Templesinindiainfo

Best Spiritual Website

Shri Purnashtakam Lyrics in Hindi | श्रीपूर्णाष्टकम्

श्रीपूर्णाष्टकम् Lyrics in Hindi:

भगवति भवबन्धच्छेदिनि ब्रह्मवन्द्ये
शशिमुखि रुचिपूर्णे भालचन्द्रेऽन्नपूर्णे ।
सकलदुरितहन्त्रि स्वर्गमोक्षादिदात्रि
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ १॥

तव गुणगरिमाणं वर्णितुं नैव शक्ता
विधि-हरि-हरदेवा नैव लोका न वेदाः ।
कथमहमनभिज्ञो वागतीतां स्तुवीयां
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ २॥

भगवति वसुकामाः स्वर्गमोक्षादिकामा-
दितिजसुर-मुनीन्द्रास्त्वां भजन्त्यम्ब सर्वे ।
तव पदयुगभक्तिं भिक्षुकस्त्वां नमामि
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ३॥

यदवधि भवमातस्ते कृपा नास्ति जन्तौ
तदवधि भवजालं कः समर्थो विहातुम् ।
भवकृतभयभीतस्त्वां शिवेऽहं प्रसन्नो
जननि निटिलेनेत्रे देवि पूर्णे प्रसीद ॥ ४॥

सुरसुरपतिवन्द्ये कोटिरित्येकरम्ये
निखिलभवनधन्ये कामदे कामदेहे ।
भवति भवपयोधस्तारिणीं त्वां नतोऽहं
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ५॥

त्वमिह जगति पूर्णा त्वद्विहीनं न किञ्चिद्
रजनि यदि विहीनं तत्स्वरूप तु मिथ्या ।
इति निगदति वेदो ब्रह्मभिन्नं न सत्यं
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ६॥

स्वजनशरणदक्षे दक्षजे पूर्णकामे
सुरहितकृतरूपे निर्विकल्पे निरीहे ।
श्रुतिसमुदयगीते सच्चिदानन्दरूपे
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ७॥

भगवति तव पुर्यां त्वां समाराध्य याचे
भवतु गणपमातभक्तितस्तेऽविरामः ।
त्वदितरजन आर्ये पूर्णकामो न पूर्णे
जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ ८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीमदुत्तराम्नायज्योतिष्पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वतीशिष्य-
स्वामिश्रीमदनन्तानन्द-सरस्वतीविरचितं श्रीपूर्णाष्टकं सम्पूर्णम् ।

Shri Purnashtakam Lyrics in Hindi | श्रीपूर्णाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top