Templesinindiainfo

Best Spiritual Website

Shri Smarana Ashnakam Lyrics in Hindi

Sri Smaranashnakam in Hindi:

श्रीस्मरणाष्टकम्

यदीयसौभाग्यभरेण गोकुल-
स्त्रियो न योग्यानि वचांसि सत्पतेः ।
न मानयामासुरुदारमानसा-
स्तदङ्घ्रिसेवासमयं स्मरामि ॥ १ ॥

यद्रूपसौन्दर्यवशीकृताशया
मृगीगणाः पूजनमादधुर्मुदा ।
हित्वा समीपस्थितभर्तृभीतिं
तदङ्घिसेवासमयं स्मरामि ॥ २ ॥

यद्वेणुनादश्रवणैकजात-
भावाङ्कुरा देववधूसमूहाः ।
प्रवृद्धभावा मुमुहुः सभर्तृका-
स्तदङ्घ्रिसेवासमयं स्मरामि ॥ ३ ॥

यत्पादसञ्चारणजातकाम-
भावा यदङ्केन नयत्यतल्पाम् ।
शान्तिं विचित्रा व्रजभूमिरेषा
तदङ्घ्रिसेवासमयं स्मरामि ॥ ४ ॥

यद्बाललीलाकृतचौर्यजात-
सन्तोषभावा व्रजगोपवध्वः ।
उपालभन्ते समयं यमर्भकं
तदङ्घ्रिसेवासमयं स्मरामि ॥ ५ ॥

यं गोपनारीगणदर्शनीय-
लीलं मुदा गोसुतपुच्छकर्षुकम् ।
प्रेक्षन्त्य एवोज्झितगेहकृत्याः
तङ्घ्रिसेवासमयं स्मरामि ॥ ६ ॥

यद्वाहुसंस्पर्शनजातभाव-
रसालवावर्तुलभूतविग्रहः ।
गोवर्धनो वेद न वृष्टिपातं
तदङ्घ्रिसेवासमयं स्मरामि ॥ ७ ॥

यदधरसङ्गतवेणुनिनादं
विहितविषयसुखभरनिर्वादम् ।
श्रुतवत्यो मुखभक्ष्या गावः
किं न हि कुरुते तद्गतभावः ॥ ८ ॥

इति श्रीहरिदासोदितं स्मरणाष्टकं समाप्तम् ।

Shri Smarana Ashnakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top