Templesinindiainfo

Best Spiritual Website

Sri Jogulamba Ashtakam Lyrics in Hindi

Sri Jogulamba Ashtakam in Hindi:

॥ श्री जोगुलाम्बाष्टकम् ॥
महायोगिपीठस्थले तुङ्गभद्रातटे
सूक्ष्मकाश्यां सदासंवसन्तीं ।
महायोगिब्रह्मेशवामाङ्कसंस्थां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥

ज्वलद्रत्नवैडूर्यमुक्ता प्रवाल
प्रवीण्यस्थगाङ्गेयकोटीरशोभां ।
सुकाश्मीररेखाप्रभाख्य़ां स्वफाले
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥

स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां
रसत्कज्जलालिप्त पद्माभनेत्रां ।
परां पार्वतीं विद्युदाभासगात्रीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥

घनश्यामलापादसंलोक वेणीं
मनश्शङ्करारामपीयूष वाणीं ।
शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥

सुधापूर्ण गाङ्गेयकुंभस्तनाढ्यां
लसत्पीतकौशेयवस्त्रां स्वकट्यां ।
गलेरत्नमुक्तावलीपुष्पहारां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ५ ॥

शिवां शाङ्करीं सर्वकल्य़ाणशीलां
भवानीं भवांभोनिधेर्दिव्यनौकां ।
कुमारीं कुलोत्तारणीमादिविद्यां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ६ ॥

चलत्किङ्किणीं नूपुरापादपद्मां
सुरेन्द्रैर्मृगेन्द्रैर्महायोगिबृन्दैः ।
सदा संस्तुवन्तीं परं वेदविद्भिः
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ७ ॥

हरेस्सोदरीं हव्यवाहस्वरूपां
प्रसन्नां प्रपन्नार्तिहन्त्रीं प्रसिद्धां ।
महासिद्धिबुद्ध्यादिवन्द्यां परेशीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ८ ॥

इदं जोगुलाम्बाष्टकं यः पठेद्वा
प्रभाते निशार्धेऽथवा चित्तशुद्धिः ।
पृथिव्यां परं सर्वभोगाम्श्च भुक्त्वा
श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९ ॥

Also Read:

Sri Jogulamba Ashtakam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Jogulamba Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top