Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Vajra Panjara Kavacham Lyrics in Sanskrit

Sri Subrahmanya Vajra Panjara Kavacham Sanskrit Lyrics:

श्री सुब्रह्मण्य वज्रपञ्जर कवचम्
अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः श्री सुब्रह्मण्यो देवता, सं बीजं, स्वाहा शक्तिः, सः कीलकं, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

न्यासः –
हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः ।
इक्षुधनुर्धराय तर्जनीभ्यां नमः ।
शरवणभवाय मध्यमाभ्यां नमः ।
शिखिवाहनाय अनामिकाभ्यां नमः ।
शक्तिहस्ताय कनिष्ठिकाभ्यां नमः ।
सकलदुरितमोचनाय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥

ध्यानम् ।
कनककुण्डलमण्डितषण्मुखं
वनजराजि विराजित लोचनम् ।
निशित शस्त्रशरासनधारिणं
शरवणोद्भवमीशसुतं भजे ॥

लमित्यादि पञ्चपूजा कुर्यात् ।

अगस्त्य उवाच ।
स्कन्दस्य कवचं दिव्यं नाना रक्षाकरं परम् ।
पुरा पिनाकिना प्रोक्तं ब्रह्मणोऽनन्तशक्तये ॥ १ ॥

तदहं सम्प्रवक्ष्यामि भद्रं ते शृणु नारद ।
अस्ति गुह्यं महापुण्यं सर्वप्राणि प्रियङ्करम् ॥ २ ॥

जपमात्रेण पापघ्नं सर्वकामफलप्रदम् ।
मन्त्रप्राणमिदं ज्ञेयं सर्वविद्यादिकारकम् ॥ ३ ॥

स्कन्दस्य कवचं दिव्यं पठनाद्व्याधिनाशनम् ।
पिशाच घोरभूतानां स्मरणादेव शान्तिदम् ॥ ४ ॥

पठितं स्कन्दकवचं श्रद्धयानन्यचेतसा ।
तेषां दारिद्र्यदुरितं न कदाचिद्भविष्यति ॥ ५ ॥

भूयः साम्राज्यसंसिद्धिरन्ते कैवल्यमक्षयम् ।
दीर्घायुष्यं भवेत्तस्य स्कन्दे भक्तिश्च जायते ॥ ६ ॥

अथ कवचम् ।
शिखां रक्षेत्कुमारस्तु कार्तिकेयः शिरोऽवतु ।
ललाटं पार्वतीसूनुः विशाखो भ्रूयुगं मम ॥ ७ ॥

लोचने क्रौञ्चभेदी च नासिकां शिखिवाहनः ।
कर्णद्वयं शक्तिधरः कर्णमूलं षडाननः ॥ ८ ॥

गण्डयुग्मं महासेनः कपोलौ तारकान्तकः ।
ओष्ठद्वयं च सेनानीः रसनां शिखिवाहनः ॥ ९ ॥

तालू कलानिधिः पातु दन्तां देवशिखामणिः ।
गाङ्गेयश्चुबुकं पातु मुखं पातु शरोद्भवः ॥ १० ॥

हनू हरसुतः पातु कण्ठं कारुण्यवारिधिः ।
स्कन्धावुमासुतः पातु बाहुलेयो भुजद्वयम् ॥ ११ ॥

बाहू भवेद्भवः पातु स्तनौ पातु महोरगः ।
मध्यं जगद्विभुः पातु नाभिं द्वादशलोचनः ॥ १२ ॥

कटिं द्विषड्भुजः पातु गुह्यं गङ्गासुतोऽवतु ।
जघनं जाह्नवीसूनुः पृष्ठभागं परन्तपः ॥ १३ ॥

ऊरू रक्षेदुमापुत्रः जानुयुग्मं जगद्धरः ।
जङ्घे पातु जगत्पूज्यः गुल्फौ पातु महाबलः ॥ १४ ॥

पादौ पातु परञ्ज्योतिः सर्वाङ्गं कुक्कुटध्वजः ।
ऊर्ध्वं पातु महोदारः अधस्तात्पातु शाङ्करिः ॥ १५ ॥

पार्श्वयोः पातु शत्रुघ्नः सर्वदा पातु शाश्वतः ।
प्रातः पातु परं ब्रह्म मध्याह्ने युद्धकौशलः ॥ १६ ॥

अपराह्ने गुहः पातु रात्रौ दैत्यान्तकोऽवतु ।
त्रिसन्ध्यं तु त्रिकालज्ञः अन्तस्थं पात्वरिन्दमः ॥ १७ ॥

बहिस्थितं पातु खढ्गी निषण्णं कृत्तिकासुतः ।
व्रजन्तं प्रथमाधीशः तिष्ठन्तं पातु पाशभृत् ॥ १८ ॥

शयने पातु मां शूरः मार्गे मां पातु शूरजित् ।
उग्रारण्ये वज्रधरः सदा रक्षतु मां वटुः ॥ १९ ॥

फलशृतिः ।
सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् ।
मन्त्राणां परमं मन्त्रं रहस्यं सर्वदेहिनाम् ॥ २० ॥

सर्वरोगप्रशमनं सर्वव्याधिविनाशनम् ।
सर्वपुण्यप्रदं दिव्यं सुभगैश्वर्यवर्धनम् ॥ २१ ॥

सर्वत्र शुभदं नित्यं यः पठेद्वज्रपञ्जरम् ।
सुब्रह्मण्यः सुसम्प्रीतो वाञ्छितार्थान् प्रयच्छति ।
देहान्ते मुक्तिमाप्नोति स्कन्दवर्मानुभावतः ॥ २२ ॥

इति स्कान्दे अगस्त्यनारदसंवादे सुब्रह्मण्य कवचम् ।

Also Read:

Sri Subrahmanya Vajra Panjara Kavacham lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Vajra Panjara Kavacham Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top