Durga Devi Stotram

Sri Kamakshi Suprabhatam

॥ श्रीकामाक्षीसुप्रभातम् ॥:

जगदवन विधौ त्वं जागरूका भवानि
तव तु जननि निद्रामात्मवत्कल्पयित्वा ।
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
त्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥ १ ॥

यदि प्रभातं तव सुप्रभातं
तदा प्रभातं मम सुप्रभातम् ।
तस्मात्प्रभाते तव सुप्रभातं
वक्ष्यामि मातः कुरु सुप्रभातम् ॥ २ ॥

गुरु ध्यानम्
यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं
जिव्हां गताऽसि वरदे मम मन्द बद्धः ।
यस्यांब नित्यमनघे हृदये विभासि
तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् ॥ ३ ॥

जये जयेन्द्रो गुरुणा ग्रहीतो
मठाधिपत्ये शशिशेखरेण ।
यथा गुरुस्सर्व गुणोपपन्नो
जयत्यसौ मङ्गलमातनोतु ॥ ४ ॥

शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गला
शुभं दिशतु नो देवी कामकोटी मठेशः ।
शुभं दिशतु तच्छिष्य सद्गुरुर्नो जयेन्द्रो
सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः ॥ ५ ॥

॥ शुभम् ॥
॥ श्रीः ॥
कामाक्षि देव्यंब तवार्द्रदृष्ट्या
मूकः स्वयं मूककविर्यथाऽसीत् ।
तथा कुरु त्वं परमेश जाये
त्वत्पादमूले प्रणतं दयार्द्रे ॥

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि ।
उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥ १ ॥

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम्
मृदङ्गभेरीपटहानकानाम् ।
वेदध्वनिं शिक्षितभूसुराणाम् ।
शृणोषि भद्रे कुरु सुप्रभातम् ॥ २ ॥

शृणोषि भद्रे ननु शङ्ख घोषम्
वैतालिकानां मधुरं च गानम् ।
शृणोषि मातः पिककुक्कुटानाम्
ध्वनिं प्रभाते कुरु सुप्रभातम् ॥ ३ ॥

मातर्निरीक्ष्य वदनं भगवान् शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः ।
द्रष्टुं त्वदीय वदनं भगवान् दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥ ४ ॥

पश्याम्ब केचिद् धृतपूर्णकुम्भाः
केचिद् दयार्द्रे धृतपुष्पमालाः ।
काचित् शुभाङ्गयो ननुवाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥ ५ ॥

भेरीमृदङ्गपणवानकवाद्यहस्ताः
स्तोतुं महेशदयिते स्तुतिपाठकास्त्वाम् ।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥ ६ ॥

मातर्निरीक्ष वदनं भगवान् त्वदीयम्
नैवोत्थितः शशिधिया शयितस्तवाङ्के ।
संबोधयाशु गिरिजे विमलं प्रभातम्
जातं महेशदयिते कुरु सुप्रभातम् ॥ ७ ॥

अन्तश्चरन्त्यास्तव भूषणानाम्
झल्झल्ध्वनिं नूपुरकङ्कणानाम् ।
श्रुत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥ ८ ॥

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् ।
काली तालयुगं मृदङ्गयुगलं बृन्दा च नन्दा तथा ।
नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् ॥ ९ ॥

उत्थाय देवि शयनाद्भगवान् पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् ।
नैको हि गन्तुमनघे रमते दयार्द्रे
ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् ॥ १० ॥

पश्यांब केचित्फलपुष्पहस्ताः
केचित्पुराणानि पठन्ति मातः ।
पठन्ति वेदान्बहवस्तवारे
तेषां जनानां कुरु सुप्रभातम् ॥ ११ ॥

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम्
कन्दर्पदर्पदलनोऽपि वशं गतस्ते ।
कामारिचुम्बितकपोलयुगं त्वदीयं
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १२ ॥

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
गङ्गाजलैः स्नपयितुं बहवो घटांश्च ।
धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥ १३ ॥

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः
मालाकृता विरचितानि मनोहराणि ।
माल्यानि दिव्यपदयोरपि दातुमंब
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् ॥ १४ ॥

काञ्चीकलापपरिरंभनितम्बबिम्बम्
काश्मीरचन्दनविलेपितकण्ठदेशम् ।
कामेशचुम्बितकपोलमुदारनासां
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १५ ॥

मन्दस्मितं विमलचारुविशालनेत्रम्
कण्ठस्थलं कमलकोमलगर्भगौरम् ।
चक्राङ्कितं च युगलं पदयोर्मृगाक्षि
द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् ॥ १६ ॥

मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वरप्रणयकोपहरं स्मितं ते ।
मन्दस्मितं विपुलहासमवेक्षितुं
ते मातः स्थिताः वयमये कुरु सुप्रभातम् ॥ १७ ॥

माता शिशूनां परिरक्षणार्थम्
न चैव निद्रावशमेति लोके ।
माता त्रयाणां जगतां गतिस्त्वम्
सदा विनिद्रा कुरु सुप्रभातम् ॥ १८ ॥

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि ।
श्रोतुं तवांब वचनानि शुभप्रदानि
द्वारि स्थिता वयमये कुरु सुप्रभातम् ॥ १९ ॥

दिगंबरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्टिताङ्गः ।
तथाऽपि मातस्तव देविसङ्गात्
महेश्वरोऽभूत् कुरु सुप्रभातम् ॥ २० ॥

अयि तु जननि दत्तस्तन्यपानेन देवि
द्रविडशिशुरभूद्वै ज्ञानसम्पन्नमूर्तिः ।
द्रविडतनयभुक्तक्षीरशेषं भवानि
वितरसि यदि मातः सुप्रभातं भवेन्मे ॥ २१ ॥

जननि तव कुमारः स्तन्यपानप्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि ।
प्रणवपदविशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥ २२ ॥

त्वं विश्वनाथस्य विशालनेत्रा
हालस्यनाथस्य नु मीननेत्रा ।
एकाम्रनाथस्य नु कामनेत्रा
कामेशजाये कुरु सुप्रभातम् ॥ २३ ॥

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये
त्वत्पादभक्तिभरितः फलपुष्पपाणिः ।
एकाम्रनाथदयिते तव दर्शनार्थी
तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥ २४ ॥

एकाम्रनाथदयिते ननु कामपीठे
सम्पूजिताऽसि वरदे गुरुशङ्करेण ।
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम्
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ २५ ॥

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ ।
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
त्रिपुरदलनजाये सुप्रभातं ममार्ये ॥ २६ ॥

मातस्तदीयचरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्गसरसीरुहशङ्खचिह्नम् ।
द्रष्टुं च योगिजनमानसराजहंसं
द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् ॥ २७ ॥

पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याणगुणांस्तवान्ये ।
नमन्तु पादाब्ज युगं त्वदीयाः
द्वारि स्थितानां कुरु सुप्रभातम् ॥ २८ ॥

केचित्सुमेरोः शिखरेऽतितुङ्गे
केचिन्मणिद्वीपवरे विशाले ।
पश्यन्तु केचित्त्वमृदाब्धिमध्ये
पश्याम्यहं त्वामिह सुप्रभातम् ॥ २९ ॥

शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् ।
कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं
पश्यामः सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् ॥ ३० ॥

कामप्रदाकल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम् ।
वर्षस्यमोघः कनकांबुधाराः
काश्चित्तु धाराः मयि कल्पयाशु ॥ ३१ ॥

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् ।
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके ॥ ३२ ॥

कृतज्ञता
कामाक्षि देव्यंब तवार्द्रदृष्ट्या
कृतं मयेदं खलु सुप्रभातम् ।
सद्यः फलं मे सुखमंब लब्धं
तथा च मे दुःखदशा गता हि ॥ ३३ ॥

प्रार्थना
ये वा प्रभाते पुरतस्तवार्ये
पठन्ति भक्त्या ननु सुप्रभातम् ।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम् ॥ ३४ ॥

इति लक्ष्मीकान्त शर्मा विरचितम्
श्रीकामाक्षीसुप्रभातम् समाप्तम् ॥