Templesinindiainfo

Best Spiritual Website

Shuka Ashtakam | Vyasa Putra Ashtakam Lyrics in Hindi

Shuka Ashtakam (Vyasa Putra Ashtakam) in Hindi:

॥ शुकाष्टकम् ॥
भेदाभेदौ सपदिगलितौ पुण्यपापे विशीर्णे
मायामोहौ क्षयमधिगतौ नष्टसन्देहवृत्ती ।
शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ १ ॥

यस्स्वात्मानं सकलवपुषामेकमन्तर्बहिस्थं
दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकम् ।
नान्यत्कार्यं किमपि च तथा कारणाद्भिन्नरूपं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ २ ॥

यद्वन्नद्योऽम्बुधिमधिगतास्सागरत्वं प्रपन्नाः
तद्द्वज्जीवास्समरसगताः चित्स्वरूपं प्रपन्नाः ।
वाचातीते समरसघने सच्चिदानन्दरूपे
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ३ ॥

हेम्नः कार्यं हुतवहगतं हेमतामेति तद्वत्
क्षीरं क्षीरे समरसगतं तोयमेवाम्बुमध्ये ।
एवं सर्वं समरसगतं त्वं पदं तत्पदार्थे
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ४ ॥

कश्चात्राहं किमपि च भवान् कोऽयमत्र प्रपञ्चः
स्वान्तर्वेद्ये गगनसदृशे पूर्णतत्त्वप्रकाशे ।
आनन्दाख्ये समरसघने बाह्य अन्तर्विलीने
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ५ ॥

दृष्ट्वा सर्वं परमममृतं स्वप्रकाशस्वरूपं
बुध्वात्मानं विमलमचलं सच्चिदानन्दरूपम् ।
ब्रह्माधारं सकलजगतां साक्षिणं निर्विशेषं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ६ ॥

कार्याकार्यं किमपि चरतो नैवकर्तृत्वमस्ति
जीवन्मुक्तिस्स्थितिरिह गता दग्धवस्त्रावभासा ।
एवं देहे प्रचलिततया दृश्यमानस्स मुक्तो
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ७ ॥

यस्मिन् विश्वं सकलभुवनं सैन्धवं सिन्धुमध्ये
पृथ्व्यम्ब्वग्निश्वसनगगनं जीवभावक्रमेण ।
यद्यल्लीनं तदिदमखिलं सच्चिदानन्दरूपं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ८ ॥

सत्यं सत्यं परमममृतं शान्ति कल्याणहेतुं
मायारण्ये दहनममलं शान्तिनिर्वाणदीपम् ।
तेजोराशिं निगमसदनं व्यासपुत्राष्टकं यः
प्रातःकाले पठति सहसा याति निर्वाणमार्गम् ॥ ९ ॥

इति शुकाष्टकम् ।

Also Read:

Shukashtakam (Vyasa Putra Ashtakam) Lyrics in English | Hindi | Kannada | Telugu | Tamil

Shuka Ashtakam | Vyasa Putra Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top