Templesinindiainfo

Best Spiritual Website

Shri Govardhanashtakam 2 Lyrics in Hindi | श्रीगोवर्धनाष्टकम् २

श्रीगोवर्धनाष्टकम् २ Lyrics in Hindi:

द्वितीयं गोवर्धनाष्टकं
श्रीगोवर्धनाय नमः ।
नीलस्तम्भोज्ज्वलरुचिभरैर्मण्डिते बाहुदण्डे
छत्रच्छायां दधदघरिपोर्लब्धसप्ताहवासः ।
धारापातग्लपितमनसां रक्षिता गोकुलानां
कृष्णप्रेयान् प्रथयतु सदा शर्म गोवर्धनो नः ॥ १॥

भीतो यस्मादपरिगणयन् बान्धवस्नेहबन्धान्
सिन्धावद्रिस्त्वरितमविशत् पार्वतीपूर्वजोऽपि ।
यस्तं जम्भुद्विषमकुरुत स्तम्भसम्भेदशून्यं
स प्रौढात्मा प्रथयतु सदा शर्म गोवर्धनो नः ॥ २॥

आविष्कृत्य प्रकटमुकुटाटोपमङ्गं स्थवीयः
शैलोऽस्मीति स्फुटमभिदधत् तुष्टिविस्फारदृष्टिः ।
यस्मै कृष्णः स्वयमरसयद् वल्लवैर्दत्तमन्नं
धन्यः सोऽयं प्रथयतु सदा शर्म गोवर्धनो नः ॥ ३॥

अद्याप्यूर्जप्रतिपदि महान् भ्राजते यस्य यज्ञः
कृष्णोपज्ञं जगति सुरभीसैरिभीक्रीडयाढ्यः ।
शष्पालम्बोत्तमतटया यः कुटुम्बं पशूनां
सोऽयं भूयः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ४॥

श्रीगान्धर्वादयितसरसीपद्मसौरभ्यरत्नं
हृत्वा शङ्कोत्करपरवशैरस्वनं सञ्चरद्भिः ।
अम्भःक्षोदप्रहरिककुलेनाकुलेनानुयातै-
र्वातैर्जुष्टैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ५॥

कंसारातेस्तरिविलसितैरातरानङ्गरङ्गै-
राभीरीणां प्रणयमभितः पात्रमुन्मीलयन्त्याः ।
धौतग्रावावलिरमलिनैर्मानसामर्त्यसिन्धो-
र्वीचिव्रातैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ६॥

यस्याध्यक्षः सकलहठिनामाददे चक्रवर्ती
शुल्कं नान्यद् व्रजमृगदृशामर्पणाद् विग्रहस्य ।
घट्टस्योच्चैर्मधुकररुचस्तस्य धामप्रपञ्चैः
श्यामप्रस्थः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ७॥

गान्धर्वायाः सुरतकलहोद्दामतावावदूकैः
क्लान्तश्रोत्रोत्पलवलयिभिः क्षिप्तपिञ्छावतंसैः ।
कुञ्जैस्तल्पोपरि परिलुठद्वैजयन्तीपरीतैः
पुण्याङ्गश्रीः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ८॥

यस्तुष्टात्मा स्फुटमनुपठेच्छ्रद्धया शुद्धयान्त-
र्मेध्यः पद्याष्टकमचटुलः सुष्ठु गोवर्धनस्य ।
सान्द्रं गोवर्धनधरपदद्वन्द्वशोणारविन्दे
विन्दन् प्रेमोत्करमिह करोत्यद्रिराजे स वासम् ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगिरीन्द्रवासानन्ददं
नाम द्वितीयं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।

Shri Govardhanashtakam 2 Lyrics in Hindi | श्रीगोवर्धनाष्टकम् २

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top