Templesinindiainfo

Best Spiritual Website

Bhavani Bhujanga Prayata Stotram Lyrics in Hindi

Bhavani Bhujanga Prayata Stotram in Hindi:

॥ भवानी भुजङ्गप्रयात स्तोत्रम् ॥
षडाधारपङ्केरुहान्तर्विराजत्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्ती पिबन्तीं सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥

क्वणत्किङ्किणीनूपुरोद्भासिरत्नप्रभालीढलाक्षार्द्रपादाब्जयुग्मं
अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥

सुशोणाम्बराबद्धनीवीविराजन्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भोपमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥

शिरीषप्रसूनोल्लसद्बाहुदण्डैर्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषोज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बाधरस्मेरवक्त्रारविन्दां सुशान्तां
सुरत्नावलीहारताटङ्कशोभां महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥

सुनासापुटं सुन्दरभ्रूललाटं तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ ८ ॥

चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दं घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥

इति श्रीभवानि स्वरूपं तवेदं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम्
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥

गणेशाभिमुख्याखिलैः शक्तिबृन्दैर्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमापस्त्वमाकाशभूवायवस्त्वं महत्त्वं।
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं सदानन्दसंवित्स्वरूपं भजेऽहम् ॥ १२ ॥

श्रुतीनामगम्यो सुवेदागमज्ञा महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमत्र प्रमुग्धः किलाऽहम् ॥ १३ ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥

इतीमां महच्छ्रीभवानीभुजङ्गं स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥

भवानी भवानी भवानी त्रिवारं ह्युदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः कदाचित्कथञ्चित्कुतश्चिज्जनानाम् ॥ १७ ॥

Also Read:

Bhavani Bhujanga Prayata Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Bhavani Bhujanga Prayata Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top