Templesinindiainfo

Best Spiritual Website

Saptashloki Durga Lyrics in Hindi

Saptashloki Durga in Hindi:

॥ श्री दुर्गा सप्तश्लोकी ॥
शिव उवाच-
देवी त्वं भक्तसुलभे सर्वकार्यविधायिनि ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच-
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

ओं अस्य श्री दुर्गा सप्तश्लोकी स्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः, श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।

ओं ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥

ओं दुर्गे स्मृता हरसिभीतिमशेषजन्तोः
स्वस्थैः स्मृतामतिमतीव शुभां ददासि ।
दारिद्र्यदुःख भयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्र चित्ता ॥ २ ॥

ओं सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवी नारायणी नमोऽस्तु ते ॥ ३ ॥

ओं शरणागतदीनार्त परित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ४ ॥

ओं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ५ ॥

ओं रोगानशेषानपहंसि तुष्टा-
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिताह्याश्रयतां प्रयान्ति ॥ ६ ॥

ओं सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् ॥ ७ ॥

इति श्री दुर्गा सप्तश्लोकी सम्पूर्णा ।

Also Read:

Saptashloki Durga Lyrics in English | Hindi |Kannada | Telugu | Tamil

Saptashloki Durga Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top