Templesinindiainfo

Best Spiritual Website

Svaprabhusvarupanirupana Ashtakam Lyrics in Hindi

Svapra Bhusvarupani Rupana Ashtakam Lyrics in Hindi:

स्वप्रभुस्वरूपनिरूपणाष्टकम्

स्वामिनीभावगौरस्य स्वस्वरूपं प्रपश्यतः ।
कटाक्षैर्विठ्ठलेशस्य श्यामताचित्रितं वपुः ॥ १ ॥

स्वास्मिन्नभयभावेन स्वेषामुभयरूपताम् ।
स्पष्टं बोधयितुं गौरश्यामः श्रीविठ्ठलेश्वरः ॥ २ ॥

निजाचार्योदितस्वीयमार्गसेव्यस्वरूपताम् ।
बोधयन्नभयात्माऽयं गौरश्यामो विराजते ॥ ३ ॥

रसस्य द्विविधस्यापि स्वरूपे बोधयन् स्थितिम् ।
ऐक्यं विरुद्धधर्मत्वाद्गौरश्यामः कृपानिधिः ॥ ४ ॥

स्त्रीभावभगवद्भावोभयात्मेति विबोधितुम् ।
स्वस्वरूपं हरिर्गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ५ ॥

भावात्मकत्वतो दृष्टिर्हासलीलाकृतिस्तथा ।
अतो विलोक्यते गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ६ ॥

निजानन्दप्रदानेन व्यवधाने दिवानिशम् ।
न करोति व्रजस्थानमिति श्रीमत्प्रभुस्तथा ॥ ७ ॥

सर्वात्मकामभावात्मस्वरूपं बोधयन्प्रभुः ।
श्रीविठ्ठलेश्वरोऽस्माकं गौरश्यामो विराजते ॥ ८ ॥

इति श्रीहरिदासोदितं स्वप्रभुस्वरूपनिरूयणाष्टकं सम्पूर्णम् ।

Svaprabhusvarupanirupana Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top