Templesinindiainfo

Best Spiritual Website

Shri Govardhanashtakam 1 Lyrics in Hindi | श्रीगोवर्धनाष्टकम् १

श्रीगोवर्धनाष्टकम् १ Lyrics in Hindi:

प्रथमं श्रीगोवर्धनाष्टकं
नमः श्रीगोवर्धनाय ।
गोविन्दास्योत्तंसित वंशीक्वणितोद्य-
ल्लास्योत्कण्ठामत्तमयूरव्रजवीत ।
राधाकुण्डोत्तुङ्गतरङ्गाङ्कुरिताङ्ग
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ १॥

यस्योत्कर्षाद् विस्मितधीभिर्व्रजदेवी
वृन्दैर्वर्षं वणितमास्ते हरिदास्यम् ।
चित्रैर्युञ्जन स द्युतिपुञ्जैरखिलाशां
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ २॥

विन्दद्भिर्यो मन्दिरतां कन्दरवृन्दैः
कन्दैश्चेन्दोर्बन्धुभिरानन्दयतीशम् ।
वैदूर्याभैर्निर्झरतोयैरपि सोऽयं
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ३॥

शश्वद्विश्वालङ्करणालङ्कृतिमेध्यैः
प्रेम्णा धौतैर्धातुभिरुद्दीपितसानो ।
नित्याक्रन्दत्कन्दर वेणुध्वनिहर्षात्
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ४॥

प्राज्या राजिर्यस्य विराजत्युपलानां
कृष्णेनासौ सन्ततमध्यासितमध्या ।
सोऽयं बन्धुर्बन्धुरधर्मा सुरभाणां
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ५॥

निर्धुन्वानः संहृतिहेतुं घनवृन्दं
जित्वा जभारातिमसम्भावितबाधम् ।
स्वानां वैरं यः किल निर्यापितवान् सः
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ६॥

बिभ्राणो यः श्रीभुजदण्डोपरिभर्तुश्-
छत्रीभावं नाम यथार्थं स्वमकार्षीत् ।
कृष्णोपज्ञं यस्य मखस्तिष्ठति सोऽयं
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ७॥

गान्धर्वायाः केलिकलाबान्धव कुञ्जे
क्षुण्णैस्तस्याः कङ्कणहारैः प्रयताङ्ग ।
रासक्रीडामण्डितयोपत्यकयाढ्य
प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ८॥

अद्रोश्रेणीशेखर पद्याष्टकमेतत्
कृष्णाम्भोदप्रेष्ठ पठेद् यस्तव देही ।
प्रेमानन्दं तुन्दिलयन् क्षिप्रममन्दं
तं हर्षेण स्वीकुरुतां ते हृदयेशः ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां मत्तमयूराख्यं
प्रथमं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।

Shri Govardhanashtakam 1 Lyrics in Hindi | श्रीगोवर्धनाष्टकम् १

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top