Templesinindiainfo

Best Spiritual Website

Shri Vidyatirtha Ashtakam Lyrics in Hindi | Shri Vidyatirtha Slokam

Sri Vidya Atirtha Ashtakam Lyrics in Hindi:

श्रीविद्यातीर्थाष्टकम्
वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे ।
विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ १॥

लम्बिकायोगनिरतमम्बिकापतिरूपिणम् ।
विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम् ॥ २॥

पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम् ।
नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम् ॥ ३॥

पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम् ।
हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम् ॥ ४॥

भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः ।
सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि योगीशम् ॥ ५॥

हृद्या विद्या वृणुते यत्पदनम्रं नरं शीघ्रम् ।
तं कारुण्यपयोधिं विद्यातीर्थं नमामि योगीशम् ॥ ६॥

विद्यां दत्त्वाविद्यां क्षिप्रं वारयति यः प्रणम्राणाम् ।
दयया निसर्गया तं विद्यातीर्थं नमामि योगीशम् ॥

विद्यारण्यप्रमुखैर्विद्यापारङ्गतैः सेव्यम् ।
अद्यापि योगनिरतं विद्यातीर्थं नमामि योगीशम् ॥ ८॥

विद्यातीर्थाष्टकमिदं पठन्भक्तिपुरःसरम् ।
विद्यामनन्यसामान्यां प्राप्य मोदमवाप्नुयात् ॥ ९॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीविद्यातीर्थाष्टकं सम्पूर्णम् ।

Shri Vidyatirtha Ashtakam Lyrics in Hindi | Shri Vidyatirtha Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top