Templesinindiainfo

Best Spiritual Website

Narmada Ashtakam Lyrics in Hindi | नर्मदाष्टकम्

नर्मदाष्टकम् Lyrics in Hindi:

श्रीनर्मदे सकल-दुःखहरे पवित्रे
ईशान-नन्दिनि कृपाकरि देवि धन्ये ।
रेवे गिरीन्द्र-तनयातनये वदान्ये
धर्मानुराग-रसिके सततं नमस्ते ॥ १॥

विन्ध्याद्रिमेकलसुते विदितप्रभावे
शान्ते प्रशान्तजन-सेवितपादपद्मे ।
भक्तार्तिहारिणि मनोहर-दिव्यधारे
सोमोद्भवे मयि निधेहि कृपाकटाक्षम् ॥ २॥

आमेकलादपर-सिन्धु-तरङ्गमाला
यावद् बृहद् -विमल -वारि-विशालधारा ।
सर्वत्र धार्मिकजनाऽऽप्लुततीर्थदेशा
श्रीनर्मदा दिशतु मे निजभक्तिमीशा ॥ ३॥

सर्वाः शिला यदनुषङ्गमवाप्य लोला
विश्वेशरूपमधिगम्य चमत्कृताङ्गाः ।
पूज्या भवन्ति जगतां स-सुराऽसुराणां
तस्यै नमोऽस्तु सततं गिरिशाङ्गजायै ॥ ४॥

यस्यास्तटीमुभयतः कृतसन्निवेशा
देशाः समीर-जलबिन्दु-कृताभिषेकाः ।
सोत्कण्ठ-देवगण-वर्णितपुण्यमालाः
श्रीभारतस्य गुणगौरवमुद्गृणन्ति ॥ ५॥

स्वास्थ्याय सर्वविधये धन-धान्य-सिध्यै
वृद्धिप्रभावनिधये जनजागरायै ।
दिव्यावबोधविभवाय महेश्वरायै
भूयो नमोऽस्तु वरमञ्जुलमङ्गलायै ॥ ६॥

कल्याण-मङ्गल-समुज्ज्वल-मञ्जुलायै
पीयूषसार-सरसीरुह-राजहंस्यै ।
मन्दाकिनी-कनक-नीरज-पूजितायै
स्तोत्रार्चनान्यमर-कण्टक-कन्यकायै ॥ ७॥

श्यामां मुग्धसुधा-मयूरवदनां रत्नोज्जवलालङ्कृतिं
रामां फुल्ल-सहस्रपत्रनयनां हासोल्लसन्तीं शिवाम् ।
वामां बाहुविशाल-वल्लिवलया-लोलाङ्गुलीपल्लवां
लालित्योल्लसितालकावलिकलां श्रीनर्मदां भावये ॥ ८॥

श्रीनर्मदाङ्घ्रि-सरसीरुह-राजहंसी
स्तोत्राष्टकावलिरियं कलगीतवंशी ।
संवाद्यतेऽनुदिनमेकसमां भजद्भि-
र्यैस्ते भवन्ति जगदम्बिकयाऽनुकम्प्याः ॥ ९॥

काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा ।
कृता महेश्वरानन्द-स्वामिनाऽऽस्तां सतां मुदे ॥ १०॥

इति काशीपीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-स्वामि-
श्रीमहेश्वरानन्द-सरस्वती-विरचितं नर्मदाष्टकं सम्पूर्णम् ।

Narmada Ashtakam Lyrics in Hindi | नर्मदाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top