पृथ्वीधरराजपुत्र्यष्टकम् Lyrics in Hindi:
ज्ञात्वापि दोषान्विषयेषु शब्दरसादिमेष्वप्रतिबद्धतर्षम् ।
आकारमात्रात्परहंसरूपं मां पाहि पृथ्वीधरराजपुत्रि ॥ १॥
विवेकवैराग्यशमादिषट्कमुमुक्षुतागन्धलवानभिज्ञम् ।
नक्तन्दिवं स्वोदरपूरणेच्छुं मां पाहि पुथ्वीधरराजपुत्रि ॥ २॥
काषायवस्त्रेण करात्तदण्डकमण्डलुभ्यां जपमालया च ।
विभ्रामयन्तं गृहिणां कदम्बं मां पाहि पृथ्वीधरराजपुत्रि ॥ ३॥
वेदान्तवाक्यानि मुधोच्चरन्तं तदर्थजातं बहु वर्णयन्तम् ।
कदापि न ध्यातपरात्मतत्त्वं मां पाहि पृथ्वीधरराजपुत्रि ॥ ४॥
सुवर्णतन्तूज्ज्वलचेलकामं यानेषु मानेषु विवृद्धरागम् ।
अङ्गीकृतानेकसुमित्रशत्रुं मां पाहि पृथ्वीधरराजपुत्रि ॥ ५॥
भोगा अनेका मनसाप्यलभ्या भूयासुरित्यन्वहमीहमानम् ।
गुरूत्तमाराधनदूरचित्तं मां पाहि पृथ्वीधरराजपुत्रि ॥ ६॥
कुतो यतेरस्य शरीरमानधनाभिमानः सततं दुरन्तः ।
अशेषलोकैरिति निन्द्यमानं मां पाहि पुथ्वीधरराजपुत्रि ॥ ७॥
निवारिताशेषमहाघवृन्दैरव्याजकारुण्यसुधातरङ्गैः ।
अपाङ्गपातैरवलोकयन्ती मां पाहि पूरथ्वीधरराजपुत्रि ॥ ८॥
इदं हि पृथ्वीधरराजपुत्रीपादारविन्दार्पितमानसेन ।
कर्मन्दिना निर्मितमष्टकं यः पठेत्स भूयादखिलेष्टगेहम् ॥ ९॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीपृथ्वीधरराजपुत्र्यष्टकं सम्पूर्णम् ।