Templesinindiainfo

Best Spiritual Website

Shri Dakshinamurtyashtakam 2 Lyrics in Hindi | श्रीदक्षिणामूर्त्यष्टकम् २

श्रीदक्षिणामूर्त्यष्टकम् २ Lyrics in Hindi:

पायय जनमिमममृतं दुर्लभमितरस्य लोकस्य ।
नतजनपारनदीक्षित मेधाधीदक्षिणामूर्ते ॥ १॥

स्तोतुं वा नेतुं वा जडविषयासक्तहृन्न शक्रोमि ।
नैसर्गिकी कुरु कृपां मयि वटतटवास दक्षिणामूर्ते ॥ २॥

स्फुरतु मम हृदि तनुस्ते पुस्तकमुद्राक्षमालिकाकुम्भान् ।
दधती चन्द्रार्धलसच्छीर्षा श्रीदक्षिणामूर्ते ॥ ३॥

सहमान दक्षिणानन सहमानविहीनमत्कमन्तुततीः ।
सहमानत्वं त्यज वा युक्तं कुर्वत्र यद्विभाति तव ॥ ४॥

मेधाप्रज्ञे जन्ममूकोऽपि लोकः प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके ।
तं पादाम्भोजातनम्रामरालिं मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५॥

गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा
निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः ।
तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निसरेत्
तं वन्दे मुनिवृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६॥

अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा-
वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा ।
नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु-
क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७॥

शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि-
र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे ।
शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं
वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।

Shri Dakshinamurtyashtakam 2 Lyrics in Hindi | श्रीदक्षिणामूर्त्यष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top