Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Kavacham Lyrics in Hindi

Sri Lakshmi Kavacham in Hindi:

॥ श्री लक्ष्मी कवचम् ॥
शुकं प्रति ब्रह्मोवाच –
महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।
सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १ ॥

ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २ ॥

पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।
चोरारिहारि जपतामखिलेप्सितदायकम् ॥ ३ ॥

सावधानमना भूत्वा शृणु त्वं शुक सत्तम ।
अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४ ॥

धनधान्यमहाराज्य-सर्वसौभाग्यकल्पकम् ।
सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५ ॥

क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे ।
तन्मध्ये सुस्थितां देवीं मनीषिजनसेविताम् ॥ ६ ॥

सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम् ।
पूर्णेन्दुबिम्बवदना-मर्धचन्द्रललाटिकाम् ॥ ७ ॥

इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम् ।
तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रियम् ॥ ८ ॥

कुन्दकुट्मलदन्तालिं बन्धूकाधरपल्लवाम् ।
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ॥ ९ ॥

रत्नताटङ्ककलितकर्णद्वितयसुन्दराम् ।
माङ्गल्याभरणोपेतां कंबुकण्ठीं जगत्प्रसूम् ॥ १० ॥

तारहारिमनोहारिकुचकुम्भविभूषिताम् ।
रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् ॥ ११ ॥

कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् ।
रोमराजिकलाचारुभुग्ननाभितलोदरीम् ॥ १२ ॥

पट्टवस्त्रसमुद्भासिसुनितम्बादिलक्षणाम् ।
काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम् ॥ १३ ॥

स्मरकाहलिकागर्वहारिजंघां हरिप्रियाम् ।
कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् ॥ १४ ॥

पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम् ।
सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥ १५ ॥

पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियाम् ।
नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥ १६ ॥

सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् ।
परब्रह्ममयां देवीं पद्मनाभकुटुम्बिनीम् ।
एवं ध्यात्वा महालक्ष्मीं पठेत्तत्कवचं परम् ॥ १७ ॥

ध्यानम् ।
एकं न्यञ्च्यनतिक्षमं ममपरं चाकुञ्च्यपादांबुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्त हस्तांबुजम् ।
त्वां पश्येम निषेदुषीमनुकलं कारुण्यकूलंकष-
स्फारापाङ्गतरङ्गमंब मधुरं मुग्धं मुखं बिभ्रतीम् ॥ १८ ॥

अथ कवचम् ।
महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा ।
कर्णे रक्षेद्रमा पातु नयने नलिनालया ॥ १९ ॥

नासिकामवतादम्बा वाचं वाग्रूपिणी मम ।
दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया ॥ २० ॥

चुबुकं पातु वरदा गलं गन्धर्वसेविता ।
वक्षः कुक्षिं करौ पायुं पृष्ठमव्याद्रमा स्वयम् ॥ २१ ॥

कटिमूरुद्वयं जानु जंघं पातु रमा मम ।
सर्वाङ्गमिन्द्रियं प्राणान्पायादायासहारिणी ॥ २२ ॥

सप्तधातून्स्वयं चापि रक्तं शुक्रं मनो मम ।
ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा ॥ २३ ॥

मया कृतं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा ।
ममायुरवताल्लक्ष्मीः भार्यां पुत्रांश्च पुत्रिका ॥ २४ ॥

मित्राणि पातु सततमखिलानि हरिप्रिया ।
पातकं नाशयेल्लक्ष्मीः ममारिष्टं हरेद्रमा ॥ २५ ॥

ममारिनाशनार्थाय मायामृत्युं जयेद्बलम् ।
सर्वाभीष्टं तु मे दद्यात्पातु मां कमलालया ॥ २६ ॥

फलश्रुतिः ।
य इदं कवचं दिव्यं रमात्मा प्रयतः पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् ॥ २७ ॥

दीर्घायुष्मान्भवेन्नित्यं सर्वसौभाग्यकल्पकम् ।
सर्वज्ञस्सर्वदर्शी च सुखदश्च सुखोज्ज्वलः ॥ २८ ॥

सुपुत्रो गोपतिश्श्रीमान् भविष्यति न संशयः ।
तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥ २९ ॥

नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते ।
भूतप्रेतपिशाचाद्याः सन्त्रस्ता यान्ति दूरतः ॥ ३० ॥

लिखित्वा स्थापयेद्यत्र तत्र सिद्धिर्भवेद्ध्रुवम् ।
नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् ॥ ३१ ॥

आयुष्यं पौष्टिकं मेध्यं धान्यं दुस्स्वप्ननाशनम् ।
प्रजाकरं पवित्रं च दुर्भिक्षार्तिविनाशनम् ॥ ३२ ॥

चित्तप्रसादजननं महामृत्युप्रशान्तिदम् ।
महारोगज्वरहरं ब्रह्महत्यादिशोधनम् ॥ ३३ ॥

महाधनप्रदं चैव पठितव्यं सुखार्थिभिः ।
धनार्थी धनमाप्नोति विवाहार्थी लभेद्वधूम् ॥ ३४ ॥

विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् ।
राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुक ॥ ३५ ॥

एतद्देव्याः प्रसादेन शुकः कवचमाप्तवान् ।
कवचानुग्रहेणैव सर्वान्कामानवाप सः ॥ ३६ ॥

इति शुकं प्रति ब्रह्मप्रोक्त श्री लक्ष्मी कवचम् ।

Also Read:

Sri Lakshmi Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top