Templesinindiainfo

Best Spiritual Website

Indra Krita Shiva Stuti Lyrics in Sanskrit

Indra Kruta Shiva Stuti in Sanskrit:

॥ श्री शिव स्तुतिः (इन्द्रादि कृतम्) ॥
नमामि सर्वे शरणार्थिनो वयं
महेश्वर त्र्यम्बक भूतभावन ।
उमापते विश्वपते मरुत्पते
जगत्पते शङ्कर पाहि नस्स्वयम् ॥ १ ॥

जटाकलापाग्र शशाङ्कदीधिति
प्रकाशिताशेषजगत्त्रयामल ।
त्रिशूलपाणे पुरुषोत्तमाऽच्युत
प्रपाहिनो दैत्यभयादुपस्थितात् ॥ २ ॥

त्वमादिदेवः पुरुषोत्तमो हरि-
र्भवो महेशस्त्रिपुरान्तको विभुः ।
भगाक्षहा दैत्यरिपुः पुरातनो
वृषध्वजः पाहि सुरोत्तमोत्तम ॥ ३ ॥

गिरीशजानाथ गिरिप्रियाप्रिय
प्रभो समस्तामरलोकपूजित ।
गणेश भूतेश शिवाक्षयाव्यय
प्रपाहि नो दैत्यवरान्तकाऽच्युत ॥ ४ ॥

पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो
ध्वनिस्वरूपो गगने विशेषतः ।
लिनो द्विधा तेजसि स त्रिधाजले
चतुःक्षितौ पञ्चगुणप्रधानः ॥ ५ ॥

अग्निस्वरूपोसि तरौ तथोपले
सत्त्वस्वरूपोसि तथा तिलेष्वपि ।
तैलस्वरूपो भगवान् महेश्वरः
प्रपाहि नो दैत्यगणार्दितान् हर ॥ ६ ॥

नासीद्यदाकाण्डमिदं त्रिलोचन
प्रभाकरेन्द्रेन्दु विनापि वा कुतः ।
तदा भवानेव विरुद्धलोचन
प्रमादबाधादिविवर्जितः स्थितः ॥ ७ ॥

कपालमालिन् शशिखण्डशेखर
श्मशानवासिन् सितभस्मगुम्भित ।
फणीन्द्रसंवीततनोन्तकान्तक
प्रपाहि नो दक्षधिया सुरेश्वर ॥ ८ ॥

भवान् पुमान् शक्तिरियं गिरेस्सुता
सर्वाङ्गरूपा भगवन्-स्तदात्वयि ।
त्रिशूलरूपेण जगद्भयङ्करे
स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ॥ ९ ॥

जटास्वरूपेण समस्तसागराः
कुलाचलास्सिन्धुवहाश्च सर्वशः ।
शरीरजं ज्ञानमिदं त्ववस्थितं
तदेव पश्यन्ति कुदृष्ट यो जनाः ॥ १० ॥

नारायणस्त्वं जगतां समुद्भव-
स्तथा भवानेव चतुर्मुखो महान् ।
सत्त्वादिभेदेन तथाग्निभेदितो
युगादिभेदेन च संस्थितस्त्रिधा ॥ ११ ॥

भवन्तमेते सुरनायकाः प्रभो
भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।
यतस्ततोनो भव भूतिभूषण
प्रप्राहि विश्वेश्वर रुद्र ते नमः ॥ १२ ॥

इति श्री वराहपुराणे इन्द्रादिकृत शिवस्तुतिः ।

Also Read:

Indra Krita Shiva Stuti Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Indra Krita Shiva Stuti Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top