Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Atmanatha | Sahasranamavali or Brahmanandasahasranamavali Lyrics in Hindi

The temple of Atmanatha is known as Shivapuram or Tiruperundurai. This place is known as Adi Kailash. Kailash in the north later became the residence of Lord Shiva. Five murti’s consisting of Sadashiva, Ishvara, Rudra, Vishnu, Brahma came from Shivamsa. They made their respective works of Anugraham, Tirodhanam, laya, stithi, srushti. They were able to do so after performing tapas at Sri Atmanatha according to Sthalapurana. The Lord’s wife is Ambal Yoganayaki. It is [in the form of aroopa] in padma peetha as mantra roopa in the Sri Chakra. The Lord and his wife are at Nirguna Roopa (you will not find the stupa (Kodi Maram), Nandi, bali peetham, utsava vigraha, etc.) and the peetham is known as Pranava Peetham too.

Shri Atmanatha Sahasranamavali or Brahmananda Sahasranamavali Lyrics in Hindi:

॥ श्रीआत्मनाथसहस्रनामावलिः अथवा ब्रह्मानन्दसहस्रनामावलिः ॥
ॐ श्रीगणेशाय नमः ।

ॐ ब्रह्मानन्दाय नमः । आत्मनाथाय । अज्ञानाश्वत्थसाक्षिणे ।
अग्राह्याय । अत्याज्याय । अगोत्राय । अप(व)र्णाय । अस्थूलाय ।
अनणवे । अह्नस्वाय । अदिव्याय । अलोहिताय । अनिलाय । अस्नेहाय ।
अच्छायाय । अविषयाय । अनाकाशाय । अनपेयाय । अशब्दाय ।
अस्पर्शाय नमः ॥ २० ॥

ॐ अरूपाय नमः । अरसाय । अरजसे । असमग्राय । अघवते ।
अचक्षुष्याय । अजिह्वाकाय । अगस्तये । अपापाय । अमनसे ।
अप्रजापतये । अप्राणाय । अपतृप्याय । अलक्षणाय । अतातप्याय ।
अगन्तव्याय । अविसर्जितव्याय । अनानन्दयितव्याय । अमन्तव्याय ।
अचिन्त्याय नमः ॥ ४० ॥

ॐ अलङ्घयितव्याय नमः । अबोद्धव्याय । अवृत्तये ।
अचेतयितव्याय । अनहङ्काराय । अनिन्द्रियाय । अनपानाय । अव्याजाय ।
अनेकदाय । असमानाय । असङ्गमाय । अकरणाय । अशरीराय ।
अविक्रियाय । असत्त्वाय । अव्यपदेश्याय । अरजस्काय । अगुणाय ।
अतपस्काय । अबाधाय (अवायाय) नमः ॥ ६० ॥

ॐ अनन्नमयाय नमः । अभयाय । अनिर्वचनीयाय । अप्राणमयाय ।
अविज्ञानमयाय । अमनोमयाय । अनानन्दमयाय । अघोषाय ।
अव्यञ्जनाय । अस्वराय । अनभिजाताय । अवधूताय । अगोचराय ।
अचित्राय । असमानाय । अलिङ्गाय । अविशेषणाय । अलौकिकाय ।
अखण्डाकाराय । अमलाय नमः ॥ ८० ॥

ॐ अदृष्टाय नमः । अनल्पाय । अव्यवहार्याय । अद्वयाय । अनन्ताय ।
अविद्यारहिताय । अद्वैताय । अबाहयाय । अनन्तराय । अमात्राय ।
अनन्तमात्राय । अनामधेयाय । अमृताय । अजाय । अकारणाय ।
अनाभासाय । अनाधाराय । अनाश्रयाय । अशेषवेदान्तवेद्याय ।
अनिरुक्ताय नमः ॥ १०० ॥

ॐ अस्पृश्याय (अपृच्छ्याय) नमः । अव्ययाय । अनाद्यन्ताय ।
अप्रकृतये । अविक्रियाय । अनामयाय । अप्रमेयाय । अप्रमाणाय ।
अजिताय । अप्रमात्रे । अनामरूपाय । अन्नुज्ञाताय । अविक्ल्पाय ।
अनुज्ञैकरसाय । अखण्डैकरसाय । अहम्ब्रह्मास्मिरूपाय ।
अहम्ब्रह्मास्मिवर्जिताय । अशुभा(भ)शुभसङ्कल्पाय ।
अणुस्थूलादिवर्जिताय । अन्तरात्मने नमः ॥ १२० ॥

ॐ अपरिच्छिन्नाय नमः । अद्वयानन्दाय । अक्रियाय ।
अविद्याकायरहिताय । अन्तर्यामिणे । अखण्डाकार(श)बोधाय ।
अवाङ्मनसगोचराय । अखिलाकाराय । अजराय । अकलङ्काय ।
अमराय । अकर्मणे । अखिलनादाय । अखिलातीताय । अक्षयाय ।
अखिलाण्डस्वरूपाय । अखिलव्यापकाय । अच्छेद्याय । अदाहयाय ।
अकलेद्याय नमः ॥ १४० ॥

ॐ अशोष्याय नमः । असुराय । अचञ्चलाय । अतिदाय (अतीताय) ।
अतिशयाय । अविरोधाय । अतिसूक्ष्माय । अधिष्ठानाय । अत्त्रे
(अन्त्रे) । अभिन्नाय । अतिसुन्दराय । अघनाशिने । अमलाकाराय ।
अबोध्याय । अनालस्याय । अनुस्यूताय । अविच्छिन्नाय । अघ(ग)घ्नाय ।
अनघाय । अन्तःप्र(प्रा)ज्ञाय नमः ॥ १६० ॥

ॐ अदृश्याय नमः । अविज्ञेयाय । अहमात्मने । अनीशाय ।
अहङ्कारविवर्जिताय । असाक्षिणे । अपारसाक्षिणे । असूयाहीनाय ।
अग्निसाक्षिणे । अव्याकृतरहिताय । अव्याकृतसाक्षिणे ।
अहङ्कृतिसाक्षिणे । असूयासाक्षिणे । अवच्छिन्नसाक्षिणे ।
अवच्छिन्नवर्जिताय । अलौकिकपरनन्दाय । अमलाकाशाय ।
अद्वितीयब्रह्मसंविदे । अविनाशात्मने । अतिवर्णाश्रमाय नमः ॥ १८० ॥

ॐ अलक्ष्याय नमः । अन्तरङ्गाय । अक्षताय ।
अखिलोपाधिनिर्मुक्ताय । अध्यात्मकाय । अनाख्याय । अनभिव्यक्ताय ।
अभिव्यक्ताय । असत्यानन्दहीनाय । अन्तरादन्तराय । अतीतातीतभावाय ।
अज्ञानध्वान्तदीपाय । अनन्यभावसुलभाय । अन्यभावसुदूरगाय ।
अव्याजकरुणामूर्तये । अहेतुकदयाम्बुधये । अवस्थात्रयहीनाय ।
अवस्थात्रयसाक्षिणे । अस्मत्प्रत्ययार्थाय ।
अहमःप्रकृतिसाक्षिणे नमः ॥ २०० ॥

ॐ असम्प्रत्ययसाक्षिणे नमः । अहम्पदलक्ष्याय ।
अजकुक्षिस्थितगजसाम्यजगत्साक्षिणे । अखण्डामृततेजोराशये ।
अहम्परमार्थविषयाय । आदिमध्यान्तसू(शू)न्याय ।
आकाशसदृश्याय । आत्मनाऽऽत्मनि तृप्ताय । आद्यन्तरहिताय ।
आत्मने । आनन्दाय । आधाराय । आदिकारणाय । आत्मारामाय । आप्तकामाय ।
आद्यन्तभावाय । आत्मानन्दरसाय । आद्याय । आत्मभेदविवर्जिताय ।
आत्माकाराय नमः ॥ २२० ॥

ॐ आत्मतीर्थाय नमः । आत्मरूपाय । आकाशशतपूर्णाय ।
आत्मानन्दप्रकाशाय । आनन्दात्मने । आकाशसाक्षिणे । आत्मशब्दार्थाय ।
आत्मशब्दहिताय । आनन्दमधु(ज)राय । आदिचैतन्यपात्राय ।
आत्मशब्दार्थवर्जिताय । आरूढज्ञानिहृदयनिवासाय । आशास्याय ।
आकाशनैल्यसदृशजगत्साक्षिणे । आशाहृतसुदूराय ।
आदित्यादिप्रकाशहेतवे । आरूढवेद्याय । आत्मानात्मभेदविवर्जिताय ।
आशाहीनचित्तवेद्याय । आनन्दामृतसागराय नमः ॥ २४० ॥

ॐ इष्टानिष्टविहीनाय नमः । इष्टानिष्टाय । इज्यारूपाय । इष्टाय ।
इच्छाहीनाय । इच्छासाक्षिणे । इन्द्रजालसाम्यलोकैकसाक्षिणे ।
ईश्वराय । ईप्सिताय । ईप्सितार्थप्रदाय । ईषणादिविहीनाय ।
ईशानादिनमस्कृताय । ईक्षणाय । ईन्तरदुःशोधाय । ईदृगिति
रहिताय । ईशसाक्षिणे । ईर्ष्याहीनाय । ईर्ष्यासाक्षिणे ।
ईशानादिसशब्दरहिताय । ईषद्विद्युत्साम्यजगत्साक्षिणे नमः ॥ २६० ॥

ॐ ईशानादिसाक्षिणे नमः । उमारूपाय । उमासाक्षिणे ।
उमाधिष्ठानाय । उत्तमाय । उद्योगानन्दरहिताय ।
उपस्थेन्द्रियसाक्षिणे । उमासहायाय । उपशान्ताय ।
उच्चनीचविवर्जिताय । उपस्थेन्द्रियहीनाय । उष्णानुष्णविवर्जिताय ।
उदुम्बरफलप्रख्यभौमलोकैकसाक्षिणे । उदानवायुसाक्षिणे ।
ऊहापोहविलक्षणाय । ऊर्ध्व(र्ध्वाधो)द्वाराय ।
ऊर्ध्वाधोविभागरहिताय । ऊर्ध्वसाम्यजगत्साक्षिणे । ऊर्ध्वाय ।
ऋताभासिजगत्साक्षिणे नमः ॥ २८० ॥

ॐ ऋगाद्यागमवेद्याय नमः । एकस्मै । एकान्तसाक्षिणे ।
एकान्तप्रत्ययात्मने । एकानेकाय । एकसु(सू)प्ताय । एकानेकविवर्जिताय ।
एकावस्थामातृजगत्साक्षिणे । एष्टव्याय । एकान्तसन्निहिताय ।
ऐकाराश्रयाय । ऐकाग्र्यसाक्षिणे । ऐकाग्र्यचित्तध्येयाय ।
ऐकाग्र्यविहीनसत्यवद्भातजगत्साक्षिणे । ओङ्कारवाच्याय ।
ओङ्कारन्तरार्थाय । ओङ्कारैकसन्निधये । औदार्याय । औदासीन्याय ।
औपनिषदाय नमः ॥ ३०० ॥

ॐ औदासीन्यैकसाक्षिणे नमः । औदासीन्यप्रकाशकाय । कर्मघ्नाय ।
केवलाय । कालाय । कामादिरहिताय । कल्याणाय । कर्मसाक्षिणे ।
कल्मषवर्जिताय । कठोरचित्तदूराय । कल्मषापहाय । कालातीताय ।
कालकालाय । कूटस्थाय । करुणाकराय । कलिदोषविहीनाय ।
कल्पातीताय । कल्पनारहिताय । कल्पसाक्षिणे ।
कल्पकवत्स्थिताय नमः ॥ ३२० ॥

ॐ कार्यकारणनिर्मुक्ताय नमः । करुणानिधये ।
कार्यकारणरूपाय । करुणातीताय । करुणात्मने । कारणसाक्षिणे ।
कार्याश्व(न्व)मेधाय । कार्यकारणसाक्षिणे । कूटस्थसाक्षिणे ।
कृत्स्नाय । कार्योत्पत्तिनाशसाक्षिणे । कामविवर्जिताय ।
कामसाक्षिणे । क्रोधहीनाय । क्रोधसाक्षिणे । कृतार्थाय ।
कार्यानन्द(न्त)विहीनाय । कार्यानुतुदाय । कोपहीनाय ।
कोपसाक्षिणे नमः ॥ ३४० ॥

ॐ कर्मत्रयविवर्जिताय नमः । कूर्मरोमोपमजगत्साक्षिणे ।
कर्मविवर्जिताय । कैवल्याय । कालवित्कालाय ।
कर्माध्यक्षाय । खण्डाण्डविहीनाय । खातौदैकसाक्षिणे ।
खसदृशाय । खसूक्ष्माय । खेगोल्लासविलाससाक्षिणे ।
खकुसुमसदृशजगत्साक्षिणे । गुरवे । गम्याय । गणनिधये ।
गमागमविवर्जिताय । गर्भहीनाय । गर्भसाक्षिणे ।
गुणानन्तविवर्जिताय । गुरुरूपाय नमः ॥ ३६० ॥

ॐ गुणातीताय नमः । गुणत्रयसाक्षिणे । गन्तव्यदेशहीनाय ।
गन्तव्यदेशविवर्जिताय । ग्रामगोचराय । गुह्यागुह्याय ।
गुरुशिष्यविहीनात्मने । गुह्यानन्दस्वरूपिणे । गुरुप्रसादलभ्याय ।
गन्धसाक्षिणे । गम्भीरैकस्वरूपाय । गुहेशाय । गणाधिपाय ।
गगनसमलोकसाक्षिणे । घ्राणविहीनाय । घ्राणसाक्षिणे ।
घनमोहतिमिरसूर्याय । घनविक्रमचण्डवाताय । घनाहङ्कारदूराय ।
चित्प्रकाशाय नमः ॥ ३८० ॥

ॐ चैत्यान्न(चैतन्य)बाधरहिताय नमः । चिन्मात्राय ।
चित्तविवर्जिताय । चितये । चिदात्मने । चैतन्यरूपिणे ।
चेष्टाहीनाय । चित्स्वरूपाय । चेतःसाक्षिणे । चिन्मयाय ।
चिन्महनीयाय । चतुर्थाय । चतुर्थातीताय । चक्षुःस्रष्ट्रे ।
चक्षुषे । चिदानन्दाय । चिद्घनाय । चिद्विद्यायै(य) ।
चित्पराय । चिदानन्दलहर्यै नमः ॥ ४०० ॥

ॐ चेतनाचेतनाहीनाय नमः । चैतन्यानन्दसन्दोहाय ।
चैतन्यदोषविवर्जिताय । चेतनाचेतनाधिष्ठानाय ।
चिदेकरसाय । चिज्ज्योतिषे । चिद्विलासाय ।
चैत्यबन्धविवर्जिताय । चिद्ब्रह्मैक्याय । चिदाकाशाय ।
चिदाकाराय । चिदाकृतये । चिदाभासविहीनाय । चिन्तनातीताय ।
चैत्यवर्जितद्विमात्राय । चित्तसाक्षिणे । चिदाभाससाक्षिणे ।
चिन्तानाशाय । चैतन्यमात्रसंसा(सि)ध्याय ।
चित्प्रतिबिम्बिताय नमः ॥ ४२० ॥

ॐ चित्रतुल्यजगत्साक्षिणे नमः । चित्रप्रतिभासकाय ।
छान्दोग्योपनिषत्प्रतिपाद्याय । छन्दःस्वरूपाय । छन्दःसाराय ।
छन्दःस्वरूपाय । जन्महीनाय । ज्योतिर्मयाय । ज्यायसे ।
ज्योतिषाञ्ज्योतिषे । ज्वरनाशविहीनाय । जरामरणवर्जिताय ।
जनरूपाय । जयाय । जाग्रत्कल्पनारहिताय । जपाय । जप्याय ।
जगज्ज्योतिषे । जगज्जारा(ला)दिकारणाय । जगद्व्याप्याय नमः ॥ ४४० ॥

ॐ जगन्नाथाय नमः । जगत्सृष्टिविवर्जिताय । जगदधिष्ठानाय ।
जीवाय । जन्मविनाशकाय । जगज्ज्ञानविहीनाय । जीवत्वरहिताय ।
जलस्थपद्मसाम्यजगत्साक्षिणे । जीवभावरहिताय ।
जीवाधिष्ठानाय । जिह्वारहिताय । जीवसाक्षिणे ।
जनहृदयसाक्षिणे । जीवाधाराय । जीवाभिमानरहिताय ।
जीव्यसाक्षिणे । जनातीताय । जीवचेष्टाविवर्जिताय ।
जीवावस्थासाक्षिणे । जगद्विलक्षणाय नमः ॥ ४६० ॥

ॐ जगत्साक्षिणे नमः । जीवेश्वरजगत्साक्षिणे । जगदन्तर्गताय ।
जाग्रत्कल्पनासाक्षिणे । जीवेश्वरजगत्स्थितये ।
झङ्कारादिशब्दसाक्षिणे । ज्ञाननिष्कलरूपिणे ।
ज्ञानाज्ञानस्वरूपाय । ज्ञानाज्ञानविवर्जिताय । ज्ञानरूपाय ।
ज्ञानवैद्याय । ज्ञानानन्दप्रकाशाय । ज्ञानज्ञेयस्वरूपाय ।
ज्ञानिनां सुदुर्लभाय । ज्ञानाज्ञानसाक्षिणे ।
ज्ञानहीनसुदुर्लभाय । ज्ञानहीनचोराय । ज्ञानगम्याय ।
ज्ञान्यज्ञानिचित्तसाक्षिणे । ज्ञानाज्ञानतस्कराय नमः ॥ ४८० ॥

ॐ टापहीनाय नमः । टामसाक्षिणे । टापाटापविवर्जिताय ।
तत्त्वात्मने । तस्मै । तुभ्यम् । तत्पराय । तन्मयाय ।
तत्त्वाय । तत्त्वस्वरूपाय । तत्त्वातत्त्वविवर्जिताय ।
तुषानलाग्नितत्त्वस्वरूपाय । तत्त्वमर्थस्वरूपिणे । तेजःस्वरूपाय ।
ताराय । तुर्यातीताय । तारकाय । तत्पदलक्ष्याय । तुर्याय ।
तारकमन्त्रार्थरूपाय नमः ॥ ५०० ॥

ॐ तूलभस्मसाम्यजगत्साक्षिणे नमः । तत्त्वसाक्षिणे ।
तत्वमस्यादिमहावाक्यवेद्याय । तापत्रयातीताय । त्रिपुटीसाक्षिणे ।
तारकब्रह्मणे । तेजोराशये । तैजससाक्षिणे । दिव्याय ।
दोषहीनाय । दृग्रूपाय । दर्भसाक्षिणे । द्रोहसाक्षिणे ।
द्रोहहीनाय । दर्पहीनाय । दिगम्बराय । देवादिदेवाय ।
दमनिश्चयाय । देवशिखामणये ।
देशकालवस्तुपरिच्छेदनाय नमः ॥ ५२० ॥

ॐ दमबोधाय नमः । दिव्यचक्षुषे ।
दिव्यज्ञानप्रदाय । दिव्यसम्पूज्यरहिताय ।
दिव्यलक्षणाय । दृढनिश्चयहृद्ध्योत्याय ।
दृढ(दीप)चित्तैकलभ्याय । देशकालवस्तुपरिच्छेदवद्भानाय ।
द्रष्टृदर्शनदृश्यनिर्मुक्ताय । दीप्तये । धन्यानां सुलभाय ।
धराय । धर्माधर्माविवर्जिताय । धीराय । धरायै । ध्रुवाय ।
धैर्याय । धीरलभ्याय । धाम्ने । ध्यातृध्यानध्येयरूपाय नमः ॥ ५४० ॥

ॐ धूतसंसारबन्धाय नमः । ध्यातृध्यानविहीनाय । धीसाक्षिणे ।
ध्येयवर्जिताय । ध्यातृध्यानसाक्षिणे । धीवेद्याय । ध्यानाय ।
धात्रे । ध्येयाय । ध्येयध्यातृध्यानकल्पनाधिष्ठनाय ।
निर्वाणाय । निरीहाय । निरीप्सिताय । नित्याय । निरवद्याय ।
निष्क्रियाय । निरञ्जनाय । निर्मलाय । निर्विकल्पाय ।
निराभाना(सा)य नमः ॥ ५६० ॥

ॐ निश्चलाय नमः । निर्विकाराय । नित्यव्रताय । निर्गुणाय ।
निस्सहाय । निरिन्द्रियाय । नियन्त्रे । निरपेक्षाय । निष्कलाय ।
निराकृतये । निरालम्बाय । निजरूपाय । निरामयाय ।
निष्टेष्टानिष्टकलनाय । नाथाय । नित्यमङ्गलाय । निदानाय ।
नित्यतृप्ताय । निरावरणाय । निरूपस्वरूपाय नमः ॥ ५८० ॥

ॐ निस्सहायाय नमः । निरुपाधिकाय । नित्यप्रकाशाय । निश्चिन्ताय ।
निर्लक्ष्याय । निरन्तराय । नामरूपविहीनात्मने । नियोनये ।
निर्भयाय । निष्कलात्मने । नायकाय । निवेद्याय । निरास्पदाय ।
निर्या(र्वा)णेत्यादिवाच्याय । निर्वन्द्याय । निरुपप्लवाय ।
निर्मलात्मने । निरानन्दाय । नादान्तज्योतिषे ।
निरङ्कुशस्वरूपाय नमः ॥ ६०० ॥

ॐ नेतिनेतिवाक्यावयसे नमः । नरश‍ृङ्गोपजगत्साक्षिणे ।
नित्यचिद्घनाय । निष्प्रपञ्चपराय । निष्प्रपञ्चग्रहाय ।
निष्प्रपञ्चाघननाकस्य सूचकाय । निर्लेपाय ।
निष्प्रपञ्चछत्रयुक्ताय । निष्प्रपञ्चासनस्थिताय ।
निष्प्रपञ्चमहामालाय । निष्प्रपञ्चात्मचन्दनाय ।
निष्प्रपञ्चप्रभूषणाय । निष्प्रपञ्चसुताम्बूलाय ।
निष्प्रपञ्चसुखस्थिराय । निष्प्रपञ्चमहद्धामने ।
निष्प्रपञ्चशिवाकाराय । निष्प्रपञ्चजलस्नानाय ।
निष्प्रपञ्चकतर्पणाय । निष्प्रपञ्चमहामन्त्रिणे ।
निष्प्रपञ्चजपाय नमः ॥ ६२० ॥

ॐ निष्प्रपञ्चगजारूढाय नमः । निष्प्रपञ्चाश्ववाहनाय ।
निष्प्रपञ्चमहाराज्याय । निष्प्रपञ्चयुतादिमते ।
निष्प्रपञ्चमहादेवाय । निष्प्रपञ्चात्मभावनाय ।
निष्प्रपञ्चमहानिद्राय । निष्प्रपञ्चस्वभावकाय ।
निष्प्रपञ्चजीवात्मने । निष्प्रपञ्चकलेवराय ।
निष्प्रपञ्चपरीवाराय । निष्प्रपञ्चनित्योत्सवाय ।
निष्प्रपञ्चककल्याणाय । निष्प्रपञ्चकतर्पणाय ।
निष्प्रपञ्चकाराध्याय । निष्प्रपञ्चकविचारणाय ।
निष्प्रपञ्चविहाराद्याय । निष्प्रपञ्चप्रदीपाय ।
निष्प्रपञ्चप्रपूर्णाय । निष्प्रपञ्चारिमर्दनाय नमः ॥ ६४० ॥

ॐ प्राणानन्दैकबोधनाय नमः । प्रत्यगेकैकरसाय । प्रज्ञानाय ।
प्रसन्नाय । प्रकाशाय । परमेश्वराय । परमाय । परमात्मने ।
प्रणवान्तर्गताय । परिपूर्णाय । परापरविवर्जिताय ।
प्रपञ्चरहिताय । प्रज्ञाय । प्रज्ञानघनाय । प्रज्ञानाय ।
परमानन्दाय । पश्यते । पुरुषोत्तमाय । परायै काष्ठायै ।
परगुरवे नमः ॥ ६६० ॥

ॐ प्रत्यक्षाय नमः । परमाद्भुताय । प्रज्ञानाय ।
परस्मै ज्योतिषे । पशुपाशविमोचनाय । पराकाशाय । पशुपतये ।
पञ्चनदेश्वराय । परिपूर्णज्ञानाय । पञ्चनदस्वरूपिणे ।
पञ्चकोशस्वरूपाय । पूर्णानन्दैकविग्रहाय । परब्रह्मणे ।
परशिवाय । परप्रेमास्मदाय । प्रत्यक्चितये । परस्मै धाम्ने ।
परापरज्ञानशूराय । पञ्चब्रह्मस्वरूपिणे ।
प्रपञ्चोपशमनाय नमः ॥ ६८० ॥

ॐ परमार्थज्ञानाय नमः । प्रसन्नाय । परदैवताय ।
पञ्चावस्थासाक्षिवर्जिताय । पञ्चप्रेतासनाय ।
पञ्चप्राणस्वरूपाय । प्रणवार्थस्वरूपिणे । प्रपञ्चसाक्षिणे ।
प्ररूढाय । परत्रयविलक्षणाय । पञ्चेन्द्रियस्वरूपाय ।
पञ्चावस्थाविलङ्घिताय । प्रत्यक्परोक्षरहिताय ।
पञ्चकोशादिसाक्षिणे । पञ्चकोशाधिष्ठानाय ।
पञ्चकोशान्तरस्थिताय । परमार्थैकवेद्याय ।
पुण्यापुण्यविवर्जिताय । परिशुद्धाय । परब्रह्मणे नमः ॥ ७०० ॥

ॐ प्रणवैकस्वरूपिणे नमः । परमार्थाय । परगतये । प्रभवे ।
प्राणाय । प्रत्यगभिन्नब्रह्मणे । परसच्चित्सुखात्मकाय ।
प्रपञ्चनिर्मुक्ताय । पावनाय । परवस्तुने । प्रज्ञाय ।
परमसुखदाय । पुण्याय । पापविनाशनाय । परमाय पदाय ।
पुंसे । पुरारये । परमकृपाकराय । पुण्यलभ्याय ।
पुष्कलाय नमः ॥ ७२० ॥

ॐ परमोदाराय नमः । प्रियात्मने । प्राणनायकाय ।
पुण्यापुण्यस्वरूपाय । पूर्वाय । परमसाम्याय ।
पूर्वपुण्यैकलभ्याय । पारमार्थिकविवर्जिताय । परगाम्भीर्यवते ।
पूर्वपुण्यहीनसुदुर्लभाय । पुरत्रयसाक्षिणे । पुरत्रयरूपाय ।
परमामृतधाम्ने । परोन्नतिमते । परमसन्तोषाय ।
परनिर्वाणतृप्तये । प्रातिभासिकहीनाय । प्रातिभासिकसाक्षिणे ।
पुरातीताय । प्राज्ञसाक्षिणे नमः ॥ ७४० ॥

ॐ प्राज्ञहीनाय नमः । प्रतिबन्धत्रयीहीनाय । पादेन्द्रियसाक्षिणे ।
पद्मपत्रजलप्रायजगतीसाक्षिणे । पाय्विन्द्रियादिसाक्षिणे ।
प्राज्ञतैजसवर्जिताय । फाललोचनादिसाक्षिणे । ब्रह्मविद्यायै ।
बृहद्रूपाय । बलिने । ब्रह्मविवर्जिताय । ब्रह्मविप्रज्ञाय
ब्रह्मविद्यासम्प्रदायरक्षकाय । बृहत्कोशाय । ब्रह्मणे ।
ब्रह्मचैतन्याय । बलप्रदाय । ब्रह्मज्ञानैकलभ्याय ।
बन्धमोक्षविवर्जिताय । ब्रह्मज्ञानतोयाय नमः ॥ ७६० ॥

ॐ ब्रह्माधिपतये नमः । ब्रह्मानन्दाय । ब्रह्मानन्दरम्याय ।
ब्रह्मात्मकाय । ब्रह्माकारवृत्तिविषयाय । ब्रह्मसंस्थिताय ।
ब्रह्मज्ञानस्वरूपाय । ब्रह्मविद्रूपाय । ब्रह्मविदे । ब्रह्मरूपाय ।
भवचक्रप्रवर्तकाय । भाग्यलभ्याय । भागधेयाय ।
भूमानान्दस्वरूपिणे । भूतपतये । भूम्ने । भवरोगचिकित्सकाय ।
भावाभावकलाहीनाय । भगवते । भवमोचकाय नमः ॥ ७८० ॥

ॐ भवध्वंसकाय नमः । भारूपाय । भीतिनिवर्तकाय ।
भोक्तृभोज्यभोगरूपाय । भावनालङ्घिताय ।
भाववर्जितचिन्मात्राय । भाषाहीनाय । भोक्तृभोग्यभोगसाक्षिणे ।
भ्रमाविष्टाय । भृष्टबीजसदृशजगत्साक्षिणे । भवहीनाय ।
रम्यप्रध्वंसिने । महाकाशाय रम्यमहते । महाकर्त्रे ।
महाभोक्त्रे । महात्यागिने रम्यमहामुनये । मुक्तामुक्तस्वरूपात्मने ।
मुक्तामुक्तविवर्जिताय । महात्मने । महादेवाय । महर्षये नमः ॥ ८०० ॥

ॐ मूलकारणाय नमः । महानन्दाय । मनोऽतीताय ।
मूलाज्ञानविनाशनाय । महानन्दभावाय । मायाभासविवर्जिताय ।
महाग्रसाय । महत्सेव्याय । महामोहविनाशनाय । महर्षिप्रज्ञाय ।
मोक्षात्मने । मूलचैतन्याय । मोक्षामोक्षस्वरूपाय ।
मिथ्यानन्दप्रकाशाकाय । महावाक्यलक्ष्याय । महावाक्यार्थरूपिणे ।
महात्मदाय । महामूर्तये । महच्छब्दविवर्जिताय ।
मूलस्वरूपाय नमः ॥ ८२० ॥

ॐ मोचकैकस्वरूपिणे नमः । महाशब्दात्मकाय । मायाहीनाय ।
मनोहराय । मायाधिष्ठानाय । मायिने । मायावसङ्कराय ।
मायानुताय । मध्यगताय । मूर्खचित्तसुदुर्लभाय । मायावश्याय ।
महच्चित्तसुलभाय । माधवाय । मायातत्कार्यसाक्षिणे ।
मात्सर्यादिविवर्जिताय । मध्यस्थाय । मन्त्रसाध्याय ।
महाप्रलयसाक्षिणे । माणिक्यवत्स्वयञ्ज्योतिषे । मनःसाक्षिणे नमः ॥ ८४० ॥

ॐ महासिद्दये नमः । मात्सर्यसाक्षिणे । मात्सर्यविहीनाय ।
मोहहीनाय । मदविवर्जिताय । मोहसाक्षिणे । महामायाविने ।
महत्साक्षिणे । मृगतृष्णासदृशजगदधिष्ठानाय ।
मलरहिताय । मायाप्रतिबिम्बितसाक्षिणे । मानहीनाय ।
याजमान्यविहीनाय । यज्ञरूपाय । यजमानाय । योगरूपाय ।
योगविधिस्वरूपाय । यजनयाजनरूपाय । यजनयाजनसाक्षिणे ।
रागहीनाय नमः ॥ ८६० ॥

ॐ रागसाक्षिणे नमः । रम्याय । रूपप्रसाक्षिणे ।
रज्जुसर्पजगत्साक्षिणे । रससाक्षिणे । रसाय ।
लक्ष्यालक्ष्यस्वरूपाय । लक्ष्यालक्ष्यविवर्जिताय ।
लाभवृद्धिविवर्जिताय । लक्ष्याय । लक्ष्यालक्ष्यसाक्षिणे ।
लोभसाक्षिणे । लक्षणत्रयविज्ञानाय । लयहीनाय ।
वृत्तिशून्यसुखात्मने । वयोऽवस्थाविवर्जिताय । विश्वातीताय ।
विश्वसाक्षिणे । वर्णाश्रमविवर्जिताय । विष्णवे नमः ॥ ८८० ॥

ॐ वरेण्याय नमः । विज्ञानाय । विरजसे । विश्वतोमुखाय ।
वासुदेवाय । विमुक्ताय । विदिताविदितात्पराय । विकल्पाविकल्पसाक्षिणे ।
विकल्पसाक्षिणे । विज्ञानविष्वग्ज्ञानाय । सच्चिदानन्दाय ।
विद्वज्जेयाय । वृत्तिशून्याय । वृत्तिवेद्याय ।
विषयानन्दवर्जिताय । वृत्तिकल्पनाधिष्ठानाय । वाक्साक्षिणे ।
वेदरूपिणे । वास(ही)नाय । वेदान्तवेद्याय । वेदैकस्वरूपिणे नमः ॥ ९०० ॥

ॐ वचनहीनाय नमः । वचनसाक्षिणे । वृष्टिसाक्षिणे ।
विराट्स्वरूपाय । विदुषे । व्यष्टिविवर्जिताय । विराड्भावरहिताय ।
विकल्पदूराय । विराट्साक्षिणे । विश्वचक्षुषे । विश्वहीनाय ।
विश्वात्मने । वन्ध्यासुतसदृशजगत्साक्षिणे । विशुद्धरूपाय ।
शुद्धाय । शक्राय । शान्ताय । शाश्वताय । शिवाय ।
शून्यविहरणाय नमः ॥ ९२० ॥

ॐ शोभनाशोभमानाय नमः । शङ्कराद्वैतवन्द्याय ।
शुद्धाशुद्धविवर्जिताय । शुक्तिरूप्यसाम्यजगत्साक्षिणे । श्रेयसे ।
श्रेष्ठिने । शुभ्राय । शून्याय । शङ्कराय । शब्दब्रह्मणे ।
शरदाकाशसदृशाय । सुद्धचैतन्यरूपिणे । शैवागमविदे
शिवाय । शशाङ्कतुल्यजगत्साक्षिणे । सच्चिदात्मकाय ।
षडाधारस्वरूपाय । षट्कोशरहिताय । षडूर्मिवर्जिताय ।
षडाधारविलङ्घिताय । षट्शास्त्रलङ्घिताय ।
षण्मतातीताय नमः ॥ ९४० ॥

ॐ षडाधारसाक्षिणे नमः । षट्शास्त्रैकरहस्यविदे ।
सदसद्भेदहीनाय । सङ्कल्परहिताय । सदाविचाररूपाय ।
सर्वेन्द्रियविवर्जिताय । सर्वाय । सच्चिदानन्दाय ।
साक्ष्यसाक्षित्ववर्जिताय । सर्वप्रकाशरूपाय ।
सर्वसम्बन्धवर्जिताय । सम्भेदरूपाय । सर्वभूतान्तरस्थिताय ।
सर्वेश्वराय । सर्वसाक्षिणे । सर्वानुभूताय । सुखस्वरूपाय ।
साक्षिहीनाय । सदाशिवाय । सदोदिताय नमः ॥ ९६० ॥

ॐ सर्वकर्त्रे नमः । सर्वगाय । सनातनाय । सन्मात्राय ।
सद्धनाय । सर्वव्यापिने । सर्वविलक्षणाय । सर्वातीताय ।
सर्वभर्त्रे । सर्वस्तोत्रविवर्जिताय । सुखातीताय । सुखारम्भाय ।
स्वभापाय । सुखवारिधये । सुखलयाय । स्वयञ्ज्योतिषे ।
सर्वत्रावस्थिताय । स्वयम्भुवे । संसारहेतवे । स्वभाय नमः ॥ ९८० ॥

ॐ सङ्कल्पसाक्षिणे नमः । सर्वशान्ताय । सर्वशक्ताय ।
स्वतन्त्राय । सर्वसक्तिमते । स्थूलसाक्षिणे । सूक्ष्मसाक्षिणे ।
स्वप्नकल्पितवर्जिताय । समानसाक्षिणे । स्वरूपानन्दाय ।
स्पर्शसाक्षिणे । स्वप्नकल्पनासाक्षिणे । समष्टिरहिताय ।
समष्टिव्यष्टिहीनाय । सत्तामात्रस्वरूपिणे । सुषुप्तिकल्पनाहीनाय ।
सर्वकर्मकर्त्रे । सुषुप्तिकल्पनासाक्षिणे । सच्चिदानन्दवर्जिताय ।
सर्वानुभवरुपाय नमः ॥ १००० ॥

ॐ सर्वानुभवसाक्षिणे नमः । समग्राग्रगुणाधारसत्यलीलाय ।
सर्वसङ्कल्परहिताय । सर्वसङ्कल्पसाक्षिणे । सर्वसंज्ञाविहीनाय ।
सर्वसंज्ञाति(ज्ञप्ति)साक्षिणे । साङ्ख्यवित्पूर्णाय ।
सर्वशक्त्युपबृंहिताय । सुरवासनाय । स्वयम्ब्रह्मणे ।
सर्वपापशमाय । संशान्तदुःखाय । सिद्धान्तरहस्याय ।
सर्वगोचराय । सर्वसङ्कल्पजालशून्याय । सुखात्सुखाय ।
सर्वकल्पनातीताय । साक्षिनुताय । स्वानन्दाय ।
सर्ववित्सर्वाय नमः ॥ १०२० ॥

ॐ सर्ववाक्यविवर्जिताय नमः । सकलनिष्कलरूपाय ।
सकलनिष्कलसाक्षिणे । सर्वप्रकृतिविहीनात्मने ।
सर्वसिद्धिविवर्धनाय । सर्वशास्त्रार्थसिद्धानताय ।
सर्वसम्पूर्णविग्रहाय । स्वानुभूत्येकमानाय । सर्वचित्तानुगाय ।
स्वप्नतुल्यजगत्साक्षिणे । सर्वकृते । सूक्ष्मधिये । समाय ।
समरससाराय । सर्वमननफलाय । सकृद्विभाना(ता)य ।
संशान्ताय । सूक्ष्माय । सङ्गहीनाय । सर्वप्रत्ययसाक्षिणे नमः ॥ १०४० ॥

ॐ सर्वान्तरङ्गाय नमः । सुसन्तुष्टाय । सर्वप्रत्ययवर्जिताय ।
स्वप्रकाशाय । सदानन्दाय । सर्वप्राणिमनोहराय ।
साधुप्रियाय । साधुप्रज्ञाय । स्वाद्वस्वादुविवर्जिताय ।
स्वाद्वस्वादुप्रदीपकाय । सर्वज्ञाय । सर्वसम्पूर्णाय ।
सर्वसन्तोषसाक्षिणे । संसारार्णवनिर्मुक्तसमुद्धरणकौशलाय ।
स्वात्मानन्दकणीभूतब्रह्माद्यानन्दसन्ततये । हस्तहीनाय ।
हिरण्यगर्भसाक्षिणे । हिरण्यगर्भरूपाय । हेयोपादेयवर्जिताय ।
हंसमन्त्रार्थरूपाय नमः ॥ १०६० ॥

ॐ हर्षशोकप्रसाक्षिणे नमः । हंसाय । हंसभावनाय ।
क्षुद्र(क्षंव्र)जगत्साक्षिणे । क्षराक्षरविवर्जिताय ।
क्षान्तिमच्चित्तसुलभाय । क्षान्तिहीनसुदूराय । क्षेत्रज्ञाय ।
क्षेत्रस्वरूपिणे । क्षेत्राधिष्ठानाय । विष(षु)वल्लोकसाक्षिणे ।
क्षान्ताय नमः ॥ १०७२ ॥

ॐ ब्रह्मानन्दस्वामिने नमः । आत्मानन्दस्वामिने नमः ।
अश्वनाथस्वामिने नमः । ॐ नमश्शिवाय ॐ ॥

Also Read 1000 Names of Shri Atmananda:

1000 Names of Sri Atmanatha | Sahasranamavali or Brahmanandasahasranamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Atmanatha | Sahasranamavali or Brahmanandasahasranamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top