Templesinindiainfo

Best Spiritual Website

Abhilashashtakam Lyrics in Hindi | अभिलाषाष्टकं

अभिलाषाष्टकं Lyrics in Hindi:

॥ अथ अभिलाषाष्टकम् ॥

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।
गदाशंखाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिंगिततनुम् ।
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥

कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गंगातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥

कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥

कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोंकारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥

कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति ॥ ८॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
अभिलाषाष्टकं सम्पूर्णम् ॥

Abhilashashtakam Lyrics in Hindi | अभिलाषाष्टकं

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top