Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Shadakshara Ashtottara Shatanama Stotram Lyrics in Sanskrit

Sri Subrahmanya Shadakshara Ashtottara Shatanama Stotram Sanskrit Lyrics:

षडक्षराष्टोत्तरशतनाम स्तोत्रम्
शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः ।
शरकाननसम्भूतः शर्वरीशमुखः शमः ॥ १ ॥

शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः ।
शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥ २ ॥

शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः ।
शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥ ३ ॥

रणाग्रणी रक्षणकृद्रक्षोबलविमर्दनः ।
रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥ ४ ॥

रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः ।
रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥ ५ ॥

रमाकलत्रजामाता रहस्यो रघुपूजितः ।
रसकोणान्तरालस्थो रजोमूर्ती रतिप्रदः ॥ ६ ॥

वसुदो वटुरूपश्च वसन्तऋतुपूजितः ।
वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥ ७ ॥

वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः ।
वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥ ८ ॥

वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः ।
वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥ ९ ॥

नकाररूपो नलिनो नकारयुतमन्त्रकः ।
नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥ १० ॥

नटेशपुत्रो नम्रभ्रूर्नक्षत्रग्रहनायकः ।
नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥ ११ ॥

नवनागो नगहरो नवग्रहसुवन्दितः ।
नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥ १२ ॥

भद्रप्रदश्च भगवान् भवारण्यदवानलः ।
भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥ १३ ॥

भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः ।
भक्तिगम्यो भक्तनिधिर्भयक्लेशविमोचनः ॥ १४ ॥

भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः ।
भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥ १५ ॥

वरुणो वरुणाराध्यो वलारातिमुखस्तुतः ।
वज्रशक्त्यायुधोपेतो वरो वक्षःस्थलोज्ज्वलः ॥ १६ ॥

वस्तुरूपो वशिध्येयो वलित्रयविराजितः ।
वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥ १७ ॥

वचोरूपो वचनदो वचोऽतीतचरित्रकः ।
वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥ १८ ॥

इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामस्तोत्रम् ।

Also Read:

Sri Subrahmanya Shadakshara Ashtottara Shatanama Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Shadakshara Ashtottara Shatanama Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top