Templesinindiainfo

Best Spiritual Website

Chaitanyashtakam 2 Lyrics in Hindi | चैतन्याष्टकम् २

चैतन्याष्टकम् २ Lyrics in Hindi:

अथ श्रीचैतन्यदेवस्य द्वितीयाष्टकं
कलौ यं विद्वांसः स्फुटमभियजन्ते द्युतिभराद्
अकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयैः ।
उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ १॥

चरित्रं तन्वानः प्रियमघवदाह्लादनपदं
जयोद्घोषैः सम्यग्विरचितशचीशोकहरणः ।
उदञ्चन्मार्तण्डद्युतिहरदुकूलाञ्चितकटिः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ २॥

अपारं कस्यापि प्रणयिजनवृन्दस्य कुतुकी
रसस्तोमं हृत्वा मधुरमुपभोक्तुं कमपि यः ।
रुचिं स्वामावव्रे द्युतिमिह तदीयां प्रकटयन्
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ३॥

अनाराध्यः प्रीत्या चिरमसुरभावप्रणयिनां
प्रपन्नानां दैवीं प्रकृतिमधिदैवं त्रिजगति ।
अजस्रं यः श्रीमान् जयति सहजानन्दमधुरः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ४॥

गतिर्यः पौण्ड्राणां प्रकटितनवद्वीपमहिमा
भवेनालङ्कुर्वन् भुवनमहितं श्रोत्रियकुलम् ।
पुनात्यङ्गीकाराद् भुवि परमहंसाश्रमपदं
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ५॥

मुखेनाग्रे पीत्वा मधुरमिह नामामृतरसं
दृशोर्द्वारा यस्तं वमति घनबाष्पाम्बुमिषतः ।
भुवि प्रेम्णस्तत्त्वं प्रकटयितुमुल्लासिततनुः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ६॥

तनूमाविष्कुर्वन्नवपुरटभासं कटिलसत्
करङ्कालङ्कारस्तरुणगजराजाञ्चितगतिः ।
प्रियेभ्यो यः शिक्षां दिशति निजनिर्माल्यरुचिभिः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ७॥

स्मितालोकः शोकं हरति जगतां यस्य परितो
गिरां तु प्रारम्भः कुशलीपटलीं पल्लवयति ।
पदालम्बः कं वा प्रणयति नहि प्रेमनिवहं
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ८॥

शचीसूनोः कीरित्स्तवकनवसौरभ्यनिविडं
पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् ।
स लक्ष्मीवान् एतं निजपदसरोजे प्रणयितां
ददानः कल्याणीमनुपदमबाधं सुखयतु ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं द्वितीयं सम्पूर्णम् ।

Chaitanyashtakam 2 Lyrics in Hindi | चैतन्याष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top