Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Mahasaraswati | Sahasranama Stotram Lyrics in Hindi

Shri Mahasarasvati Sahasranamastotram Lyrics in Hindi:

॥ श्री महासरस्वती सहस्रनाम स्तोत्रम् ॥

ध्यानम्
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥

श्रीनारद उवाच –
भगवन्परमेशान सर्वलोकैकनायक ।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ २ ॥

कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम् ।
एतन्मे वद तत्वेन महायोगीश्वरप्रभो ॥ ३ ॥

श्रीसनत्कुमार उवाच –
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम् ।
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ ४ ॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् ।
निर्विकारं निराभासं स्तंभीभूतमचेतसम् ॥ ५ ॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् ।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ ६ ॥

दिव्यवर्षायुतं तेन तपो दुष्कर मुत्तमम् ।
ततः कदाचित्संजाता वाणी सर्वार्थशोभिता ॥ ७ ॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ ८ ॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् ।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ ९ ॥

इदं रहस्यं परमं मम नामसहस्रकम् ।
सर्वपापौघशमनं महासारस्वतप्रदम् ॥ १० ॥

महाकवित्वदं लोके वागीशत्वप्रदायकम् ।
त्वं वा परः पुमान्यस्तुस्तवेनानेन तोषयेत् ॥ ११ ॥

तस्याहं किंकरी साक्षाद्भविष्यामि न संशयः ।
इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः ॥ १२ ॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् ।
वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने ॥ १३ ॥

तत्तेहं संप्रवक्ष्यामि श‍ृणु यत्नेन नारद ।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ १४ ॥

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ १ ॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ २ ॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ ३ ॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ ४ ॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ ५ ॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।
व्याळघ्नी व्याळभूषांगी विरजा वेदनायिका ॥ ६ ॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी ।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥ ७ ॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ ८ ॥

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया ।
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥ ९ ॥

गिरिविद्या गानतुष्टा गायकप्रियकारिणी ।
गायत्री गिरिशाराध्या गीर्गिरीशप्रियंकरी ॥ १० ॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ ११ ॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।
गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी ॥ १२ ॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ १३ ॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।
गरुडासनसंसेव्या गोमती गुणशालिनी ॥ १४ ॥

शारदा शाश्वती शैवी शांकरी शंकरात्मिका ।
श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥ १५ ॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी ।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ १६ ॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी ।
शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका ॥ १७ ॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा ।
शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियंकरी ॥ १८ ॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी ।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ १९ ॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ २० ॥

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥ २१ ॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ २२ ॥

सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा ।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ २३ ॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ २४ ॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥ २५ ॥

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता ।
सहस्रहस्ता साहस्रगुणालंकृतविग्रहा ॥ २६ ॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ २७ ॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।
संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी ॥ २८ ॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥ २९ ॥

सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी ।
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥ ३० ॥

सर्वप्रियंकरी सर्वशुभदा सर्वमङ्गळा ।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ ३१ ॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गळा ॥ ३२ ॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता ।
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥ ३३ ॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।
सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी ॥ ३४ ॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ ३५ ॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी ।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥ ३६ ॥

साररूपा सरोरूपा सत्यभूता समाश्रया ।
सितासिता सरोजाक्षी सरोजासनवल्लभा ॥ ३७ ॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता ।
महादेवी महेशानी महासारस्वतप्रदा ॥ ३८ ॥

महासरस्वती मुक्ता मुक्तिदा मलनाशिनी ।
महेश्वरी महानन्दा महामन्त्रमयी मही ॥ ३९ ॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥ ४० ॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।
महासिद्धा महामाता महदाकारसंयुता ॥ ४१ ॥

महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ ४२ ॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी ।
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ ४३ ॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी ।
मणिपूरैकनिलया मधुरूपा महोत्कटा ॥ ४४ ॥

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥ ४५ ॥

मा महादेवसंस्तुत्या महिषीगणपूजिता ।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥ ४६ ॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।
मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ ४७ ॥

महिळा महिमा मृत्युहारी मेधाप्रदायिनी ।
मेध्या महावेगवती महामोक्षफलप्रदा ॥ ४८ ॥

महाप्रभाभा महती महादेवप्रियंकरी ।
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा ॥ ४९ ॥

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।
मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी ॥ ५० ॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ ५१ ॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ ५२ ॥

महानसा महामेधा महामोदा महेश्वरी ।
मालाधरी महोपाया महातीर्थफलप्रदा ॥ ५३ ॥

महामङ्गळसम्पूर्णा महादारिद्र्यनाशिनी ।
महामखा महामेघा महाकाळी महाप्रिया ॥ ५४ ॥

महाभूषा महादेहा महाराज्ञी मुदालया ।
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ ५५ ॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका ।
भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ ५६ ॥

भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी ।
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ ५७ ॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।
भवस्तुत्या भानुमती भवसागरतारणी ॥ ५८ ॥

भूतिर्भूषा च भूतेशी फाललोचनपूजिता ।
भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ ५९ ॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता ।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ ६० ॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ ६१ ॥

भाविनी भ्रातृरूपा च भारती भवनायिका ।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ ६२ ॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।
भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ ६३ ॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥ ६४ ॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।
भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ ६५ ॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ ६६ ॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ ६७ ॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥ ६८ ॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा ।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ ६९ ॥

बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी ।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥ ७० ॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥ ७१ ॥

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ ७२ ॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।
अक्षमालाक्षराकाराक्षराक्षरफलप्रदा ॥ ७३ ॥

अनन्तानन्दसुखदानन्तचन्द्रनिभानना ।
अनन्तमहिमाघोरानन्तगम्भीरसम्मिता ॥ ७४ ॥

अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा ।
अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता ॥ ७५ ॥

अनेकभूषणादृश्यानेकलेखनिषेविता ।
अनन्तानन्तसुखदाघोराघोरस्वरूपिणी ॥ ७६ ॥

अशेषदेवतारूपामृतरूपामृतेश्वरी ।
अनवद्यानेकहस्तानेकमाणिक्यभूषणा ॥ ७७ ॥

अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता ।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ ७८ ॥

अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।
अकळंकारूपिणी च ह्यनुग्रहपरायणा ॥ ७९ ॥

अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा ।
अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्विता ॥ ८० ॥

अम्बुजानवराखण्डाम्बुजासनमहाप्रिया ।
अजरामरसंसेव्याजरसेवितपद्युगा ॥ ८१ ॥

अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता ।
अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा ॥ ८२ ॥

अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रिया ।
अखण्डात्वमरस्तुत्यामरनायकपूजिता ॥ ८३ ॥

अजेयात्वजसंकाशाज्ञाननाशिन्यभीष्टदा ।
अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ ८४ ॥

अनन्तसारानन्तश्रीरनन्तविधिपूजिता ।
अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥ ८५ ॥

आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा ।
अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी ॥ ८६ ॥

अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका ।
अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ ८७ ॥

जया जयन्ती जयदा जन्मकर्मविवर्जिता ।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ ८८ ॥

जातिर्जया जितामित्रा जप्या जपनकारिणी ।
जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ ८९ ॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥ ९० ॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ ९१ ॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।
जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥ ९२ ॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।
जटा जटावती जप्या जपकर्तृप्रियंकरी ॥ ९३ ॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ ९४ ॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी ।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥ ९५ ॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ ९६ ॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥ ९७ ॥

जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी ।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी ॥ ९८ ॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥ ९९ ॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।
जरामरणशून्या च जनित्री जन्मनाशिनी ॥ १०० ॥

जलजाभा जलमयी जलजासनवल्लभा ।
जलजस्था जपाराध्या जनमङ्गळकारिणी ॥ १०१ ॥

कामिनी कामरूपा च काम्या कामप्रदायिनी ।
कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ १०२ ॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।
कञ्जाक्षी करुणारूपा केवलामरसेविता ॥ १०३ ॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।
कमला कमलावासा कमलोत्पलमालिनी ॥ १०४ ॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा ।
कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥ १०५ ॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कळानिधिः ।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ १०६ ॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥ १०७ ॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना ।
कन्दर्पजननी कान्ता करुणा करुणावती ॥ १०८ ॥

क्लींकारिणी कृपाकारा कृपासिन्धुः कृपावती ।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ १०९ ॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी ।
कळा कळावती कूर्मी कूटस्था कञ्जसंस्थिता ॥ ११० ॥

काळिका कल्मषघ्नी च कमनीयजटान्विता ।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ १११ ॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा ।
कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ ११२ ॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥ ११३ ॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।
कुलमाता कुलावासा कुलाचारप्रियंकरी ॥ ११४ ॥

कुलानाथा कामकळा कळानाथा कळेश्वरी ।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥ ११५ ॥

कवित्वदा काव्यमाता कविमाता कळाप्रदा ।
तरुणी तरुणीताता ताराधिपसमानना ॥ ११६ ॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥ ११७ ॥

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥ ११८ ॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥ ११९ ॥

तमालसदृशी त्राता तरुणादित्यसन्निभा ।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी ॥ १२० ॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी ।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥ १२१ ॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।
तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ १२२ ॥

त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता ।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥ १२३ ॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ १२४ ॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी ।
तेजोगर्भा तपःसारा त्रिपुरारिप्रियंकरी ॥ १२५ ॥

तन्वी तापससंतुष्टा तपनाङ्गजभीतिनुत् ।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ १२६ ॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ १२७ ॥

शीतळा शूलिनी शीता श्रीमती च शुभान्विता ।
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ १२८ ॥

यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ १२९ ॥

यामिनीयप्रभा याम्या यजनीया यशस्करी ।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ १३० ॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता ।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ १३१ ॥

योगिनी योगरूपा च योगकर्तृप्रियंकरी ।
योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥ १३२ ॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता ।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥ १३३ ॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् ।
योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ १३४ ॥

योगारूढा योगमयी योगरूपा यवीयसी ।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥ १३५ ॥

युगकर्त्री युगमयी युगधर्मविवर्जिता ।
यमुना यमिनी याम्या यमुनाजलमध्यगा ॥ १३६ ॥

यातायातप्रशमनी यातनानान्निकृन्तनी ।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥ १३७ ॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका ।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ १३८ ॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥ १३९ ॥

योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी ।
योगिवन्द्या योगिमाता योगीशफलदायिनी ॥ १४० ॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता ।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ १४१ ॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियंकरी ।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥ १४२ ॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ १४३ ॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ १४४ ॥

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् ।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ १ ॥

यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान् ।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ २ ॥

लभते संपदः सर्वाः पुत्रपौत्रादिसंयुताः ।
मूकोपि सर्वविद्यासु चतुर्मुख इवापरः ॥ ३ ॥

भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर ।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥ ४ ॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम् ।
कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥ ५ ॥

महारहस्यं सततं वाणीनामसहस्रकम् ।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ ६ ॥

॥ इति श्रीस्कान्दपुराणान्तर्गत
सनत्कुमार संहितायां नारद सनत्कुमार संवादे
सरस्वतीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥

Also Read 1000 Names of Sri Mahasarasvati:

1000 Names of Sri Mahasaraswati | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Mahasaraswati | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top