ष्मी रजोगुणा ।
रक्तिका रक्तपुष्पा च ताम्बूलीदलचर्विणी ॥ ६६ ॥

बिम्बोष्ठी व्रीडिता व्रीडा वनमालाविभूषणा ।
वनमालैकमध्यस्था रामदोर्दण्डसङ्गिनी ॥ ६७ ॥

खण्डिता विजितक्रोधा विप्रलब्धा समुत्सुका ।
अशोकवाटिकादेवी कुञ्जकान्तिविहारिणी ॥ ६८ ॥ var कुन्तकान्ति

मैथिली मिथिलाकारा मैथिलैकहितप्रदा ।
वाग्वती शैलजा शिप्रा महाकालवनप्रिया ॥ ६९ ॥

रेवा कल्लोलसुरता सत्यरूपा सदाचिता ।
सभ्या सभावती सुभ्रूः कुरङ्गाक्षी शुभानना ॥ ७० ॥

मायापुरी तथायोध्या रङ्गधामनिवासिनी ।
मुग्धा मुग्धगतिर्मोवा प्रमोदा परमोन्नता ॥ ७१ ॥

कामधेनुः कल्पवल्ली चिन्तामणिगृहाङ्गणा ।
हिन्दोलिनी महाकेलिः सखीगणविभूषिता ॥ ७२ ॥

सुन्दरी परमोदारा रामसान्निध्यकारिणी ।
रामार्द्धाङ्गा महालक्ष्मीः प्रमोदवनवसिनी ॥ ७३ ॥

विकुण्ठापत्यमुदिता परदारप्रियाप्रिया । var सहजावरदाप्रिया
रामकैङ्कर्यनिरता जम्भजित्करवीजिता ॥ ७४ ॥

कदम्बकाननस्था च कादम्बकुलवासिनी ।
कलहंसकुलारावा राजहंसगतिप्रिया ॥ ७५ ॥

कारण्डवकुलोत्साहा ब्रह्मादिसुरसंस्थिता ।
सरसी सरसीकेलिः पम्पाजलविनोदिनो ॥ ७६ ॥

करिणीयूथमध्यस्था महाकेलिविधायिनी ।
जनस्थानकृतोत्साहा काञ्चनन्यङ्कुवञ्चिता ॥ ७७ ॥

कावेरीजलसुस्नाता तीर्थस्नानकृताश्रया ।
गुप्तमन्त्रा गुप्तगतिर्गोप्या गोपतिगोपिता ॥ ७८ ॥

गम्भीरावर्तनाभिश्च नानारसबिलम्बिनी ।
श‍ृङ्गाररससालम्बा कादम्बामोदमादिनो ।
कादम्बिनी पानमत्ता घूर्णिताक्षी स्खलद्गतिः ॥ ८० ॥

सुसाध्या दुःखसाध्या च दम्भिनी दम्भवर्जिता ।
गुणाश्रया गुणाकारा कल्याणगुणयोगिनी ॥ ८१ ॥

सर्वमाङ्गल्यसम्पन्ना माङ्गल्या मतवल्लभा ।
सुखितात्मजनिप्राणा प्राणेशी सर्वचेतना ॥ ८२ ॥

चैतन्यरूपिणो ब्रह्मरूपिणी मोदवर्द्धिनी ।
एकान्तभक्तसुलभा जयदुर्गा जयप्रिया ॥ ८३ ॥

हरचापकृतक्रोधा भङ्गुरोक्षणदायिनी ।
स्थिरा स्थिरगतिः स्थात्री स्थावरस्था वराश्रया ॥ ८४ ॥

स्थावरेन्द्रसुता धन्या धनिनी धनदार्चिता ।
महालक्ष्यीर्लोकमाता लोकेशी लोकनायिका ॥ ८५ ॥

प्रपञ्चातीतगुणनी प्रपञ्चातीतविग्रहा ।
परब्रह्मस्वरूपा च नित्या भक्तिस्वरूपिणी ॥ ८६ ॥

ज्ञानभक्तिस्वरूपा च ज्ञानभक्तिविवर्द्धिनी ।
ब्रह्मसायुज्यसाधुश्च रामसायुज्यसाधना ॥ ८७ ॥

ब्रह्माकारा ब्रह्ममयी ब्रह्मविष्णुस्वरूपिणो ।
महाधम्मिल्लशोभा च कवरीकेशपाशिनी ॥ ८८ ॥

चिन्मयानन्दरूपा च चिन्मयानन्दविग्रहा ।
कैवर्तकुलसम्पत्तिः शबरीपरिवारिणी ॥ ८९ ॥

कनकाचलसंस्थाना गङ्गा त्रिपथगामिनी ।
त्रिपुटा त्रिवृता विद्या प्रणवाक्षररूपिणी ॥ ९० ॥

गायत्री मुनिविद्या च सन्ध्या पातकनाशिनी ।
सर्वदोषप्रशमनी सर्वकल्याणदायिनी ॥ ९१ ॥

रामरामामनोरम्या स्वयलक्ष्म्या स्वसाक्षिणी । var स्वयलक्ष्या
अनन्तकोटिनामा च अनन्तकोटिरूपिणी ॥ ९२ ॥

भूलीला रुक्मिणी राधा रामकेलिविबोधिनी ।
वीरा वृन्दा पौर्णमासी विशाखा ललिता लता ॥ ९३ ॥

लावण्यदा लयाकारा लक्ष्मीर्लोकानुबन्धिनी ।
सृष्टिस्थितिलयाकारा तुर्यातुर्यातिगावधिः ॥ ९४ ॥

दुर्वासावरलभ्या च विचित्रबलवद्धिनी ।
रमणी रामरमणी सारात्सारा परात्परा ॥ ९५ ॥

इति श्रीजानकीदेव्याः नामसाहस्रकं स्तवम् ।
नामकर्मप्रसङ्गेन मया तुभ्यं प्रकाशितम् ॥ ९६ ॥

गोपनीयं प्रयत्नेन त्रैलोक्येऽप्यतिदुर्लभम् ।
सीतायाः श्रोमहालक्ष्भ्याः सद्यः संतोषदायकम् ॥ ९७ ॥

यः पठेत्प्रयतो नित्यं स साक्षाद्वैष्णवोत्तमः ।
नित्यं गुरुमुखाल्लब्ध्वा पठनीयं प्रयत्नतः ॥ ९८ ॥

सर्वसम्पत्करं पुण्यं वैष्णवानां सुखप्रदम् ।
कीतिदं कान्तिदं चैव धनदं सौभगप्रदम् ॥ ९९ ॥

प्रमुद्वनविहारिण्याः सीतायाः सुखवर्द्धनम् ।
रामप्रियाया जानक्या नामसाहस्रकं परम् ॥ १०० ॥

इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे
सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

Also Read 1000 Names of Bhushundiramaya’s Sita Stotram:

1000 Names of Sita | Sahasranama Stotram from Bhushundiramaya Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sita | Sahasranama Stotram from Bhushundiramaya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top