Templesinindiainfo

Best Spiritual Website

Ganeshashtakam 3 Lyrics in Hindi | गणेशाष्टकम् ३

गणेशाष्टकम् ३ Lyrics in Hindi:

गजवदन गणेश त्वं विभो विश्वमूर्ते!
हरसि सकलविघ्नान् विघ्नराज प्रजानाम् ।
भवति जगति पूजा पूर्वमेव त्वदीया
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ १॥

सपदि सकलविघ्नां यान्ति दूरे दयालो
तव शुचि रुचिरं स्यान्नामसङ्कीर्तनं चेत् ।
अत इह मनुजास्त्वां सर्वकार्ये स्मरन्ति
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ २॥

सकलदुरितहन्तुः त स्वर्गमोक्षादिदातुः
सुररिपुवधकर्त्तुः सर्वविघ्नप्रहर्त्तुः ।
तव भवति कृपातोऽशेष-सम्पत्तिलाभो
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ३॥

तव गणप गुणानां वर्णने नैव शक्ता
जगति सकलवन्द्या शारदा सर्वकाले ।
तदितर मनुजानां का कथा भालदृष्टे
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ४॥

बहुतरमनुजैस्ते दिव्यनाम्नां सहस्रैः ।
स्तुतिहुतिकरणेन प्राप्यते सर्वसिद्धिः ।
विधिरयमखिलो वै तन्त्रशास्त्रे प्रसिद्धः
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ५॥

त्वदितरदिह नास्ते सच्चिदानन्दमूर्त्ते
इति निगदति शास्त्रं विश्वरूपं त्रिनेत्र ।
त्वमसि हरिरथ त्वं शङ्करस्त्वं विधाता
वरदवर कृपालो चन्द्रमौलेः प्रसीद ॥ ६॥

सकलसुखद माया या त्वदीया प्रसिद्धा
शशधरधरसूने त्वं तया क्रीडसीह ।
नट इव बहुवेषं सर्वदा संविधाय
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ७॥

भव इह पुरतस्ते पात्ररूपेण भर्त्तः
बहुविधनरलीलां त्वां प्रदर्श्याशु याचे ।
सपदि भवसमुद्रान्मां समुद्धारयस्व
वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ८॥

अष्टकं गणनाथस्य भक्त्या यो मानवः पठेत्
तस्य विघ्नाः प्रणश्यन्ति गणेशस्य प्रसादतः ॥ ९॥

इति जगद्गुरु-शङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वती-शिष्य-
स्वामि- श्रीमदनन्तानन्दसरस्वतीविरचितं गणेशाष्टकं सम्पूर्णम् ।

Ganeshashtakam 3 Lyrics in Hindi | गणेशाष्टकम् ३

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top